मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १००

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 100

शापप्रदानवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तयोरुत्तरसंस्थितम् ॥

तथा वायव्यदिग्भागे ब्रह्मणो बालरूपिणः

॥१॥

सांबादित्यं सुरश्रेष्ठे यः सांबेन प्रतिष्ठितः ॥

स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य तु

॥२॥

पूर्वं मित्रवनं नाम तथा मुण्डीरमुच्यते ॥

प्रभासक्षेत्रमास्थाय सांबादित्यस्तृतीयकः

॥३॥

तस्मिन्क्षेत्रे महादेवि पुरं यत्सांबसंज्ञकम् ॥

द्वितीयं शाश्वतं स्थानं तत्र सूर्यस्य नित्यशः

॥४॥

प्रीत्या सांब स्य तत्रार्को जनस्यानुग्रहाय च ॥

तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा

॥५॥

अवलोकयञ्जगत्सर्वं श्रेयोर्थं तिष्ठते सदा ॥

प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम्

॥६॥

देव्युवाच

कोऽयं सांबः सुतः कस्य यस्य नाम्ना रवेः पुरम् ॥

यस्य वाऽयं सहस्रांशुर्वरदः पुण्यकर्मणः

॥७॥

ईश्वर उवाच

य एते द्वादशादित्या विराजन्ते महाबलाः ॥

तेषां यो विष्णुसंज्ञस्तु सर्वलोकेषु विश्रुतः

॥८॥

इहासौ वासुदेवत्वमवाप भगवान्विभुः

॥९॥

तस्य सांबः सुतो जज्ञे जांबवत्यां महाबलः ॥

स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् ॥

तेन संस्थापितः सूर्यो निजनाम्ना पुरं कृतम्

॥१०॥

देव्युवाच

शप्तः कस्मिन्निमित्तेऽसौ पित्रा पुत्रः स्वयं पुनः ॥

नाल्पं स्यात्कारणं देव येनासौ शप्तवान्सुतम्

॥११॥

ईश्वर उवाच

शृणुष्वावहिता भूत्वा तस्य यच्छापकारणम् ॥

दुर्वासानाम भगवान्ममैवांशसमुद्भवः

॥१२॥

अटमानः स भगवांस्त्रींल्लोकान्प्रचचार ह ॥

अथ प्राप्तो द्वारवतीं लोकाः संजज्ञिरे पुरः

॥१३॥

तमागतमृषिं दृष्ट्वा सांबो रूपेण गर्वितः ॥

पिंगाक्षं जटिलं रूक्षं विस्वरूपं कृशं तथा

॥१४॥

अवमानं चकारासौ दर्शनात्स्पर्शनात्तथा ॥

दृष्ट्वा तस्य मुखं मंदो वक्त्रं चक्रे तथात्मनः ॥

चक्रे यदुकुलश्रेष्ठो गर्वितो यौवनेन तु

॥१५॥

अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः ॥

सांबं प्रोवाच भगवान्विधुन्वन्मुखमात्म नः

॥१६॥

यस्माद्विरूपं मां दृष्ट्वा आत्मरूपेण गर्वितः ॥

गमने दर्शने मह्यमहंकारः कृतो यतः ॥

तस्मात्त्वं कुष्ठरोगेण न चिरेण ग्रसिष्यसे

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां सांबादित्यमाहात्म्योपक्रमे सांबाय दुर्वाससा शापप्रदानवर्णनंनाम शततमोऽध्यायः ॥ १०० ॥