मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ५२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 52

पंचाथ सिद्धलिंगानि कथयामि यशस्विनि

ईश्वर उवाच

पंचाथ सिद्धलिंगानि कथयामि यशस्विनि ॥

येषां दर्शनतो देवि सिद्धा यात्रा भवेन्नृणाम्

॥१॥

सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥

तस्याश्च पूर्वदिग्भागे देवं सिद्धेश्वरं परम् ॥

अभिगम्य नरो भक्त्या अणिमादिकमाप्नुयात्

॥२॥

सिद्धैः प्रतिष्ठितं लिंगं दृष्ट्वा भक्त्या तु मानवः ॥

मुच्यते पातकैः सर्वैः सिद्धलोकं स गच्छति

॥३॥

विघ्नानि नाशमायांति तत्र क्षेत्रनिवासिनाम् ॥

कामः क्रोधो भय लोभो रागो मत्सर एव च

॥४॥

ईर्ष्या दंभस्तथाऽऽलस्यं निद्रा मोहस्त्वहंकृतिः ॥

एतानि विघ्नरूपाणि सिद्धेर्विघ्नकराणि तु

॥५॥

तानि नाशं समायांति तत्र सिद्धे श्वरार्चनात् ॥

एवं ज्ञात्वा तु यत्नेन तत्र यात्रां समाचरेत्

॥६॥

इत्येवं कथितं देवि सिद्धेश्वरमहोदयम् ॥

सर्वकामप्रदं नृणां श्रुतं पातकनाशनम्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥