उत्तंकेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि उत्तंकेश्वरमुत्तमम् ॥
तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम् ॥
स्थापितं च स्वयं भक्त्या उत्तंकेन महात्मना
॥१॥तद्दृष्ट्वा तु महादेवि स्पृष्ट्वा च सुसमाहितः ॥
संपूज्य विधिवद्भक्त्या मुच्यते सर्वकिल्बिषात्
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उत्तंकेश्वरमाहात्म्य वर्णनंनाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥