चित्रशिलामाहात्म्यवर्णनम्
ऋषय ऊचुः
यदेषा भवता प्रोक्ता ब्राह्मी तत्र महाशिला ॥
मोक्षदा सर्वजंतूनां तथा पातकनाशिनी
॥१॥सा कथं स्थापिता तत्र किंप्रभावा च सूतज ॥
एतन्नो ब्रूहि निःशेषं न हि तृप्यामहे वयम्
॥२॥सूत उवाच
ब्रह्मलोकनिविष्टस्य ब्रह्मणोऽ व्यक्तजन्मनः ॥
पुराऽभून्महती चिन्ता तीर्थयात्रासमुद्भवा
॥३॥सर्वेषामेव देवानां संति तीर्थानि भूतले ॥
मुक्त्वा मां तन्मया कार्यं तीर्थमेकं धरातले
॥४॥यत्र त्रिकालमासाद्य कर्म संध्यासमुद्भवम् ॥
मर्त्यलोकं समासाद्य करोमि तदनंतरम्
॥५॥तथान्यदपि यत्किञ्चित्कर्म धर्म्यं हितावहम् ॥
तत्करोमि यथान्येऽपि चक्रुर्देवाः शिवादयः
॥६॥न स्वर्गेऽस्ति हि कृत्यानामधिकारोऽत्र कश्चन ॥
शुभानां कर्मणामेव केवलं भुज्यते फलम्
॥७॥तस्माद्यत्र धरापृष्ठे शिलेयं निपतिष्यति ॥
त्रिसंध्यं तत्र गन्तव्यमनुष्ठानार्थमेव हि
॥८॥एवमुक्त्वा सुविस्तीर्णां शिलां तामा सनोद्भवाम् ॥
प्रचिक्षेप धरापृष्ठं समुद्दिश्य पितामहः
॥९॥अथ सा पतिता भूमौ सर्वरत्नमयी शिला ॥
चमत्कारपुरे क्षेत्रे सर्वक्षेत्रमहोदये
॥१०॥तत आगत्य लोकेशः स्वयमेव धरातलम् ॥
तत्क्षेत्रं वीक्षयामास व्याप्तं तीर्थैः समन्ततः
॥११॥ततः पुण्यतमे देशे दृष्ट्वा तां समुपस्थिताम् ॥
शिलामानंदमापन्नः प्रोवाच तदनन्तरम्
॥१२॥अहो धन्यतमो मत्तो नान्योऽस्ति भुवनत्रये ॥
सर्वतीर्थमये क्षेत्रे यतो जातात्र संस्थितिः
॥३॥सलिलेन विना यस्मान्न क्रिया संप्रवर्तते ॥
तस्मादत्र मया कार्यः शुचितोयो महाह्रदः
॥१४॥ततः संचिंतयामास स्वसुतां च सरस्वतीम् ॥
जन संस्पर्शभीत्या च पातालतलवाहिनीम्
॥१५॥अथ भूमितलं भित्त्वा प्रादुर्भूता महानदी ॥
तां शिलाममलैस्तोयैः क्षालयन्ती समंततः
॥१६॥अथ मूर्तिमती भूत्वा प्रोवाच प्रपितामहम् ॥
किमर्थं संस्मृता देवममादेशः प्रदीयताम्
॥७॥ब्रह्मोवाच
त्वयात्रैव सदा स्थेयं शिलायां मम संनिधौ ॥
संध्यात्रयेऽपि त्वत्तोयैर्येन कृत्यं करोम्यहम्
॥१८॥तथा ये मानवाः स्नानं करिष्यंति जले तव ॥
ते यास्यंति परां सिद्धिं दुर्लभां देवा मानुषैः
॥१९॥सरस्वत्युवाच
अहं कन्या सुरश्रेष्ठ पातालतलवाहिनी ॥
जनस्पर्शभयाद्भीता नागच्छामि महीतले
॥२०॥तवादेशोऽन्यथा नैव मया कार्यः कथंचन ॥
एवं मत्वा सुरश्रेष्ठ यद्युक्तं तत्समाचर
॥२१॥ब्रह्मोवाच
तवार्थे कल्पयिष्यामि स्थानेऽत्रैव महाह्रदम् ॥
अगम्यं सर्वमर्त्यानां तत्र त्वं स्थातुमर्हसि
॥२२॥एवमुक्त्वा स देवेशश्चखान च महाह्रदम् ॥
ततः सरस्वती तत्र स्वस्थानमकरो दथ
॥२३॥ततो दृष्टिविषान्सर्पानादिदेश पितामहः ॥
युष्माभिः सर्वदा स्थेयं ह्रदेस्मिञ्छासनान्मम
॥२४॥यथा सरस्वतीं मर्त्या न स्पृशंति कथंचन ॥
भवद्भिः सर्वथा कार्यं तथा पन्नगसत्तमाः
॥२५॥सूत उवाच
एवं ब्रह्मा व्यवस्थाप्य तत्र क्षेत्रे सरस्वतीम् ॥
तां च चित्रशिलां मध्ये ब्रह्मलोकं जगाम ह
॥२६॥अथ मंकणकोनाम महर्षिः संशितव्रतः ॥
क्षेत्रे तत्र समायातो विषविद्याविचक्षणः
॥२७॥सक्रमाद्भ्रममाणस्तु तस्मिन्सर्पाभिरक्षिते ॥
तं मुनिं वेष्टयामासुर्बबन्धुश्चैव पाशकैः
॥२८॥सोऽपि विद्याबलात्सर्पान्निर्विषांस्तांश्चकारह ॥
तत्र स्नात्वा शुचिर्भूत्वा कृत्वा च पितृतर्पणम् ॥
निष्क्रांतः सलिलात्तस्मात्कृतकृत्यो मुदान्वितः
॥२९॥ततश्चक्रे मुनिर्यावत्सम्यक्कुशपरिग्रहम् ॥
दर्भाग्रेणास्य हस्ताग्रं पाटितं तावदेव हि
॥३०॥अथ तस्मात्क्षताज्जातस्तस्य शाकरसो महान् ॥
तं दृष्ट्वा स विशेषेण हर्षितो विस्मयान्वितः
॥३१॥सिद्धोऽहमिति विज्ञाय नृत्यं चक्रे ततः परम् ॥
ब्राह्मीं शिलां समारुह्य आनंदाश्रुपरिप्लुतः
॥३२॥अथैवं नृत्यमानस्य मुनेस्तस्य महात्मनः ॥
लास्यं चक्रे ततः सर्वं जगत्स्थावरजंगमम्
॥३३॥चमत्कारपुरं कृत्स्नं भग्नं नष्टा द्विजोत्तमाः ॥
प्रासादैर्ध्वंसितैस्तत्र हाहाकारो महानभूत्
॥३४॥]ततो देवगणाः सर्वे तद्दृष्ट्वा तस्य चेष्टितम् ॥
लास्यस्य वारणार्थाय प्रोचुर्वृषभवाहनम्
॥३५॥अनेन नृत्यमानेन जगत्स्थावरजंगमम् ॥
नृत्यं करोति देवेश तस्माद्गत्वा निवारय
॥३६॥नान्यः शक्तः सुरश्रेष्ठ मुनिमेनं कथंचन ॥
निषेधयितुमीशान ततः कुरु जगद्धितम्
॥३७॥अथ तेषां वचः श्रुत्वा भगवान्वृषभध्वजः ॥
कृत्वा रूपं द्विजेंद्रस्य तत्सकाशमुपाद्रवत्
॥३८॥अब्रवीच्च मुने कस्मात्त्वयैतन्नृत्यतेऽधुना ॥
तस्मात्कार्यं वदाशु त्वं परं कौतूहलं हि नः
॥३९॥एवमुक्तः स विप्रेंद्रः शंकरेण द्विजोत्तमाः ॥
हस्तं संदर्शयामास तस्य शाकरसान्वितम्
॥४०॥किं नपश्यसि मे ब्रह्मन्कराच्छाकरसो महान् ॥
संजातः क्षतवक्त्रेण तस्मात्सिद्धिरुपस्थिता
॥४१॥एतस्मात्कारणाद्विप्र नृत्यमेतत्करोम्यहम् ॥
आनंदं परमं प्राप्य सिद्धिजं सिद्धसत्तम
॥४२॥एवं तु वदतस्तस्य भगवान्वृषभध्वजः ॥
अंगुष्ठं ताडयामास स्वांगुल्यग्रेण तत्क्षणात्
॥४३॥निश्चक्राम ततो भस्म हिमस्फटिकसंनिभम् ॥
क्षताग्रात्सहसा तस्य महाविस्मयकारकम्
॥४४॥ततः प्रोवाच तं विप्रं स देवो द्विजसत्तमाः ॥
यस्यांगुष्ठाग्रतो मह्यं निष्क्रांतं भस्म पांडुरम्
॥४५॥तथाप्यहं मुनिश्रेष्ठ न नृत्यं कर्तुमुत्सहे ॥
त्वं पुनर्नृत्यसे कस्मादपि शाकरसेक्षणात्
॥४६॥विरामं कुरु तस्मात्त्वं नृत्यादस्माद्विगर्हितात् ॥
तपः क्षरति विप्रेन्द्र नृत्यगीताद्द्विजन्मनः
॥४७॥अथासौ तत्समुद्वीक्ष्य क्षताद्भस्मविसर्जनम् ॥
नृत्यं व्रीडान्वितस्त्यक्त्वा तस्य चक्रे नमस्कृतिम्
॥४०॥अब्रवीत्त्वामहं मन्ये नान्यं देवान्महेश्वरात् ॥
तस्मात्कुरु प्रसादं मे यथा न स्यात्तपःक्षतिः
॥४९॥श्रीभगवानुवाच
तपस्ते मत्प्रसादेन वृद्धिं शस्यति नित्यशः ॥
स्थानेऽत्र भवता सार्धमहं स्थास्यामि सर्वदा
॥५०॥आनन्दितेन भवता प्रार्थितोऽहं यतो मुने ॥
आनन्देश्वरसंज्ञस्तु ख्यातिं यास्यामि भूतले ॥
एतत्पुरं च मे नाम्ना आनन्दाख्यं भविष्यति
॥५१॥एवमुक्त्वा महादेवो गतश्चादर्शनं ततः ॥
सोऽपि मंकणकस्तत्र तपस्तेपे मुनीश्वरः
॥५२॥अथ ते पन्नगाः प्रोचुः प्रणिपत्य मुनीश्वरम् ॥
भगवन्निर्विषाः सर्वे वयं हि भवता कृताः
॥९३॥तस्मात्कुरु प्रसादं नो यथा स्याद्दारुणं विषम् ॥
नो चेद्वयं गमिष्यामः सर्वलोक पराभवम्
॥५४॥मंकणक उवाच
अनृतं न मया प्रोक्तं स्वैरेणापि कदाचन ॥
तस्मादेवंविधाः सर्वे जलसर्पा भविष्यथ
॥५५॥सूत उवाच
ततःप्रभृति संजाता जलसर्पा महीतले ॥
तद्वद्रूपा द्विजिह्वाश्च केवलं विषवर्जिताः
॥५६॥अथ तस्मिन्ह्रदे मर्त्याः स्नात्वा सारस्वते शुभे ॥
स्पृष्ट्वा चित्रशिलां तां च प्रयांति परमां गतिम्
॥५७॥अथ भीतः सहस्राक्षो गत्वा देवं पितामहम् ॥
यमेन सहितस्तूर्णं प्रोवाचेदं वचस्तदा
॥५८॥त्वत्प्रसादात्समुद्वीक्ष्य गच्छंति मनुजा दिवम् ॥
पितामह महातीर्थं यत्त्वया विहितं क्षितौ ॥
सारस्वतं नरास्तत्र स्नात्वा यांति त्रिविष्टपम्
॥५९॥अपि पापसमाचाराः सर्वधर्मबहिष्कृताः ॥
तत्र स्नात्वा शिलां स्पृष्ट्वा तदैवायांति सद्गतिम्
॥६०॥यम उवाच
अप्रमाणं विभो कर्म संप्रयातं ममोचितम् ॥
शुभाशुभपरिज्ञानं सर्वेषामेव देहिनाम्
॥६१॥तस्मात्त्यज त्वं मां देव यद्वा तत्तीर्थमुत्तमम् ॥
यत्प्रभावाज्जनैर्हीनाः संजाता नरका मम
॥६२॥तस्य तद्वचनं श्रुत्वा यमस्य प्रपितामहः ॥
प्राह पार्श्वस्थितं शक्रं तत्तीर्थं नय संक्षयम्
॥६३॥ततः शक्रो ह्रदं गत्वा पूरयामास पांसुभिः ॥
ह्रदं सारस्वतं तं च तां च चित्रशिलां द्विजाः
॥६४॥अद्यापि मनुजः सम्यक्त स्मिन्स्थाने व्यवस्थितः ॥
यः करोति तपश्चर्यां स शीघं सिद्धिमाप्नुयात्
॥६५॥सोऽपि मंकणकस्तत्र सार्द्धं देवेन शंभुना ॥
तिष्ठत्यद्यापि विप्रेंद्र पूरितं चैव पांसुभिः
॥६६॥लिंगं मंकणकन्यस्तं तत्रास्ति सुमहोदयम् ॥
तत्स्पृष्ट्वा मानवाः पापैर्मुच्यंते द्विजसत्तमाः
॥६७॥माघ शुक्लचतुर्दश्यां यस्तं पूजयते नरः ॥
स पापैरपि संयुक्तः शिवलोके महीयते
॥६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रशिलामाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥