तलस्वामिमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्मात्तदुन्नतस्थानादुत्तरे योजनत्रयात् ॥
तत्र तप्तोदकस्वामी तलो यत्र हतः पुरा
॥१॥दैत्यानामधिपो देवि विष्णुना प्रभविष्णुना ॥
कृत्वा वर्षशतं युद्धं तलस्वामी ततोऽभवत्
॥२॥तप्तकुण्डे नरः स्नात्वा तलस्वामिनमर्चयेत् ॥
हृत्वा पिंडप्रदानं तु कोटियात्राफलं लभेत्
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरत्रिश ततमोऽध्यायः ॥ ३३० ॥