मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १३९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 139

ततो गच्छेन्महादेवि चित्रादित्यमनुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि चित्रादित्यमनुत्तमम् ॥

तस्यैव दक्षिणे भागे ब्रह्मकुण्डसमीपतः

॥१॥

महाप्रभावो देवेशि सर्वदारिद्र्यनाशनः ॥

मित्रो नाम पुरा देवि धर्मात्माऽभूद्धरातले ॥

कायस्थः सर्वभूतानां नित्यं भूतहिते रतः

॥२॥

तस्यापत्यद्वयं जज्ञ ऋतुकालाभिगामिनः ॥

पुत्रः परमतेजस्वी चित्रोनाम वरानने

॥३॥

तथा चित्राऽभवत्कन्या रूपाढ्या शीलमंडना

॥४॥

आभ्यां तु जातमात्राभ्यां मित्रः पञ्चत्वमेयिवान् ॥

अथ तस्य वरा भार्या सह तेनाग्निमाविशत्

॥५॥

अथ तौ बालकौ दीनावृषिभिः परिपालितौ ॥

वृद्धिं गतौ महारण्ये बालावेव स्थितौ व्रते

॥६॥

प्रभासं क्षेत्रमासाद्य तपः परममास्थितौ ॥

प्रतिष्ठाप्य महा देवं भास्करं वारितस्करम्

॥७॥

पूजयामास धर्मात्मा धूपमाल्यानुलेपनैः ॥

वसिष्ठकथितैश्चैव ह्यष्टषष्टिसमन्वितैः ॥

नामभिः सूर्यदेवेशं तुष्टाव प्राञ्जलिः प्रभुम्

॥८॥

चित्र उवाच

प्रणम्य शिरसा देवं भास्करं गगनाधिपम् ॥

आदिदेवं जगन्नाथं पापघ्नं रोगनाशनम्

॥९॥

सहस्राक्षं सहस्रांशुं सहस्रकिरणद्युतिम्

॥१०॥

तमहं संस्तविष्यामि संपृक्तं गुह्यनामभिः ॥

मुंडीरस्वामिनं प्रातर्गंगासागरसंगमे ॥

कालप्रियं तु मध्याह्ने यमुनातीरमाश्रितम्

॥११॥

मूलस्थानं चास्तमने चन्द्रभागातटे स्थितम् ॥

यत्र सांबः स्वयं सिद्ध उपवासपरायणः

॥१२॥

वाराणस्यां लोहिताक्षं गोभिलाक्षे बृहन्मुखम् ॥

प्रयागेषु प्रतिष्ठानं वृद्धादित्यं महाद्युतिम्

॥१३॥

कोट्यक्षे द्वादशादित्यं गंगादित्यं चतुर्घटे ॥

नैमिषे चैव गोघ्ने च भद्रं भद्रपुटे स्थितम्

॥१४॥

जयायां विजयादित्यं प्रभासे स्वर्णवेतसम् ॥

कुरुक्षेत्रे च सामंतं त्रिमंत्रं च इलावृते

॥१५॥

महेन्द्रे क्रमणादित्यमृणे सिद्धेश्वरं विदुः ॥

कौशांब्यां पद्मबोधं च ब्रह्मबाहौ दिवाकरम्

॥१६॥

केदारे चण्डकांतिं च नित्ये च तिमिरापहम् ॥

गंगामार्गे शिवद्वारमादित्यं भूप्रदी पने

॥१७॥

हंसं सरस्वतीतीरे विश्वामित्रं पृथूदके ॥

उज्जयिन्यां नरद्वीपं सिद्धायाममलद्युतिम्

॥१८॥

सूर्यं कुन्तीकुमारे च पञ्चनद्यां विभावसुम् ॥

मथुरायां विमलादित्यं संज्ञादित्यं तु संज्ञिके

॥१९॥

श्रीकण्ठे चैव मार्तण्डं दशार्णे दशकं स्मृतम् ॥

गोधने गोपतिं देवं कर्णं चैव मरुस्थले

॥२०॥

पुष्पं देवपुरे चैव केशवार्कं तु लोहिते ॥

वैदिशे चैव शार्दूलं शोणे वारुणवासिनम्

॥२१॥

वर्धमाने च सांबाख्यं कामरूपे शुभंकरम् ॥

मिहिरं कान्यकुब्जे च मंदारं पुण्यवर्धने

॥२२॥

गन्धारे क्षोभणादित्यं लंकायाममरद्युतिम् ॥

कर्णादित्यं च चंपायां प्रबोधे शुभदर्शिनम्

॥२३॥

द्वारा वत्यां तु पार्वत्यं हिमवन्ते हिमापहम् ॥

महातेजं तु लौहित्ये अमलांगे च धूजटिम्

॥२४॥

रोहिके तु कुमाराख्यं पद्मायां पद्मसंभवम् ॥

धर्मादित्यं तु लाटायां मर्द्दके स्थविरं विदुः

॥२५॥

सुखप्रदं तु कौबेर्यां कोसले गोपतिं तथा ॥

कौंकणे तु पद्मदेवं तापनं विन्ध्यपर्वते

॥२६॥

त्वष्टारं चैव काश्मीरे चरित्रे रत्नसंभवम् ॥

पुष्करे हेमगर्भस्थं विद्यात्सूर्यं गभस्तिके

॥२७॥

प्रकाशायां तु मुज्झालं तीर्थग्रामे प्रभाकरम् ॥

कांपिल्ये रिल्लकादित्यं धनके धनवासिनम्

॥२८॥

अनलं नर्मदातीरे सर्वत्र गमनाधिकम् ॥

अष्टषष्टिं तु देवस्य भास्करस्यामितद्युतेः

॥२९॥

प्रातरुत्थाय वै नित्यं शक्तिमाञ्छुचिमान्नरः ॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते

॥३०॥

राज्यार्थी लभते राज्यं धनार्थी लभते धनम् ॥

पुत्रार्थी लभते पुत्रान्सौख्यार्थी लभते सुखम्

॥३१॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥

यान्यान्प्रार्थयते कामांस्तांस्तान्प्राप्नोति मानवः

॥३२॥

ईश्वर उवाच

एवं च स्तुवतस्तस्य चित्रस्य विमलात्मनः ॥

ततस्तुष्टः सहस्रांशुः कालेन महता विभुः

॥३३॥

अब्रवीद्वत्स भद्रं ते वरं वरय सुव्रत

॥३४॥

सोऽब्रवीद्यदि मे तुष्टो भगवंस्तीक्ष्णदीधितेः ॥

प्रौढत्वं सर्वकार्येषु नय मां ज्ञानितां तथा

॥३५॥

तत्तथेति प्रति ज्ञातं सूर्येण वरवर्णिनि ॥

ततः सर्वज्ञतां प्राप्तश्चित्रो मित्रकुलोद्भवः

॥३६॥

तं ज्ञात्वा धर्मराजस्तु बुद्ध्या परमया युतम् ॥

चिंतयामास मेधावी लेख कोऽयं भवेद्यदि

॥३७॥

ततो मे सर्वसिद्धिः स्यान्निर्वृतिश्च परा भवेत् ॥

एवं चिंतयतस्तस्य धर्मराजस्य भामिनि

॥३८॥

अग्नितीर्थे गते चित्रे स्ना नार्थं लवणाम्भसि ॥

स तत्र प्रविशन्नेव नीतस्तु यमकिंकरैः

॥३९॥

सशरीरो महादेवि यमादेशपरायणैः ॥

स चित्रगुप्तनामाऽभूद्विश्वचारित्रलेखकः

॥४०॥

चित्रादित्येतिनामाऽभूत्ततो लोके वरानने

॥४१॥

सप्तम्यां नियताहारो यस्तं पूजयते नरः ॥

सप्त जन्मानि दारिद्र्यं न दुःखं तस्य जायते

॥४२॥

तत्रैव चाश्वो दातव्यः सकोषं खड्गमेव च ॥

हिरण्यं चैव विप्राय एवं यात्राफलं लभेत्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रादित्यमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १३९ ॥