मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 328

तस्माद्वायव्यदिग्भागे स्थितं पापप्रणाशनम्

ईश्वर उवाच

तस्माद्वायव्यदिग्भागे स्थितं पापप्रणाशनम् ॥

संगमेश्वरनामाढ्यमृषयो यत्र संगताः

॥१॥

तस्यैव पूर्वदिग्भागे कुण्डिका पापनाशिनी ॥

वडवानलसंयुक्ता यत्रायाता सरस्वती

॥२॥

कुंडिकायां नरः स्नात्वा संगमेश्वरमर्चयेत् ॥

तस्य जन्मसहस्राणि लक्ष्म्याः पुत्रै प्रियैः सह ॥

असंगमं महादेवि न कदाचित्प्रजायते

॥३॥

मुच्यते पातकैः सर्वैराजन्म मरणांतिकैः

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२८ ॥