मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 123

रावणेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि रावणेश्वरमुत्तमम् ॥

तस्माद्दक्षिणनैर्ऋत्ये धनुषां षोडशे स्थितम्

॥१॥

प्रतिष्ठितं दशास्येन सर्वपातकनाशनम् ॥

पौलस्त्यो रावणो देवि राक्षसस्तु सुदारुणः

॥२॥

त्रैलोक्यविजयाकाङ्क्षी पुष्पकेण चचार ह ॥

कस्यचित्त्वथ कालस्य विमानं तस्य पुष्पकम्

॥३॥

व्रजद्वै व्योममार्गेण निश्चलं सहसाऽभवत् ॥

स्तंभितं पुष्पकं दृष्ट्वा रावणो विस्मयान्वितः

॥४॥

प्रहस्तं प्रेषयामास किमिदं व्रज मेदिनीम् ॥

अहताऽस्य गतिर्यस्मात्त्रैलोक्ये सचराचरे

॥५॥

तत्कस्मान्निश्चलं जातं विमानं पुष्पकं मम ॥

अथाऽसौ सत्वरो देवि जगाम वसुधातले

॥६॥

अपश्यद्देवदेवेशं श्रीसोमेशं महाप्रभम् ॥

स्तूयमानं सुरगणैः शतशोऽथ सहस्रशः

॥७॥

तं दृष्ट्वा राक्षसे न्द्राय तत्सर्वं विस्तरात्प्रिये ॥

प्रहस्तः कथयामास यद्दृष्टं क्षेत्रमध्यतः

॥८॥

प्रहस्त उवाच

राक्षसेश महाबाहो शिवक्षेत्रं निजं प्रभो ॥

प्रभासेति समाख्यातं गणगन्धर्वसेवितम्

॥९॥

तत्र सोमेश्वरो देवः स्वयं तिष्ठति शङ्करः ॥

अब्भक्षैर्वायुभक्षैश्च दंतोलूखलिभिस्तथा ॥

ऋषिभिर्वालखिल्यैश्च पूज्यमानः समंततः

॥१०॥

प्रभावात्तस्य देवस्य नेदं गच्छति पुष्पकम् ॥

न स प्रालंघ्यते देवो ह्यलंघ्यो यः सुरासुरैः

॥११॥

ईश्वर उवाच

तस्य तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ॥

अवतीर्य धरापृष्ठं सोमेशं समपश्यत

॥१२॥

पूजयामास देवेशि भक्त्या परमया युतः ॥

रत्नैर्बहुविधैर्वस्त्रैर्गन्धपुष्पानुलेपनैः

॥१३॥

अथ पौरजना दृष्ट्वा रावणं राक्षसेश्वरम् ॥

सर्वदिक्षु वरारोहे भयाद्भीताः प्रदुद्रुवुः

॥१४॥

शून्यं समभवत्सर्वं तत्र देवो व्यवस्थितः ॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी

॥१५॥

दशग्रीव महाबाहो अयने चोत्तरे तथा ॥

यात्राकाले तु देवस्य सर्वपापप्रणाशने

॥१६॥

दूरतः समनुप्राप्ता भूरिलोका द्विजातयः ॥

राक्षसानां भयाद्भीताः प्रयांति हि दिशो दश

॥१७॥

भयान्मा त्वं राक्षसेन्द्र यात्राविघ्नकरो भव ॥

बाल्ये वयसि यत्पापं वार्द्धक्ये यौवनेऽपि च ॥

तत्सर्वं क्षालयेन्मर्त्यो दृष्ट्वा सोमेश्वरं प्रभुम्

॥१८॥

ततोऽसौ राक्षसेन्द्रस्तु गत्वैकान्ते सुगह्वरे ॥

लिंगं च स्थापयामास भक्त्या परमया युतः

॥१९॥

ततस्तन्निरतो भूत्वा सर्वैस्तै राक्षसेश्वरः ॥

पूजयामास देवेशि उपवासपरायणः

॥२०॥

चकार पुरतस्तस्य गीतवाद्येन जागरम् ॥

ततोऽर्धरात्रसमये वागुवाचाशरीरिणी

॥२१॥

दशग्रीव महाबाहो परितुष्टोऽस्मि तेऽनघ ॥

मम प्रसादात्त्रैलोक्यं वशगं ते भविष्यति ॥

अत्र संनिहितो नित्यं स्थास्याम्यहमसंशयम्

॥२२॥

ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥

अजेयास्ते भविष्यंति शत्रूणां राक्षसेश्वर

॥२३॥

यास्यंति परमां सिद्धिं मत्प्रसादादसंशयम् ॥

एवमुक्त्वा वरारोहे विरराम वृषध्वजः

॥२४॥

रावणोऽपि स संतुष्टो भूयोभूयो महेश्वरम् ॥

पूजयित्वा च तल्लिंगं समारुह्य च पुष्पकम् ॥

त्रैलोक्यविजयाकांक्षी इष्टं देशं जगाम ह

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रावणेश्वरमाहात्म्यवर्णनंनाम त्रयोर्विशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥