मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १९५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 195

वृद्धप्रभासमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो वृद्धप्रभासं तु गच्छेच्च नियतात्मवान् ॥

आदिप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम्

॥१॥

चतुर्मुखं महालिंगं दर्शनात्पापनाशनम्

॥२॥

श्रीदेव्युवाच

कथं वृद्धप्रभासं तु नाम तस्याभवत्प्रभो ॥

तस्मिन्दृष्टे फलं किं स्यात्स्तुते संपूजिते तथा

॥३॥

एतत्कथय मे देव संक्षेपान्नातिविस्तरात्

॥४॥

ईश्वर उवाच

आदौ स्वायंभुवे देवि पूर्वमन्वन्तरे पुरा ॥

त्रेतायुगे चतुर्थे तु प्रभासे क्षेत्र उत्तमे

॥५॥

तस्मिन्काले महादेवि पूर्वमन्वंतरे पुरा ॥

त्रेतायुगे चतुर्थे तु ऋषयस्तत्र संगताः

॥६॥

दर्शनार्थं प्रभासस्य उत्तरापथगामिनः ॥

तं दृष्ट्वाऽऽच्छादितं देवं वज्रेण तु महेश्वरि

॥७॥

विषादं परमं जग्मुर्वाक्यं चेदमथाबुवन् ॥

अदृष्ट्वा शांकरं लिगं न यास्यामो वयं गृहम्

॥८॥

स्वर्गार्थिनो वयं प्राप्ता महदध्वानमेव हि ॥

तस्मादत्रैव तिष्ठामो यावल्लिंगस्य दर्शनम्

॥९॥

एवं ते निश्चयं कृत्वा परस्मिंस्तपसि स्थिताः ॥

वर्षास्वाकाशगा भूत्वा हेमंते सलिलाश्रयाः

॥१०॥

पञ्चाग्निसाधना ग्रीष्मे नियता ब्रह्मचारिणः ॥

बहून्वर्षगणान्विप्रा जराग्रस्तास्तदाऽभवन्

॥११॥

एवं वृद्धत्वमापन्ना यदा ते वरवर्णिनि ॥

छन्द्यमाना वरैस्ते तु शंकरेण महात्मना

॥१२॥

लिंगस्य दर्शनं मुक्त्वा न तेऽन्यं वव्रिरे वरम्

॥१३॥

तेषां तु निश्चयं ज्ञात्वा सर्वेषां वृषभध्वजः ॥

अनुकम्पापरो भूत्वा स्वलिंगं तानदर्शयत्

॥१४॥

एतस्मिन्नेव काले तु भित्त्वा चैव वसुन्धराम् ॥

उत्थितं सहसा लिंगं तदेव वरवर्णिनि

॥१५॥

ऋषयस्ते च तं दृष्ट्वा सर्वे च त्रिदिवं गताः ॥

अथ तेषु प्रयातेषु शक्रस्तप्तमना ह्यभूत्

॥१६॥

तमपि च्छादयामास वज्रेण शतपर्वणा

॥१७॥

वृद्धभावे यतस्तेषामृषीणां दर्शनं गतः ॥

अतो वृद्धप्रभासं तत्कीर्त्यते वसुधातले

॥१८॥

! तस्मिन्दृष्टे वरारोहे अद्यापि लभते फलम् ॥

राजसूयाश्वमेधानां नरो भक्तिसमन्वितः

॥१९॥

एवं तत्र समुत्पन्नं प्रभासं वृद्धसंज्ञकम् ॥

तत्रोक्षा ब्राह्मणे देयः सम्यग्यात्राफलेप्सुभिः

॥२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृद्धप्रभासमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ १९५ ॥