मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 297

ऋषितोयामाहात्म्यवर्णनम्

देव्युवाच

देवदेव जगन्नाथ संसारार्णवतारक ॥

सविस्तरं तु मे ब्रूहि ऋषितोयामहोदयम्

॥१॥

ऋषितोयेति तन्नाम कथं ख्यातं धरातले ॥

कथं सा पुनरायाता देवदारुवने शुभे

॥२॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि सावधाना वचो मम ॥

माहात्म्यमृषितोयायाः सर्वपातकनाशनम्

॥३॥

देवदारुवने पुण्य ऋषयस्तपसा युताः ॥

निवसंति वरारोहे शतशोथ सहस्रशः

॥४॥

तेषां निवसतां तत्र बहुकालो गतः प्रिये ॥

पुत्रपौत्रैः प्रवृद्धास्ते दारुकं व्याप्य संस्थिताः

॥८५॥

ते सर्वे चिंतयामासुः समेत्य च परस्परम् ॥

सरस्वती महापुण्या शिरस्याधाय वाडवम्

॥६॥

प्रभासं चिरकालेन क्षेत्रं चैव गमिष्यति ॥

वापीकूपतडागादि मुक्त्वा सागरगामिनीम्

॥७॥

नाह्लादं कुरुते चेतः स्नानदानजपेषु च ॥

ब्रह्माणं प्रार्थयिष्यामो गत्वा ब्रह्मनिकेतनम्

॥८॥

ईश्वर उवाच

एवं निमन्त्र्य ते सर्वे ऋषयस्तपसोज्ज्वलाः ॥

गतास्ते ब्रह्मलोकं तु द्रष्टुं देवं पितामहम् ॥

तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माणं कमलोद्भवम्

॥९॥

ऋषय ऊचुः

नमः प्रणवरूपाय विश्व कर्त्रे नमोनमः ॥

तथा विश्वस्य रक्षित्रे नमोऽस्तु परमात्मने

॥१०॥

तथा तस्यैव संहर्त्रे नमो ब्रह्मस्वरूपिणे ॥

पितामह नमस्तुभ्यं सुरज्येष्ठ नमोऽस्तु ते

॥११॥

चतुर्वक्त्र नमस्तुभ्यं पद्मयोने नमोऽस्तु ते ॥

विरंचये नमस्तुभ्यं विधये वेधसे नमः

॥१२॥

चिदानन्द नमस्तुभ्यं हिरण्यगर्भ ते नमः ॥

हंसवाहन ते नित्यं पद्मासन नमोऽस्तुते

॥१३॥

एवं संस्तुवतां तेषामृषीणामूर्ध्वरेतसाम् ॥

उवाच परमप्रीतो ब्रह्मा लोक पितामहः

॥१४॥

स्वागतं वै द्विजश्रेष्ठा युष्माकं कृतवानहम् ॥

स्तोत्रेणानेन दिव्येन वृणुध्वं वरमुत्तमम्

॥१५॥

ऋषय ऊचुः

अभिषेकाय नो देव नदी पापप्रणाशिनी ॥

विलोक्यते सुरश्रेष्ठ देहि नो वरमुत्तमम्

॥१६॥

ईश्वर उवाच

इत्युक्तस्तैस्तदा ब्रह्मा मुनिभिस्तपसोज्ज्वलैः ॥

वीक्षांचक्रे तदा सर्वा मूर्तिमत्यश्च निम्नगाः

॥१७॥

गङ्गा च यमुना चैव तथा देवी सरस्वती ॥

चन्द्रभागा च रेवा च शरयूर्गंडकी तथा

॥१८॥

तापी चैव वरारोहे तथा गोदावरी नदी ॥

कावेरी चन्द्रपुत्री च शिप्रा चर्मण्वती तथा

॥१९॥

सिन्धुश्च वेदिका चैव नदाः सर्वे वरानने ॥

मूर्तिमत्यः स्थिताः सर्वाः पवित्राः पापनाशिनी

॥२०॥

दृष्ट्वा पितामहः सर्वा गत्वरा धरणीं प्रति ॥

देवदारुवने रम्ये प्रभासे क्षेत्र उत्तमे ॥

कमण्डलौ कृता दृष्टिर्विविशुस्ताः कमण्डलुम्

॥२१॥

ब्रह्मोवाच

धृताः सर्वा महापुण्या नद्यो ब्रह्मकमण्डलौ ॥

प्रविष्टाः पृथिवीं यांतु ऋषीणामनुकम्पया

॥२२॥

प्रहिणोमि यद्येकां च ह्यन्या रुष्यति मे द्विजाः ॥

तस्मात्सर्वाः प्रमोक्ष्यामि कमण्डलुकृतालयाः

॥२३॥

ईश्वर उवाच

ततो ब्रह्मा मुमोचाऽथ तत्रस्थाश्च महापगाः ॥

मुक्त्वा ब्रह्मा मुनीन्सर्वान्प्रोवाचेदं पुनःपुनः

॥२४॥

ऋषिभिः प्रार्थ्यमानेन नद्यो मुक्ता मया यतः ॥

तोयरूपा महावेगा अभिषेकाय सत्वराः

॥२५॥

ऋषितोयेति नाम्ना सा भविष्यति धरातले ॥

ऋषीणां वल्लभा देवी सर्वपातकनाशिनी

॥२६॥

ईश्वर उवाच

एवं देवि समायाता देवदारुवने नदी ॥

ऋषितोयेति विख्याता पवित्रा च वरानने

॥२७॥

तूर्यदुंदुभिनिर्घोषैर्वेदमङ्गलनिःस्वनैः ॥

समुद्रं प्रापिता देवी ऋषिभिर्वेदपारगैः

॥२८॥

सर्वत्र सुलभा देवी त्रिषु स्थानेषु दुर्लभा ॥

महोदये महातीर्थे मूलचंडीशसन्निधौ

॥२९॥

समुद्रेण समेता तु यत्र सा पूर्ववाहिनी ॥

यत्रर्षितोया लभ्येत तत्र किं मृग्यते परम्

॥३०॥

मनुष्यास्ते सदा धन्यास्तत्तोयं तु पिबंति ये ॥

अस्थीनि यत्र लीयंते षण्मासाभ्यन्तरेण तु

॥३१॥

प्रातःकाले वहेद्गंगा सायं च यमुना तथा

॥३२॥

नदीसहस्रसंयुक्ता मध्याह्ने तु सरस्वती ॥

अपराह्णे वहेद्रेवा सायाह्ने सूर्यपुत्रिका

॥३३॥

एवं जानन्नरो यस्तु तत्र स्नान विचक्षणः ॥

आचरेद्विधिना श्राद्धं स तस्याः फलभाग्भवेत्

॥३४॥

एवं संक्षेपतः प्रोक्तमृषितोयामहोदयम् ॥

सर्वपापहरं नृणां सर्वकामफलप्रदम्

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयामाहात्म्यवर्णनंनाम सप्तनवत्युत्तरद्विशततमोऽध्यायः ॥ २९७ ॥