ततो निःक्षत्रिये लोके क्षत्त्रिण्यो वंशकारणात्
सूत उवाच
ततो निःक्षत्रिये लोके क्षत्त्रिण्यो वंशकारणात् ॥
क्षेत्रजान्ब्राह्मणेभ्यश्च सुषुवुस्तनया न्वरान् ॥
ते वृद्धिं च समासाद्य क्षेत्रजाः क्षत्रियोपमाः ॥
जगृहुर्मेदिनीं वीर्यात्संनिरस्य द्विजोत्तमान्
॥२॥ततस्ते ब्राह्मणाः सर्वे परिभूतिपदं गताः ॥
प्रोचुर्भार्गवमभ्येत्य दुःखेन महतान्विताः
॥३॥रामराम महाबाहो या त्वया वसुधा च नः ॥
वाजिमेधे मखे दत्ता क्षत्रियैः सा हता बलात् ॥
तस्मान्नो देहि तां भूयो हत्वा तान्क्षत्रियाधमान् ॥
कुरु श्रेयोऽभिवृद्धिं तां यद्यस्ति तव पौरुषम्
॥५॥ततो रामः क्रुधाविष्टो भूयस्तैः शवरैः सह ॥
पुलिन्दैर्मेदकैश्चैव क्षत्रियांताय निर्ययौ
॥६॥तत्रैव क्षत्रियान्हत्वा रक्तमादाय तद्बहु ॥
तां गर्तां पूरयामास चकार पितृतर्पणम्
॥७॥प्रददौ ब्राह्मणेभ्यश्च वाजिमेधे धरां पुनः ॥
तैश्च निर्वासितस्तत्र जगामोदधिसंनिधौ
॥८॥एवं तेन कृता पृथ्वी सर्वक्षत्त्रविवर्जिता ॥
त्रिःसप्तवारं विप्रेंद्रा द्विजेभ्यश्च निवेदिता
॥९॥तर्पिताः पितरश्चैव रुधिरेण महात्मना ॥
प्रतिज्ञा पालिता तस्माद्विकोपश्च बभूव सः
॥१०॥एकविंशतिमे प्राप्ते ततश्च पितृतर्पणे ॥
अशरीराऽभवद्वाणी खस्था पितृसमुद्भवा
॥११॥रामराम महाभाग त्यजैतत्कर्म गर्हितम् ॥
वयं ते तुष्टिमापन्नाः स्ववाक्यपरिपाल नात्
॥१२॥यत्त्वया विहितं कर्म नैतदन्यः करिष्यति ॥
न कृतं केनचित्पूर्वं पितृवैरसमुद्भवम्
॥१३॥तस्मात्तुष्टा वयं वत्स दास्यामश्चित्त वांछितम्।
प्रार्थयस्व द्रुतं तस्माद्दुर्लभं त्रिदशैरपि
॥१४॥राम उवाच
पितरो यदि तुष्टा मे यच्छंति यदि वांछितम्।
तस्मात्तीर्थमिदं पुण्यं मन्नाम्ना लोकविश्रुतम्।
रक्तदोषविनिर्मुक्तं सेवितं वरतापसैः
॥१५॥पितर ऊचुः
पितृतर्पणजा गर्ता त्वया येयं विनिर्मिता।
रामह्रद इति ख्यातिं प्रयास्यति जगत्त्रये
॥१६॥यत्र भक्तियुता लोकास्तर्पयिष्यंति वै पितॄन् ॥
तेऽश्वमेधफलं प्राप्य प्रयास्यंति परां गतिम्
॥१७॥कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नरः ॥
करिष्यति च यः श्राद्धं भक्त्या शस्त्रहतस्य च
॥१८॥अपि प्रेतत्वमापन्नं नरके वा समाश्रितम् ॥
उद्धरिष्यति स प्रेतमपि पापसमन्वितम्
॥१९॥सूत उवाच
एवमुक्त्वा तु रामं ते विरेमुस्तदनंतरम् ॥
रामोऽपि च तपस्तेपे तत्रैव क्रोधवर्जितः
॥२०॥तस्मात्सर्वप्रयत्नेन तत्र शस्त्रहतस्य च ॥
तस्मिन्दिने प्रकर्तव्यं श्राद्धं श्रद्धासमन्वितैः
॥२१॥उपसर्ग मृतानां च सर्पाग्निविषबन्धनैः ॥
तत्र मुक्तिप्रदं श्राद्धं दिने तस्मिन्नुदाहृतम्
॥२२॥यः पितॄंस्तर्पयेत्तत्र प्रेतपक्षे जलैरपि ॥
स तेषामनृणो भूत्वा पितृलोके महीयते
॥२३॥एतद्वः सर्वमाख्यातं रामह्रदसमुद्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्
॥२४॥श्राद्धकाले नरो भक्त्या यश्चैतत्पठति स्वयम् ॥
स गयाश्राद्धजं कृत्स्नं फलमाप्नोत्यसंशयम्
॥२५॥पर्वकाले ऽथवा प्राप्ते पठेद्ब्राह्मणसंनिधौ ॥
पितृमेधस्य यज्ञस्य स फलं लभते ऽखिलम्
॥२६॥शृणुयाद्वापि यो भक्त्या कीर्त्यमानमिदं नरः ॥
सौत्रामणौ कृते कृत्स्नं फलमाप्नोत्यसंशयम्
॥२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामह्रदोत्पत्तिवृत्तान्तवर्णनंनामैकोनसप्ततितमोऽ ध्यायः ॥ ६९ ॥