एतत्पुराणमखिलं पुरा स्कन्देनभाषितम्
सूत उवाच
एतत्पुराणमखिलं पुरा स्कन्देनभाषितम् ॥
भृगवे ब्रह्मपुत्राय तस्माल्लेभे तथांगिराः
॥१॥ततश्च च्यवनः प्राप स ऋचीकस्ततो मुनिः ॥
एवं परंपराप्राप्तं सर्वेषु भुवनेष्वपि
॥२॥स्कांदं पुराणमेतच्च कुमारेण पुरोद्धृतम् ॥
यः शृणोति सतां मध्ये नरः पापात्प्रमुच्यते
॥३॥इदं पुराणमायुष्यं वर्णानां च सुखावहम् ॥
निर्मितं षण्मुखेनेह नियतं सुमहात्मना
॥४॥एवमेतत्पुरा ख्यातमाख्यानं भद्रमस्तु वः
॥५॥हाटकेश्वरक्षेत्रस्य माहात्म्यं शृणुते नरः ॥
न तस्य पुण्यसंख्यानं कर्तुं शक्येत केनचित्
॥६॥य इदं धर्ममाहात्म्यं ब्राह्मणाय प्रयच्छति ॥
स्वर्गलोके वसेत्तावद्यावदक्षरसंख्यया
॥७॥यथा हि वर्षतो धारा यथा वा दिवि तारकाः ॥
गंगायां सिकता यद्वत्तद्वत्संख्या न विद्यते
॥८॥यो नरः शृणुयाद्भक्त्या दिनानि च कियंति वै ॥
सर्वार्थसिद्धो भवति य इमां पठते कथाम्
॥९॥पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
लभते पतिकामा या पतिं कन्या मनोरमम्
॥१०॥समागमं लभंते च वांधवाश्च प्रवासिभिः ॥
स्कांदं पुराणं श्रुत्वा तु पुमाना प्नोति वांछितम्
॥११॥शृण्वतः पठतश्चैव सर्वकामप्रदं नृणाम् ॥
महीं विजयते राजा शत्रूंश्चाप्यधितिष्ठति
॥१२॥पुण्यं श्रुत्वा पुराणं वै दीर्घमा युश्च विंदति ॥
वेदविच्च भवेद्विप्रः क्षत्रियो राज्यमाप्नुयात्
॥१३॥धनं धान्यं तथा वैश्यः शूद्रः सुखमवाप्नुयात् ॥
यः श्लोकपादं शृणुयाद्विष्णुलोकं स गच्छति
॥१४॥श्रुत्वा पुराणमेतद्धि वाचकं यस्तु पूजयेत् ॥
तेन ब्रह्मा च विष्णुश्च रुद्रश्चैव प्रपूजितः
॥१५॥एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्या नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत्
॥१६॥अतः संपूजनीयस्तु व्यासः शास्त्रोपदेशकः ॥
गोभूहिरण्यवस्त्राद्यैर्भोजनैः सार्व कामिकैः
॥१७॥य एवं भक्तियुक्तस्तु श्रुत्वा शास्त्रमनुतमम् ॥
पूजयेदुपदेष्टारं स शैवं पदमाप्नुयात्
॥१८॥पुराणश्रवणादेव अनेकभवसंचितम् ॥
पापं प्रशममायाति सर्वतीर्थफलं लभेत्
॥१९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये पुराणश्रवणमाहात्म्यवर्णनंनामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ॥ २७९ ॥
इति श्रीस्कांदे महापुराणे षष्ठं नागरखण्डं समाप्तम्
॥६॥