कथं नित्या भगवती हरपत्नी यशस्विनी
नारद उवाच
कथं नित्या भगवती हरपत्नी यशस्विनी ॥
योगसिद्धिं सुमहतीं प्राप मासचतुष्टये
॥१॥मन्त्रराजमिमं जप्त्वा द्वादशाक्षरसंभवम् ॥
एतन्मे विस्तरेण त्वं कथयस्व यथातथम्
॥२॥ब्रह्मोवाच
चातुर्मास्ये हरौ सुप्ते पार्वती नियतव्रता ॥
मनसा कर्मणा वाचा हरिभक्तिपरायणा
॥३॥चारुशृंगे पितुर्नित्यं तिष्ठंती तपसि स्थिता ॥
देवद्विजाग्निगोऽश्वत्थातिथिपूजापरायणा
॥४॥चातुर्मास्येऽथ संप्राप्ते विमले हरिवासरे ॥
जजाप परमं मंत्रं यथादिष्टं पिनाकिना
॥५॥शंखचक्रधरो विष्णुश्चतुर्हस्तः किरीटधृक् ॥
मेघश्यामोंऽबुजाक्षश्च सूर्यकोटिसमप्रभः
॥६॥गरुडाधिष्ठितो हृष्टो वसन्व्याप्य जगत्त्रयम् ॥
श्रीवत्सकौस्तुभयुतः पीतकौशेयवस्त्रकः
॥७॥सर्वाभरणशोभाभिरभिदीप्तमहावपुः ॥
बभाषे पार्वतीं विष्णुः प्रसन्नवदनः शुभाम् ॥
देवि तुष्टो ऽस्मि भद्रं ते कथयस्व तवेप्सितम्
॥८॥पार्वत्युवाच
तज्ज्ञानममलं देहि येन नावर्त्तनं भवेत् ॥
इत्युक्तः स महाविष्णुः प्रत्युवाच हरप्रियाम्
॥९॥स एव देवदेवेशस्तव वक्ष्यत्यसंशयम् ॥
स एव भगवान्साक्षी देहांतरबहिःस्थितः
॥१०॥विश्वस्रष्टा च गोप्ता च पवित्राणां च पावनः ॥
अनादिनिधनो धर्मो धर्मादीनां प्रभुर्हि सः
॥११॥अक्षरत्रयसेव्यं यत्सकलं ब्रह्म एव सः ॥
मूर्त्तामूर्त्तस्वरूपेण योऽजो जन्मधरो हि सः
॥१२॥ममाधिकारो नैवास्ति वक्तुं तव न संशयः ॥
इत्युक्त्वा भगवानीशो विरराम प्रहृष्टवान्
॥१३॥एतस्मिन्नंतरे शंभुर्गिरिजाश्रममभ्यगात् ॥
सर्वभूत गणैर्युक्तो विमाने सार्वकामिके
॥१४॥तया वै भगवान्देवः पूजितः परमेश्वरः ॥
सखीनामपि प्रत्यक्षमाश्चर्यं समजायत
॥१५॥स्तुत्वाऽथ तं महादेवं विष्णुर्देहे लयं ययौ ॥
अथोवाच महेशानः पार्वतीं परमेश्वरः
॥१६॥विमानवरमारुह्य तुष्टोऽहं तव सुव्रते ॥
गत्वैकांतप्रदेशं ते कथये परमं महः
॥१७॥एवमुक्त्वा भगवतीं करे गृह्य मुदान्वितः ॥
विमानवरमारोप्य लीलया प्रययौ तदा
॥१९॥नानाधातुमयानद्रीन्नानारत्नविचित्रितान् ॥
नदीनिर्झरकुंजांश्च नदान्कोकिलकूजितान्
॥१९॥अखातान्देवखातांश्च गंगाद्याः सरितस्तथा ॥
सौगंधिकांश्च कल्हारान्सहस्रदलपिंजरान्
॥२॥दर्शन्यकर्णिकारांश्च कोविदारान्महाद्रुमान् ॥
तालांस्तमालान्हिंतालान्प्रियंगून्पनसानपि
॥२१॥तिलकान्बकुलांश्चैव बहूनपि च पुष्पितान् ॥
क्षेत्राणि कलनाभानि पिञ्जराणि विदर्शयन्
॥२२॥ययौ देवनदीतीरे गतं शरवणं महत् ॥
फुल्लकाशं स्वर्णमयं शरस्तंबगणान्वितम्
॥२३॥हेम भूमिविभागस्थं वह्निकांतिमृगद्विजम् ॥
तत्र तीरगतानां च मुनीनामूर्ध्वरेतसाम्
॥२४॥आश्रमान्स विमानाग्रे तिष्ठन्पत्न्यै प्रदर्शयत् ॥
षट्कृत्तिकाश्च ददृशे पार्वती वनसन्निधौ
॥२५॥स्नाताः स्वलंकृताश्चन्द्रपत्न्यस्ता विरजांबराः ॥
ऊचुस्ता योजितकरा केऽयं पुत्राय गम्यते
॥२६॥तत्कथ्यतां महाभागे स च ते दर्शनं गतः
॥२७॥पार्वत्युवाच
मम भाग्यवशात्पुत्रः कथमुत्संगमाहरेत् ॥
न ह्यभाग्यवशात्पुंसां क्वापि सौख्यं निरन्तरम्
॥२८॥सुतनाम्नाप्यहं दृष्ट्वा भवतीनां च दर्शनात् ॥
किमर्थमिह संप्राप्ताः कथ्यतामविलंबितम्
॥२९॥कृत्तिका ऊचुः
वयं तव सुतं न्यस्तं प्रदातुमिह सुन्दरि ॥
चातुर्मास्ये रवौ स्नातुमागता देवनिम्नगाम्
॥३०॥पार्वत्युवाच
न हास्यावसरः सख्यः सत्यमेव हि कथ्यताम् ॥
एकांतावसरे हास्यं जायते चेतरेतरम्
॥३१॥कृत्तिका ऊचुः
सत्यं वदामहे देवि तव त्रैलोक्यशोभिते ॥
अस्य स्तंबसमूहस्य मध्यस्थं बालकं वृणु
॥३२॥कृत्तिकानां वचः श्रुत्वा शंकिता पार्वती तदा ॥
ददर्श बालं दीप्ताभं षण्मुखं दीप्तवर्चसम्
॥३३॥तडित्कोटिप्रतीकाशं रूपदिव्यश्रिया युतम् ॥
वह्निपुत्रं च गांगेयं कार्तिकेयं महाबलम्
॥३४॥सा वत्सेति गृहीत्वा तं कुमारं पाणिना मुदा ॥
विमानमध्यमादाय कृत्वोत्संगे ह्युवाच ह
॥३५॥चिरंजीव चिरं नन्द चिरं नंदय बाधवान् ॥
इत्युक्त्वा गाढमालिंग्य मूर्ध्नि चाघ्राय तं सुतम्
॥३६॥संहृष्टा परमोदारं भास्वरं हृष्टमानसम् ॥
कार्तिकेयो महाप्रेम्णा प्रणिपत्य महेश्वरम्
॥३७॥ततः प्रांजलिरव्यग्रः प्रहृष्टेनांतरात्मना ॥
तद्विमानं ययौ शीघ्रं तीर्त्वा नदनदीपतीन्
॥३८॥जंबुद्वीपमतिक्रम्य लक्षयोजनमायतम् ॥
ततः समुद्रं द्विगुणं लवणोदं तथैव च
॥३९॥उत्तरांश्च कुरून्नीत्वा विमानेनार्कतेजसा ॥
समुद्रद्विगुणं द्वीपं कुशनाभेति कीर्तितम्
॥४॥दिव्यलोकसमाक्रांतं दिव्यपर्वतसंकुलम् ॥
इक्षूदाद्विगुणं द्वीपं तद्द्वीपाद्द्विगुणः पुनः
॥४१॥तमतिक्रम्य तत्सिन्धोर्दविगुणं क्रौंचसंज्ञितम् ॥
ततोऽपि द्विगुणः सिन्धुः सुरोदो यक्षसेवितः
॥४२॥ततोऽपि द्विगुणं द्वीपं शाकद्वीपेतिसंज्ञितम् ॥
अर्णवद्विगुणं तस्मादाज्यरूपं सुनिर्मितं
॥४३॥परमस्वादसंपूर्णं यत्र सिद्धाः समंततः ॥
तस्माच्च द्विगुणं द्वीपं शाल्मलीवृक्षसंज्ञितम्
॥४४॥समुद्रो द्विगुणस्तत्र दधिमंडोदसंभवः ॥
साध्या वसंति नियतं महत्तपसि संस्थिताः
॥४५॥ततोऽपि द्विगुणं द्वीपं प्लक्षनामेति विश्रुतम् ॥
क्षीरोदो द्विगुणस्तत्र यत्रयत्रमहर्षयः ॥
षडिमानि सुदिव्यानि भौमः स्वर्ग उदाहृतः ॥
तत्र स्वर्णमयी भूमिस्तथा रजतसंयुता
॥४७॥दृष्टवा मधूपलस्वादैः सर्वकामप्रदायका ॥
यत्र स्त्रीपुरुषाणां च कल्पवृक्षा गृहे स्थिताः
॥४८॥वासांसि भूषणानां च समूहान्हर्षयंति च ॥
एतानि दक्षचिह्नानि द्वीपानि मुनिसत्तम
॥४९॥महेश्वरो विमानेन व्यतिक्रामद्विहायसा ॥
प्लक्षद्वीपस्य च प्रांते द्विगुणः क्षीरसागरः
॥५॥तन्मध्ये सुमह्द्वीपं श्वेतं नाम सुनिश्चितम् ॥
रम्यकः पर्वतस्तत्र शतशृंगोमितद्रुमः
॥५१॥तस्य शृंगे महद्दिव्ये विमानं स्थापितं तदा ॥
तदाऽमृतफलैर्वृक्षैः सेविते हेमवालुके
॥५२॥क्षीरच्छेदेन विहृते शिलातलसुसंवृते ॥
विविक्ते सर्वसुभगे मणिरत्नसमन्विते
॥५३॥उमायै कथयामास देवदेवः पिनाकधृक् ॥
कार्तिकेयोऽपि शुश्राव गुह्याद्गुह्यतरं महत् ॥
ध्यानयोगं मंत्ररूपं द्वादशाक्षरसंज्ञितम् ।
१ प्रणवेन युतं साग्रं सरहस्यं श्रुतेः परम्
॥५५॥ईश्वर उवाच
अक्षरत्रयसंयुक्तो मन्त्रोऽयं सकृदक्षरः ॥
माघमासहितश्चायममाक्षोहेनश्चायममायो विश्वपावनः ॥
विष्णुगम्यो विष्णु मध्यो मन्त्रत्रयसमन्वितः ॥
तुरीयकलयाऽशेषब्रह्मांडगणसेवितः ५७ ॥
निष्कामैर्मुनिभिः सेव्यो महाविद्यादिसेवितः ॥
नाभितः शिरसि व्याप्त अखण्डसुखदायकः
॥९८८॥ओंकारेति प्रियोक्तिस्ते महादुःखविनाशनः ॥
तं पूर्वं प्रणवं ध्यात्वा ज्ञानरूपं सुखाश्रयम्
॥५९॥ज्ञात्वा सर्वगतं ब्रह्म देहशोधनतत्परः १।
पद्मासनपरो भूत्वा संपूज्य ज्ञानलोचनः
॥६०॥नेत्रे मुकुलिते कृत्वा शुरो करौ कृत्वा तु संहतौ ॥
चेतसि ध्यानरूपेण चिंतयेच्छिवमंगलम्
॥६१॥तडित्कोटिप्रतीकाशं सूर्यकोटिसमच्छविम् ॥
चन्द्रलक्षसमच्छन्नं पुरुषं द्योतिताखिलम् १
॥६२॥मूर्त्तामूर्त्तवैराजं तं सदसद्रूप मव्यम् ॥
चिंतयित्वा विराड्रूपं न भूयःस्तनपो भवेत् ॥
चातुर्मास्ये सकृदपि ध्यानात्कल्मषसंक्षयः ॥
१ एवं च मद्रूपमिदं मुरारेरमोघवीर्यं गुण तोप्यपारम् १।
विलोकयेद्योऽघविनाशनाय क्षणं प्रभुर्जन्मशतोद्भवाय
॥६४॥इति श्रीस्कांदे महापुराण एकाशीसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ध्यानयोगोनामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥