मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २७८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 278

ततो गच्छेन्महादेवि शूलस्थानमिति श्रुतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि शूलस्थानमिति श्रुतम् ॥

देविकायास्तटे रम्ये भास्करं वारितस्करम्

॥१॥

यत्रातपत्तपो घोरं वाल्मीकिर्मुनिपुंगवः ॥

वाल्मीकिनामा विप्रर्षिर्यत्र सिद्धो महामुनिः

॥२॥

यत्र सप्तर्षयो मुष्टास्तेनैव मुनिना प्रिये ॥

तस्यैव पश्चिमे भागे मरीचिप्रमुखा द्विजाः

॥३॥

देव्युवाच

कथं तु सिद्धो वाल्मीकिः कथं चौर्येऽकरोन्मनः ॥

कथं सप्तर्षयो मुष्टा एतन्मे वद शंकर

॥४॥

ईश्वर उवाच

आसीत्पूर्वं द्विजो देवि नाम्ना ख्यातः शमीमुखः ॥

गार्हस्थ्ये वर्तमानस्य तस्य पुत्रो व्यजायत ॥

वैशाख इति नाम्नाऽसौ रौद्रकर्मा व्यजायत

॥५॥

मुक्त्वैकां गुरुशुश्रूषां नान्यत्किंचिदसौ द्विजः ॥

अकरोच्छोभनं कर्म दिवाप्रभृति नित्यशः

॥६॥

अथ कालेन महता पितरौ तस्य तौ प्रिये ॥

वार्द्धक्यभावमापन्नौ भर्तव्यौ तस्य विह्वलौ

॥७॥

स नित्यं पदवीं गत्वा मुष्ट्वा लोकान्स्वशक्तितः ॥

द्रव्यमादाय पितरौ भार्यां चापि पुपोष च

॥८॥

कस्यचित्त्वथ कालस्य तेन मार्गेण गच्छतः ॥

सप्तर्षींश्च तदापश्यत्तीर्थयात्रापरायणान्

॥९॥

तान्दृष्ट्वा यष्टिमुद्यम्य भर्त्सयन्प रुषाक्षरैः ॥

वाक्यैरुवाच तान्सर्वांस्तिष्ठध्वमिति भूरिशः

॥१०॥

अथ ते मुनयः शांताः समलोष्टाश्मकांचनाः ॥

समाः शत्रौ च मित्रे च रोषरागविवर्जिताः

॥११॥

अस्माकं दर्शनं चास्य संभाष्यमृषिभिः सह ॥

संजातं निष्फलं मा स्यादित्युवाचांगिरा वचः

॥१२॥

अंगिरा उवाच

भोभोस्तस्कर मे वाक्यं शृणुष्वावहितः क्षणात् ॥

आत्मनस्तु हितार्थाय सत्यं चैव वदाम्यहम् ॥

तव कः पोष्यवर्गोऽस्ति तच्च सर्वं वदस्व मे

॥१३॥

तस्कर उवाच

स्यातां मे पितरौ वृद्धौ भार्यैकाऽपत्यवर्ज्जिता ॥

एका दासी ह्यहं षष्ठो नान्यदस्त्यधिकं मुने

॥१४॥

अंगिरा उवाच

गत्वा पृच्छस्व तान्सर्वान्पुष्टान्पापार्जितैर्धनैः ॥

अहं करोमि पापानि सर्वे यूयं तु भक्षकाः

॥१५॥

तत्पापं भविता कस्य कथयंत्विति मे लघु ॥

तथैव गत्वा पप्रच्छ पितरौ तावथोचतुः

॥१६॥

मातापितरावूचतुः

एकः पापानि कुरुते फलं भुंक्ते महा जनः ॥

भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते

॥१७॥

यः करोत्यशुभं कर्म कुटुंबार्थं तु मंदधीः ॥

आत्मा न वल्लभस्तस्य नूनं पुंसः सुपापिनः

॥१८॥

ईश्वर उवाच

तयोः स वचनं श्रुत्वा पुनर्भीतमनास्तदा ॥

तयोस्तु संनतिं कृत्वा पितरौ पुनरब्रवीत्

॥१९॥

युवाभ्यां हितमेवाहं यत्करोम्यशुभं क्वचित् ॥

तस्यांशं भुज्यते किंचिद्युवाभ्यां वा न वोच्यताम्

॥२०॥

पितरावूचतुः

पूर्वे वयसि पुत्र त्वमावाभ्यां पाल्य एव हि ॥

उत्तरे तु वयं पाल्याः सम्यक्पुत्र त्वया पुनः

॥२१॥

इतरेतरधर्मोऽयं निर्दिष्टः पद्मयोनिना ॥

आवाभ्यां यत्कृतं कर्म युष्मदर्थं शुभाशुभम् ॥

भोक्ष्यामो वयमेवेह तत्सर्वं नात्र संशयः

॥२२॥

अथ त्वमपि यद्वत्स प्रकरोषि शुभाशुभम् ॥

भोक्ष्यसे सकलं तद्वत्स्वयं नान्यः परत्र च

॥२३॥

अवश्यं स्वयमश्नाति कृतं कर्म शुभाशुभम्।

तस्मान्नरेण कर्तव्यं शुभं कर्म विपश्चिता

॥२४॥

चौर्यं वाथ कृषिं वाथ कुसीदं वाथ पुत्रक ॥

वाणिज्यमथवा प्रेष्यं कृत्वाऽस्माकं च भोजनम् ॥

अहर्निशं त्वया देयं न दोषोऽस्मासु पुत्रक

॥२५॥

ताभ्यां तद्वचनं श्रुत्वा ततो भार्यामभाषत ।

तदेव वाक्यं साऽवोचद्यत्प्रोक्तं गुरुभिः पुरा ॥

ततो वैराग्यमापन्नो वैशाखो मुनिसत्तमः

॥२६॥

गर्हयन्नेवमात्मानं भूयोभूयः सुदुःखितः ॥

धिङ्मां दुष्कृतकर्माणं पापकर्मरतं सदा

॥२७॥

विवेकेन परित्यक्तं सत्संगेन विवर्जितम् ॥

यः करोति नरः पापं न सेवयति पंडितान् ॥

न चात्मा वल्लभस्तस्य एतन्मे वर्तते हृदि

॥२८॥

एवं विकल्पहृदयो गत्वा स ऋषिसन्निधौ ॥

उवाच श्लक्ष्णया वाचा गम्यतामिति सादरम्

॥२९॥

वृसी प्रगृह्यतामेषा तथैव च कमण्डलुः ॥

वल्कलानि च चीराणि मृगचर्माण्यशेषतः

॥३०॥

क्षम्यतामपराधो मे दीनस्य कृपणस्य च ॥

सत्संगेन वियुक्तस्य मूर्खस्य मुनिसत्तमाः

॥३१॥

अद्यप्रभृति निवृत्तः कर्मणोऽस्याहमेव च ॥

रौद्रस्य सुनृशंसस्य साधुभिर्गर्हितस्य च ॥

तस्मात्कथयतास्माकं निवृत्तिं चास्य कर्मणः

॥३२॥

येन युष्मत्प्रसादेन पापान्मोक्षमहं व्रजे ॥

उपवासोऽथ मन्त्रो वा नियमो वाथ संयमः

॥३३॥

ऋषय ऊचुः

साधु पृष्टं त्वया वत्स तत्त्वमेकमनाः शृणु ॥

संगृह्य कीर्तयिष्यामस्त्वयाऽऽख्येयं न कस्यचित्

॥३४॥

तेन जप्तेन पापत्मन्मोक्षं प्राप्स्यसि निश्चितम् ॥

झाटघोटस्त्वया कीर्त्त्यो मन्त्रोऽयं चतुरक्षरः

॥३५॥

सर्वपापहरो नृणां स्वर्गमोक्षफलप्रदः ॥

स तदैवं हि तैः प्रोक्तो वैशाखो मुनिपुंगवैः ॥

तस्थौ जाप्यपरो नित्यं गतास्ते मुनिपुंगवाः

॥३६॥

तस्यैवं जपतो देवि देविकायास्तटे शुभे ॥

अनिशं गुरु भक्तस्य समाधिः समपद्यत

॥३७॥

क्षुत्पिपासा तदा नष्टा शुद्धिमायात्कलेवरम्

॥३८॥

मंत्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥

यादृशी भाव ना यस्य सिद्धिर्भवति तादृशी

॥३९॥

निर्मलोऽयं स्वभावेन परमात्मा यथा हितः ॥

उपाधिसंगमासाद्य विकारं स्फटिको यथा

॥४०॥

यथा च भ्रमरी वंध्या लब्ध्वा जीवमणुं क्वचित् ॥

स्वस्थाने स्थाप्य तं ध्यायेद्भ्रमरी ध्यानसंयुता

॥४१॥

स तु तद्ध्यानसंवृद्धो जीवो भवति तादृशः ॥

अन्ययोन्युद्भवो वापि तथा निदर्शनं सताम्

॥४२॥

आदिष्टो गुरुणा यश्च विकल्पं यदि गच्छति ॥

नासौ सिद्धिमवाप्नोति मंदभाग्यो यथा निधिम् ॥

!

॥४३॥

एवं वर्षसहस्राणि समतीतानि भूरिशः ॥

तस्य जाप्यपरस्यैव अमृतत्वं गतस्य च

॥४४॥

ततः कालक्रमेणैव वल्मीकेन स वेष्टितः ॥

येनासौ सर्वतो व्याप्तो न च तं स बुबोध वै

॥४५॥

कस्यचित्त्वथकालस्य मुनयस्ते समागताः ॥

तं प्रदेशं तु संप्रेक्ष्य सहाय्यमितरेतरम् ॥

ऊचुः परस्परं सर्वे दत्त्वा चैव करैः करम्

॥४६॥

ऋषय ऊचुः

अत्रासौ तस्करः प्राप्तो वैशाखो दारुणाकृतिः ॥

येन सर्वे वयं मुष्टा अस्मि न्स्थाने समागताः

॥४७॥

एवं संजल्पमानास्ते शुश्रुवुः शब्दमुत्तमम् ॥

वल्मीकमध्यतो व्यक्तं ततस्ते कौतुकान्विताः

॥४८॥

अखनंस्तत्र वल्मीकं कुशीभिः पर्वतोपमम्

॥४९॥

अथ ते ददृशुस्तत्र विशाखं मुनिसत्तमाः ॥

जपंतमसकृन्मत्रं तमेव चतुरक्षरम्

॥५०॥

तं समाधिगतं ज्ञात्वा भेषजैर्योगसंमतैः ॥

ममर्दुः सर्वतो विप्रास्तत्र सुप्ततनौ भृशम्

॥५१॥

ततोऽब्रवीदृष्रीन्सर्वान्स्वमर्थं गृह्यतां द्विजाः ॥

युष्मदीयं गृहीतं यत्पा पेनाकृतबुद्धिना

॥५२॥

गम्यतां तीर्थयात्रायां सर्वे मुक्ता मया द्विजाः ॥

वाच्यौ मे पितरौ गत्वा तथा भार्या द्विजोत्तमाः

॥५३॥

सर्व संगपरित्यक्तो विशाखः समपद्यत ॥

दर्शनं कांक्षते नैव भवद्भिस्तु यथा पुरा

॥५४॥

ऋषय ऊचुः

बहुवर्षाण्यतीतानि तवात्र वसतो मुने ॥

सर्वे ते निधनं प्राप्ता ये चान्ये ते कुटुंबिनः

॥५५॥

वयं चिरात्समायाताः स्थानेऽस्मिन्मुनिसत्तमाः ॥

स त्वं सिद्धिमनुप्राप्तो मंत्रादस्मादसंशयम्

॥५६॥

यस्मात्त्वं मंत्रमेकाग्रो ध्यायन्वल्मीकमाश्रितः ॥

तस्माद्वाल्मीकिनामा त्वं भविष्यसि महीतले

॥५७॥

स्वच्छंदा भारती देवी जिह्वाग्रे ते भविष्यति ॥

कृत्वा रामायणं काव्यं ततो मोक्षं गमिष्यसि

॥५८॥

विशाख उवाच

गृह्यतां द्विजशार्दूलाः प्रसन्ना गुरुदक्षिणाम् ॥

येनाहमनृणो भूत्वा करोमि सुमहत्तपः

॥५९॥

ऋषय ऊचुः

एषा नो दक्षिणा विप्र यस्त्वं सिद्धिमुपागतः ॥

सर्वकामसमृद्धात्मा कृतकृत्या वयं मुने

॥६०॥

वरं वरय भूयस्त्वं यस्ते मनसि वर्तते

॥६१॥

वाल्मीकिरुवाच

भवंतो यदि तुष्टा मे यदि देयो वरो मम ॥

कथ्यतां तर्हि मे शीघ्रं को देवो ह्यत्र संस्थितः ॥

देविकायास्तटे रम्ये सर्वकामफलप्रदः

॥६२॥

ऋषय ऊचुः

शृणुष्वैकमना विप्र यो देवश्चात्र संस्थितः ॥

पश्य निंबमिमं विप्र बहुशाखाप्रविस्तरम्

॥६३॥

अस्य मूले स्थितः सूर्य्यः कल्पादौ ब्रह्मणोंऽशजः ॥

तमाराधय यत्तेसावस्य स्थानस्य देवता

॥६४॥

सूर्यक्षेत्रं समाख्यातमिदं गव्यूतिमात्रकम् ॥

अत्र स्थाने स्थिता येपि तेषां स्वर्गो ध्रुवं भवेत्

॥६५॥

अद्यप्रभृति विप्रेन्द्र मूलस्थानमिति श्रुतम् ॥

स्थानं सूर्यस्य विप्रेन्द्र कार्या चात्र त्वया स्थितिः

॥६६॥

अद्यप्रभृति विप्रेंद्र तीर्थमेतन्महीतले ॥

गमिष्यति परां ख्यातिं देविकातटमाश्रितम्

॥६७॥

वयं मुष्टा यतो विप्र मूलस्थाने पुरा स्थिताः ॥

मूलस्थानेति वै नाम लोके ख्यातिं गमिष्यति

॥६८॥

अत्र ये मानवा भक्त्या स्नानं सूर्यस्य संगमे ॥

उत्तरे तु करिष्यंति ते यास्यंति त्रिविष्टपम्

॥६९॥

तर्पणं तिलमिश्रेण जलेन द्विजसत्तमाः ॥

गयाश्राद्धसमा तुष्टिः पितॄणां च भविष्यति

॥७०॥

अत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥

शाकमूलफलैर्वापि सम्यक्छ्रद्धासमन्विताः

॥७१॥

तेषां यास्यंति पितरो मोक्षं नैवात्र संशयः ॥

अपि कीटपतंगा ये पक्षिणः पशवो मृगाः ॥

तृषार्ता जलसंस्पर्शाद्यास्यंति परमां गतिम्

॥७३॥

वयमेव सदात्रस्थाः श्रावणे मासि सत्तम ॥

पौर्णमास्यां भविष्यामस्तव स्नेहादसंशयम्

॥७४॥

तस्मिन्नहनि यस्तोयैः पितॄन्संतर्पयिष्यति ॥

तस्याष्टादशकुष्ठानि क्षयं यास्यंति तत्क्षणात्

॥७५॥

कपालोदुम्बराख्येंद्रमण्डलाख्यविचर्चिकाः ॥

ऋष्यचर्मैककिटिभसिध्मालसविपादिकाः

॥७६॥

दद्रुसिता रुचिस्फोटं पुण्डरीकं सकाकणम् ॥

पामा चर्मदलं चेति कुष्ठान्यष्टादशैव तु

॥७७॥

गमिष्यंति न संदेह इत्युक्त्वांतर्दधुश्च ते ॥

ऋषिः सिषेवे च रविं चक्रे रामायणं ततः

॥७८॥

तस्मात्पश्येच्च तं देवं सर्वयज्ञफलप्रदम् ॥

शृणुयाच्च कथां चैनां सर्वपातकनाशिनीम्

॥७९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्यमूलस्थानमाहात्म्यवर्णनंनामाष्टसप्तत्युत्तर द्विशततमोऽध्यायः ॥ २७८ ॥