मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३०८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 308

तस्मान्नारायणात्पूर्वे किंचिदीशानसंस्थितम्

ईश्वर उवाच

तस्मान्नारायणात्पूर्वे किंचिदीशानसंस्थितम् ॥

मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रयं

॥१॥

यत्र लिंगं पुराऽस्माकं पातितं त्वृषिभिः प्रिये ॥

क्रोधरक्तेक्षणैर्देवि मूलचण्डीशता? गतम्

॥२॥

आद्यं लिंगोद्भवं देवि ऋषिकोपान्निपातितम् ॥

ये केचिदृषयस्तत्र देवदारुवने स्थिताः

॥३॥

कालांतरे महादेवि अहं तत्र समागतः ॥

तेषां जिज्ञासया देवि ततस्ते रोषिता भवन् ॥

शप्तस्ततोऽहं देवेशि चक्रुर्मे लिंगपातनम्

॥४॥

देव्युवाच

रोषोपहतसद्भावाः कथमेते द्विजातयः ॥

संजाता एतदाख्याहि परं कौतूहलं मम

॥५॥

ईश्वर उवाच

डिंडि रूपः पुरा देवि भूत्वाऽहं दारुके वने ॥

ऋषीणामाश्रमे पुण्ये नग्नो भिक्षाचरोऽभवम् ॥

भिक्षंतमाश्रमे दृष्ट्वा ताः सर्वा ऋषियोषितः

॥६॥

कामस्य वशमापन्नाः प्रियमुत्सृज्य सर्वतः ॥

तमूर्ध्वलिंगमालोक्य जटामुकुटधारिणम्

॥७॥

भिक्षंतं भस्मदिग्धांगं झषकेतुमिवापरम् ॥

विक्षोभिताश्च नः सर्वे दारा एतेन डिंडिना

॥८॥

तस्माच्छापं च दास्याम ऋषयस्ते तदाऽब्रुवन् ॥

ततः शापोदकं गृह्य संध्यात्वाऽथ तपोधनाः

॥९॥

अस्य लिंगमधो यातु दृश्यते यत्सदोन्नतम् ॥

इत्युक्ते पतितं लिंगं तत्र देवकुले मम

॥१०॥

मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रये ॥

तल्लिंगं पतितं दृष्ट्वा कोपोपहतचेतसः ॥

पुनर्हंतुं समारब्धा डिंडिनं ते तपोधनाः

॥११॥

वृसिकापाणयः केचित्कमंडलुधराः परे ॥

गृहीत्वा पादुकाश्चान्ये तस्य धावंति पृष्ठतः

॥१२॥

डिंडिश्चांतर्हितो भूत्वा त्वामुवाच सुमध्यमाम् ॥

रोषोपहतचेतस्कान्पश्यैतांस्त्वं तपोधनान्

॥१३॥

एतस्मात्कारणाद्देवि तव वाक्यान्मयाऽनघे ॥

न कृतोऽनुग्रहस्तेषां सरोषाणां तपस्विनाम्

॥१४॥

अत्रांतरे ते मुनयो ह्यपश्यंतो हि डिंडिनम् ॥

निरानंदं गताः सर्वे द्रष्टुं देवं पितामहम्

॥१५॥

तं दृष्ट्वा विबुधेशानं विरंचिं विगतज्वरम् ॥

प्रणम्य शिरसा सर्व ऋषयः प्राहुरंजसा

॥१६॥

भगवन्डिंडि रूपेण कश्चिदस्ति तपोधनः ॥

विध्वंसनाय दाराणां प्रविष्टः किल भिक्षितुम्

॥१७॥

शप्तोऽस्माभिस्तु दुर्वृत्तस्तस्य लिंगं निपातितम् ॥

तस्मिन्निपतितेऽस्माकं तथैव पतितानि च

॥१८॥

गतोऽसौ कारणात्तस्मात्तल्लिंगे पतिते वयम् ॥

निरानंदाः स्थिताः सर्व आचक्ष्वैतद्धि कारणम्

॥१९॥

ब्रह्मोवाच

अशोभनमिदं कार्यं युष्माभिर्यत्कृतं महत्।

रुद्रस्यातिसुरूपस्य सेर्ष्या ये हन्तुमुद्यताः

॥२०॥

आसुरीं दानवीं दैवीं यक्षिणीं किंनरीं तथा ॥

विद्याधरीं च गन्धर्वीं नागकन्यां मनोरमाम् ॥

एता वरस्त्रियस्त्यक्त्वा युष्मदीयासु तास्वपि

॥२१॥

आह्लादं कुरुते सर्वे नैव जानीत भो द्विजाः ॥

त्रैलोक्यनायकां सर्वां रूपातिशयसंयुताम्

॥२२॥

तां त्यक्त्वा मुनिपत्नीनामाह्लादं कुरुते कथम् ॥

तया रुद्रो हि विज्ञप्त ऋषीणां कुर्वनुग्रहम्

॥२३॥

तेन वाक्येन पार्वत्या जिज्ञासार्थं कृतं मनः ॥

चतुर्द्दशविधस्यापि भूतग्रामस्य यः प्रभुः

॥२४॥

स शप्तो डिंडिरूपस्तु भवद्भिः करणेश्वरः ॥

तच्छापाच्छप्तमेवैतत्समस्तं तद्गुणास्पदम् ॥

देवतिर्यङ्मनुष्याणां निरानंदमिति स्थितम्

॥२५॥

शापेनानेन भवतां महा दोषः प्रजायते ॥

आराध्यं नान्यथा लिंगमुन्नतिं यात्यधोगतम्

॥२६॥

एवमुक्तेऽथ देवेन विप्रा ऊचुः पितामहम् ॥

द्रष्टव्यः कुत्र सोऽस्माभिः कथयस्व यथास्थितम्

॥२७॥

ब्रह्मोवाच

आस्ते गजस्वरूपेण कुबेराश्रमसंस्थितः ॥

तत्र गत्वा तमासाद्य तोषयध्वं पिनाकिनम्

॥२८॥

एतच्छ्रुत्वा वचस्तस्य सर्वे ते हृष्टमानसाः ॥

गंतुं प्रवृत्ताः सहसा कोटिसंख्यास्तपोधनाः

॥२९॥

चिंतयंतः शुभं देशं द्रष्टुं तं गजरूपिणम् ॥

रुद्रं पितामहाख्यातं कुबेराश्रमवासिनम्

॥३०॥

क्षुत्कामकंठास्तृषितान्गौरी मत्वा तपोधनान् ॥

आदाय गोरसं तेषां कारुण्यात्सा पुरः स्थिता

॥३१॥

असितां कुटिलां स्निग्धामायतां भुजगीमिव ॥

वेणीं शिरसि बिभ्राणा गौरी गोरससंयुता

॥३२॥

सा तानाह मुनीन्सर्वान्यन्मया पर्वताहृतम् ॥

कपित्थफलसंगंधं गोरसं त्वमृतोपमम्

॥३३॥

तयैवमुक्ता विप्रास्तु आहुस्तां विपुलेक्षणाम् ॥

स्नात्वा च सर्वे पास्यामो गोरसं तु त्वयाहृतम्

॥३४॥

ततः श्रुत्वा तथा देव्या स्नानार्थं तीर्थमुत्तमम् ॥

तप्तोदकेनसंपूर्णं कृतं कुण्डं मनोरमम्

॥३५॥

तत्र ते संप्लुताः सर्वे विमुक्ता विपुलाच्छ्रमात् ॥

कृताऽऽह्ना गोरसस्वैव पानार्थं समुपस्थिताः

॥३६॥

पत्रैर्दिवाकरतरोर्विधाय पुटकाञ्छुभान् ॥

उपविश्य क्रमात्सर्वे ते पिबंति स्म गोरसम्

॥३७॥

गोरसेन तदा तेषाममृतेनेव पूरितान् ॥

बुभुक्षितानां पुटकान्मुनीनां तृप्तिकारणात्

॥३८॥

पुनः पूरयते गौरी पीत्वा ते तृप्तिमागताः ॥

क्षुत्तृषाश्रमनिर्मुक्ताः पुनर्जाता इव स्थिताः

॥३९॥

स्वस्थचित्तैस्ततो ज्ञात्वा नेयं गोपालिसंज्ञिका ॥

अनुग्रहार्थमस्माकं गौरीयं समुपागता

॥४०॥

प्रणम्य शिरसा सर्वे तामूचुस्ते सुमध्यमाम् ॥

उमे कथय कुत्रस्थं द्रक्ष्यामो रुद्रमेकदा

॥४१॥

तथोक्तास्ते महात्मानस्तं पश्यत महागजम् ॥

गजतां च समासाद्य संचरंतं महाबलम्

॥४२॥

भवद्भिर्निजभक्त्यायं संग्राह्यो हि यथासुखम् ॥

ते तद्वचनमासाद्य समेत्यैकत्र च द्विजाः

॥४३॥

पवित्रास्तं गजं द्रष्टुं भावितेनांतरात्मना ॥

यत्रैकत्र स्थिता विप्रास्तत्र तीर्थं महोदयम् ॥

संगमेश्वरसंज्ञं तु पूर्वं सर्वत्र विश्रुतम्

॥४४॥

ततस्तस्मात्प्रवृत्तास्ते द्रष्टुकामा महागजम् ॥

कुंडिकाः संपरित्यज्य संनह्यात्मानमात्मना

॥४५॥

यत्र ताः कुंडिकास्त्यक्तास्तत्तीर्थं कुण्डिकाह्वयम् ॥

सर्वपापहरं पुंसां दृष्टाऽदृष्टफलप्रदम्

॥४६॥

कुबेरस्याश्रमं प्राप्य ततस्ते मुनिसत्तमाः ॥

नालिकेरवनीसंस्थं ददृशुस्तं द्विपं तदा

॥४७॥

करे ग्रहीतुमारब्धाः स्वकरैर्हृष्टमानसाः ॥

गजस्तान्करसंलग्नान्विचिक्षेप तपोधनान्

॥४८॥

काश्चिदंगसमालग्नान्समंताद्भयवर्जितान् ॥

एवं स तैः पुनः सर्वैर्मशकैरिव चेष्टितम्

॥४९॥

क्रीडां करोति विविधां वनसंस्थो हरद्विपः ॥

तद्रूपं संपरित्यज्य रुद्रो रौद्रगजात्मकम्

॥५०॥

पुनरन्यच्चकारासौ डिंडिरूपं मनोरमम् ॥

जयशब्दप्रघोषेण वेदमङ्गलगीतकैः

॥५१॥

उन्नामितं पुनस्तेन यत्र लिंगं महोदयम् ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्

॥५२॥

गजरूपधरस्तत्र स्थितः स्थाने महाबलः ॥

गणनाथस्वरूपेण ह्युन्नतो जगति स्थितः

॥५३॥

डिंडिरूप धरो भूत्वा रुद्रः प्राह तपोधनान् ॥

यन्मया भवतां कार्यं कर्तव्यं तदिहोच्यताम्

॥५४॥

एवमुक्तस्तु तैरुक्तः सर्वज्ञानक्रियापरैः ॥

सानन्दाः प्राणिनः संतु त्वत्प्रसादात्पुरा यथा

॥५५॥

क्षंतव्यं देवदेवेश कृतं यन्मूढमानसैः ॥

त्वत्प्रसादात्सुरेशान तत्त्वं सानुग्रहो भव

॥५६॥

एवमस्त्विति तेनोक्तास्ते सर्वे विगतज्वराः ॥

तल्लिंगानुकृतिं लिंगमीजिरे मुनयस्तथा ॥

चक्रुस्ते मुनयः सर्वे स्तुतिं विगतमत्सराः

॥५७॥

क्षमस्व देवदेवेश कुर्वस्माकमनुग्रहम् ॥

अस्मिँल्लिंगे लयं गच्छ मूलचण्डीशसंज्ञके ॥

त्रिकालं देवदेवेश ग्राह्या ह्यत्र कला त्वया

॥५८॥

ईश्वर उवाच

चण्डी तु प्रोच्यते देवी तस्या ईशस्त्वहं स्मृतः ॥

तस्य मूलं स्मृतं लिंगं तदत्र पतितं यतः

॥५९॥

तस्मात्तन्मूल चण्डीश इति ख्यातिं गमिष्यति ॥

वा पीकूपतडागानां शतैस्तु विपुलैरपि

॥६०॥

कृतैर्यज्जायते पुण्यं तत्पुण्यं लिंगदर्शनात् ॥

ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात्

॥६१॥

तत्पुण्यं लभते देवि मूलचण्डीशदर्शनात् ॥

तत्र दानानि देयानि षोडशैव नरोत्तमैः

॥६२॥

एवं तद्भविता सर्वं यन्मयोक्तं द्विजोत्तमाः ॥

यात दारुवनं विप्राः सर्वे यूयं तपोधनाः ॥

मया सर्वे समादिष्टा यात दारुवनं द्विजाः

॥६३॥

ततस्तु संप्राप्य महद्वचो मम सर्वे प्रहृष्टा मुनयो महोदयम् ॥

गत्वा च तद्दारुवनं महेश्वरि पुनश्च चेरुः सुतपस्तपोधनाः

॥६४॥

एतस्मात्कारणाद्देवि मूलचण्डीशसंज्ञितम् ॥

लिंगं पापहरं नृणामर्द्धचन्द्रेण भूषितम्

॥६५॥

दोहनी दुग्थदानेन मुनीनां तृषितात्मनाम् ॥

श्रमापहारं यद्देवि त्वया कृतमनुत्तमम् ॥

तत्तप्तोदकनाम्ना वा अभूत्कुण्डं धरातले

॥६६॥

ऋषितोयाजले स्नात्वा चण्डीशं यः प्रपूजयेत् ॥

स प्रचण्डो भवेद्भूमौ भुवनानामधीश्वरः

॥६७॥

एतत्संक्षेपतो देवि माहात्म्यं कीर्तितं तव ॥

मूलचण्डीशदेवस्य श्रुतं पातकनाशनम्

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदककुण्डोत्पत्तौ मूलचण्डीशोत्पत्तिमाहात्म्यवर्णनंनामाष्टोत्तर त्रिशततमोऽध्यायः ॥ ३०८ ॥