प्रश्नाध्यायवर्णनम्
अथश्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डम्
॥७॥श्रीगणेशाय नमः ॥
अथ प्रभासखण्डं प्रारभ्यते ॥
तत्रेदं प्रथमं प्रभासक्षेत्रमाहात्म्यम्
॥५॥ॐनमः श्रीपरमात्मने परमपुरुषोत्तमाय ॥
ॐ नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यः ॥
व्यास उवाच ॥
यश्चाद्यः पुरुषः पुराण इति यः संस्तूयते सर्वतः सोमेशः सुरसंयुतः क्षितितले यैर्वीक्षितो हीक्षणैः ॥
ते तीर्त्वा विततांतरं भवभयं भूत्याऽभिसंभूषिताः स्वर्गं यानवरैःप्रयान्ति सुकृतैर्यज्ञै यथा यज्विनः
॥१॥प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ॥
षड्त्रिंशत्तत्त्वदेहाय नमश्चिन्मात्रमूर्तये
॥२॥अमृतेनोदरस्थेन म्रियन्ते सर्वदेवताः ॥
कंठस्थित विषेणापि यो जीवति स पातुः वः
॥३॥सत्रान्ते सूतमनघं नैमिषेया महर्षयः ॥
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम्
॥४॥त्वया सूत महा बुद्धे भगवान्ब्रह्मवित्तमः ॥
इतिहासपुराणार्थे व्यासः सम्यगुपासितः
॥५॥तस्य ते सर्वरोमाणि वचसा हर्षितानि यत् ॥
द्वैपायनस्यानुभावात्ततोऽभू रोमहर्षणः
॥६॥भवन्तमेव प्रथमं व्याजहार स्वयं प्रभुः ॥
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं कथाम्
॥७॥त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः ॥
संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः
॥८॥तस्माद्भवन्तं पृच्छामः पुराणे स्कन्दकीर्तिते ॥
प्रभासक्षेत्रमाहात्म्ये ब्राह्मी यात्रा श्रुता पुरा
॥९॥अधुना वैष्णवीं रौद्रीं यात्रां सर्वार्थसंयुताम् ॥
वक्तुमर्हसि चास्माकं पुराणार्थविशारद
॥१०॥मुनीना वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥
प्रणम्य शिरसा प्राह व्यासं सत्यवतीसुतम्
॥११॥रोमहर्षण उवाच
श्रीवत्सांकं जगद्योनिं हरिमोंकाररूपिणम् ॥
अप्रमेयं गुरुं देवं निर्मलं निर्मलाश्रयम्
॥१२॥हंसं शुचिषदं व्योम व्यापकं सर्वदं शिवम् ॥
उदासीनं निरायासं निष्प्रपञ्चं निरञ्जनम्
॥१३॥शून्यं बिंदुस्वरूपं तु ध्येयं ध्यानविवर्जितम् ॥
अस्ति नास्तीति यं प्राहुः सुदूरे चान्तिके च यत्
॥१४॥मनोग्राह्यं परं धाम पुरुषाख्यं जगन्मयम् ॥
हृत्पंकजसमासीनं तेजोरूपं निरिन्द्रियम्
॥१५॥एवंविधं नमस्कृत्य परमात्मानमीश्वरम् ॥
कथां वदिष्ये द्विविधां द्विशरीरां तथैव तु
॥१६॥दिव्यभाषासमोपेतां वेदाधिष्ठानसंयुताम् ॥
पञ्चसंधिसमायुक्तां षडलंकारभूषिताम्
॥१७॥सप्तसाधनसंयुक्तां रसाष्टगुणरंजिताम् ॥
गुणैर्नवभिराकीर्णां दशदोषविवर्जिताम्
॥१८॥विभाषाभूषितां तद्वदेकायत्तां मनोहराम् ॥
पञ्चकारणसंयुक्तां चतुष्करणसम्मताम्
॥१९॥Comments on Prabhaasa पुनश्च द्विविधां तद्वज्ज्ञानसंदोहदायिनीम् ॥
व्यासेन कथितां पुण्यां शृणुध्वं पापनाशिनीम्
॥२०॥यां श्रुत्वा पापकर्मापि गच्छेद्धि परमां गतिम् ॥
दुःखत्रयविनिर्मुक्तः सर्वातङ्कविवर्जितः
॥२१॥न नास्तिके कथां पुण्यामिमां ब्रूयात्कदाचन ॥
श्रद्दधानाय शान्ताय कीर्तनीया द्विजातये
॥२२॥निषेकादिः श्मशानान्तो मन्त्रैर्यस्योदितो विधिः ॥
तस्य शास्त्रेऽधिकारोऽस्ति ज्ञेयो नान्यस्य कस्यचित्
॥२३॥चतुःपक्षावदातस्य विशुद्धिर्ब्राह्मणस्य च ॥
सद्वृत्तस्याधिकारोऽस्ति शास्त्रेऽस्मिन्वेदसम्मते
॥२४॥यथा सुराणां प्रवरो देवदेवो महेश्वरः ॥
नदीनां च यथा गंगा वर्णानां ब्राह्मणो यथा
॥२५॥अक्षराणां तु सर्वेषामोंकारः प्रथमो यथा ॥
पूज्यानां तु यथा माता गुरूणां च यथा पिता ॥
तथैव सर्वशास्त्राणां प्रधानं स्कन्दकीर्तितम्
॥२६॥पुरा कैलासशिखरे ब्रह्मादीनां च सन्निधौ ॥
स्कान्दं पुराणं कथितं पार्वत्यग्रे पिनाकिना
॥२७॥पार्वत्या षण्मुखस्याग्रे तेन नन्दिगणाय वै ॥
नन्दिना तु कुमाराय तेन व्यासाय धीमते
॥२८॥व्यासेन मे समाख्यातं भवद्भ्योऽहं प्रकीर्तये
॥२९॥यूयं सद्भावसंयुक्ता यतः सर्वे महर्षयः ॥
तेन मे भाषितुं श्रद्धा भवतां स्कन्दसंहिताम्
॥३०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रश्नाध्यायवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥