मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 149

ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥

ब्रह्मकुण्डस्य ईशाने स्थितं पापप्रणाशनम् ॥

चतुर्वक्त्रं महादेवं संस्थितं तीर्थरक्षणे

॥१॥

तत्र स्नात्वा महाकुण्डे यस्तं पूजयते नरः ॥

पंचोपचारविधिना भक्तियुक्तो यतेन्द्रियः

॥२॥

कुलानि यान्यतीतानि भविष्याणि च यानि वै ॥

तारयेत्स नरो देवि नात्र कार्या विचारणा

॥३॥

न चात्र संभवस्तस्य विनाशो नैव जायते ॥

विमानैश्चरते नित्यं दिवाकरसमप्रभैः

॥४॥

स्त्रीसहस्रैर्वृतो नित्यं क्रीडते देवव द्दिवि

॥५॥

एतल्लिंगं महादेवि चतुर्वक्त्रं महाप्रभम् ॥

दृष्ट्वापि तद्विमुच्येत सर्वपापैस्तु मानवः

॥६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥