मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३४५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 345

नलेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ॥

जरद्गवात्पूर्वभागे धनुषां षष्टिभिस्त्रिभिः

॥१॥

नाम्ना नलेश्वरं देवि स्थापितं तु नलेन वै ॥

दमयन्तीयुतेनैव ज्ञात्वा क्षेत्रं तदुत्तमम्

॥२॥

तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥

कलिभिर्मुच्यते जंतुर्द्यूते च विजयी भवेत्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४५ ॥