मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ६१

3
नागरखण्डः · 61

शर्मिष्ठातीर्थमित्युक्तं त्वया यच्च महामते

ऋषय ऊचुः

शर्मिष्ठातीर्थमित्युक्तं त्वया यच्च महामते ॥

कथं जातं महाभाग किंप्रभावं तु तद्वद

॥१॥

सूत उवाच

आसीद्राजा वृकोनाम सोमवंश समुद्भवः ॥

ब्रह्मण्यश्च शरण्यश्च सर्वलोकहिते रतः

॥२॥

तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥

सर्वलक्षणसंपन्ना पतिव्रतपरायणा

॥३॥

अथ तस्यां समुत्पन्ना प्राप्ते वयसि पश्चिमे ॥

कन्यका दिवसे प्राप्ते सर्वशास्त्रविगर्हिते

॥४॥

तत आनीय विप्रान्स ज्योतिर्ज्ञानविचक्षणान् ॥

पप्रच्छ कीदृशी कन्या ममेयं संभविष्यति

॥५॥

ब्राह्मणा ऊचुः

या कन्या प्राप्नुयाज्जन्म चित्रासंस्थे दिवाकरे ॥

चंद्रे वापि चतुर्दश्यां सा भवेद्विषकन्यका

॥६॥

यस्तस्याः प्रतिगृह्णाति पाणिं पार्थिवसत्तम ॥

षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम्

॥७॥

यस्मिन्सा जायते हर्म्ये षण्मासाभ्यंतरे च तत् ॥

करोति विभवैर्हीनं धनदस्याप्यसंशयम्

॥८॥

सेयं तव सुता राजन्यथोक्ता विष कन्यका ॥

पैतृकं श्वाशुरीयं च हनिष्यति गृहद्वयम्

॥९॥

तस्मादिमां परित्यज्य सुखी भव नराधिप ॥

श्रद्दधासि वचोऽस्माकं हित मुक्तं यदि प्रभो

॥१०॥

राजोवाच

त्यक्ष्यामि यदि नामैतां धारयिष्यामि वा गृहे ॥

अन्यदेहोद्भवं कर्म फलिष्यति तथापि मे

॥११॥

शुभं वा यदि वा पापं न तु शक्यं प्ररक्षितुम् ॥

तस्मात्कर्म पुरस्कृत्य नैव त्यक्ष्यामि कन्यकाम्

॥१२॥

येनयेन शरीरेण यद्यत्कर्म करोति यः ॥

तेनतेनैव भूयः स प्राप्नोति सकलं फलम्

॥१३॥

यस्यां यस्यामवस्थायां क्रियतेऽत्र शुभाशुभम् ॥

तस्यां तस्यां ध्रुवं तस्य फलं तद्भुज्यते नरैः

॥१४॥

न नश्यति पुराकर्म कृतं सर्वेंद्रियैरिह ॥

अकृतं जायते नैव तस्मान्नास्ति भयं मम

॥१५॥

आयुः कर्म च वित्तं च विद्या निधनमेव च ॥

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः

॥१६॥

यथा वृक्षेषु वल्लीषु कुसुमानि फलानि च ॥

स्वकालं नातिवर्तंते तद्वत्कर्म पुराकृतम्

॥१७॥

येनैव यद्यथा पूर्वं कृतं कर्म शुभाशुभम् ॥

स एव तत्तथा भुंक्ते नित्यं विहितमात्मनः

॥१८॥

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥

तथैवं कोटिमध्यस्थं कर्तारं कर्म विन्दति

॥१९॥

अन्यदेहकृतं कर्म न कश्चित्पुरुषो भुवि ॥

बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा

॥२०॥

अन्यथा शास्त्रगर्भिण्या धिया धीरो महीयते ॥

स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा

॥२१॥

स्वकृतान्युपतिष्ठंति सुखदुःखानि देहिनाम् ॥

हेतुभूतो हि यस्तेषां सोऽहंकारेण बध्यते

॥२२॥

सुशीघ्रमभिधावन्तं निजं कर्मानुधावति ॥

शेते सह शयानेन तिष्ठन्तमनुतिष्ठति

॥२३॥

यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ॥

तथा कर्म च कर्ता च नात्र कार्या विचारणा

॥२९॥

येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥

नरः स बद्धो रज्ज्वेव बलात्तत्रैव नीयते

॥२५॥

प्रमाणं कर्मभूतानां सुखदुःखोपपादने ॥

सावधानतया यच्च जाग्रतां स्वपतामपि

॥२६॥

तैलक्षये यथा दीपो निर्वाणमधिगच्छति ॥

कर्मक्षये तथा जंतुर्निर्वाणमधिगच्छति

॥२७॥

न मन्त्रा न तपो दानं न तीर्थं न च संयमः ॥

समर्था रक्षितुं जंतुं पीडितं पूर्वकर्मभिः

॥२८॥

संगत्या जठरे न्यस्तो रेतोबिन्दुरचेतनः ॥

ऋतुकाले मनुष्येण वृद्धिं गच्छति कर्मतः

॥२९॥

अन्नपानानि जीर्यंति यत्र भक्ष्यं च भक्षितम् ॥

तस्मिन्नेवोदरे गर्भः कथं नाम न जीर्यति

॥३०॥

तस्मात्कर्मकृतं सर्वं देहिनामत्र जायते ॥

शुभं वा यदि वा पापमिति मे निश्चयः सदा

॥३१॥

अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ॥

जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये विषकन्यकोत्पत्तिवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥