मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ११७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 117

भूतनाथेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि भूतनाथेश्वरं हरम् ॥

कुण्डेश्वर्या ईशभागे धनुषां विंशकेऽन्तरे

॥१॥

कल्पलिंगं महादेवि ह्यनादिनिधनं स्थितम् ॥

पूर्वं त्रेतायुगे देवि वीरभद्रेश्वरीति च

॥२॥

प्रख्यातं भुवि देवेशि कलौ भूतेश्वरं स्मृतम् ॥

पुरा द्वापरसंधौ च तत्र भूतानि कोटिशः

॥३॥

संसिद्धिं परमां जग्मुस्तल्लिंगस्य प्रभावतः ॥

तेन भूतेश्वरं नाम प्रख्यातं धरणीतले

॥४॥

तत्र कृष्णचतुर्द्दश्यां रात्रौ संपूज्य शंकरम् ॥

दक्षिणां दिशमाश्रित्य अघोरं पूजयेत्तु यः

॥५॥

दृढं जितेन्द्रियो भूत्वा निर्भयो ध्यानसंयु तः ॥

तस्यैव जायते सिद्धिर्या काचिद्भूतले स्थिता

॥६॥

तिलहेमप्रदानं च पिण्डदानं च तत्र वै ॥

पितॄनुद्दिश्य दद्याद्वै तेषां प्रेतत्वमुक्तये

॥७॥

इति निगदितमेतद्भूतनाथेश्वरस्य प्रचुरकलिमलानां नाशनं पुण्यहेतुः ॥

पठति च पुरुषो वा यः शृणोतीह भक्त्या सुरवरमहिमानं मुच्यते पातकौघैः

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुंडेश्वरी माहात्म्ये भूतनाथेश्वरमाहात्म्यवर्णनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥ ११७ ॥