मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६५

3
नागरखण्डः · 165

हाटकेश्वरक्षेत्रमाहात्म्येऽश्वतीर्थोत्पत्तिवर्णनम्

सूत उवाच

ततःप्रभृतिपुण्ये च सरस्वत्यास्तटेशुभे ॥

बाह्यानां नागराणां च स्थानं जातं महत्तरम्

॥१॥

पुत्रपौत्रप्रवृद्धानां दौहित्राणां द्विजोत्तमाः ॥

चमत्कारपुरस्याग्रे यज्ज्ञातं विद्यया धनैः

॥२॥

कस्यचित्त्वथ कालस्य विश्वामित्रेण धीमता ॥

शप्ता सरस्वती कोपात्कृता रुधिरवाहिनी

॥३॥

ततः संसेव्यते हृष्टै राक्षसैः सा दिवानिशम् ॥

गीतनृत्यपरैश्चान्यैर्भूतैः प्रेतैः पिशाचकैः

॥४॥

ततस्ते नागरा बाह्यास्तां त्यक्त्वा दूरतः स्थिताः ॥

कांदिशीकास्ततो याता भक्ष्यमाणास्तु राक्षसैः ॥

नर्मदायास्तटे पुण्ये मार्कण्डाश्रमसंनिधौ

॥५॥

ऋषय ऊचुः

कस्मात्सरस्वती शप्ता विश्वामित्रेण धीमता ॥

महानद्या कोऽपराधस्तया तस्य विनिर्मितः

॥६॥

सूत उवाच

आसीत्पुरा महद्वैरं विश्वामित्रवसिष्ठयोः ॥

ब्राह्मण्यस्य कृते विप्राः प्राणान्तकरणं महत् ॥

स सर्वैर्ब्राह्मणैः प्रोक्तो विश्वामित्रो महामुनिः

॥७॥

क्षत्रियोऽपि पुरस्कृत्य देवदेवं पितामहम् ॥

न चैकेन वसिष्ठेन तेनैतद्वैरमाहितम्

॥८॥

ऋषय ऊचुः

क्षत्रियोऽपि कथं विप्रो विश्वा मित्रो महामते ॥

वसिष्ठेन कथं नोक्तो यः प्रोक्तो ब्रह्मणा स्वयम्

॥९॥

एतन्नः सर्वमाचक्ष्व परं कौतूहलं स्थितम्

॥१०॥

सूत उवाच

आसीत्पुरा ऋचीकाख्यो भृगुपुत्रो महामुनिः ॥

व्रताध्ययनसंपन्नः सुतपस्वी महायशाः

॥११॥

तीर्थयात्राप्रसंगेन स कदाचिन्मुनीश्वरः ॥

स्थानं भोजकटं नाम प्राप्तो गाधिमहीपतेः ॥

यत्र सा कौशिकीनाम नदी त्रैलोक्यविश्रुता

॥१२॥

तस्यां स्नात्वा द्विजश्रेष्ठो यावत्तिष्ठति तीरगः ॥

समाधिस्थो जपं कुर्वन्संतर्प्य पितृदेवताः

॥१३॥

तावत्तत्र समायाता राजकन्या सुशोभना ॥

सर्वलक्षणसम्पूर्णा सर्वैरेव गुणैर्युता

॥१४॥

स तां संवीक्षते यावत्सर्वावयवशोभनाम् ॥

तावत्कामशरैर्व्याप्तः कर्तव्यं नाभ्यविंदत

॥१५॥

ततः पप्रच्छ लोकान्स लब्ध्वा कृच्छ्रेण चेतनाम् ॥

कस्येयं कन्यका साध्वी किमर्थमिह चागता

॥१६॥

क्व यास्यति वरारोहा सर्वं मे कथ्यतां जनाः

॥१७॥

जना ऊचुः

एषा गाधिसुतानाम ख्याता त्रैलोक्यसुन्दरी ॥

अन्तःपुरात्समायाता गौरीपूजनलालसा

॥१८॥

वांछमाना सुभर्त्तारं सर्वैः समुदितंगुणैः ॥

प्रासादोऽयं स्थितो योऽत्र नदीतीरे बृहत्तरः

॥१९॥

उमा संतिष्ठते चात्र सर्वैः संपूजिता सुरैः ॥

एतां च स्नापयित्वेयं पूजयित्वा यथा क्रमम्

॥२०॥

नैवेद्यं विविधं दत्त्वा करिष्यति ततः परम् ॥

वीणाविनोदमात्रं च श्रुतिमार्गसुखावहम्

॥२१॥

ततो यास्यति हर्म्यं स्वं मन्दीभूते च भास्करे ॥

ऋचीकस्तु तदाकर्ण्य लोकानां वचनं च यत्

॥२२॥

ययौ गाधिगृहं शीघ्रं कामबाणप्रपीडितः ॥

तं दृष्ट्वा सहसा प्राप्तमृचीकं भृगु सत्तमम् ॥

संमुखः प्रययौ तूर्णं गाधिः पार्थिवसत्तमः

॥२३॥

गृह्योक्तेन विधानेन कृत्वा चैवार्हणं ततः ॥

कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह

॥२४॥

निःस्पृहस्यापि ते विप्र किमागमनकारणम् ॥

तत्सर्वं मे समाचक्ष्व येन यच्छामि तेऽखिलम्

॥२५॥

ऋचीक उवाच

तव कन्याऽस्ति विप्रेंद्र वरार्हा वरवर्णिनी ॥

ब्राह्मोक्तेन विवाहेन तां मे देहि महीपते

॥२६॥

एतदर्थमहं प्राप्तो गृहे तव स्मरार्दितः ॥

सा मया वीक्षिता राजन्गौरीपूजार्थमागता

॥२७॥

सूत उवाच

तच्छ्रुत्वा भयसंत्रस्तो गाधिः पार्थिवसत्तमः ॥

असवर्णं च तं मत्वा दरिद्रं वृद्धमेवच ॥

अदाने शापभीतस्तु ततो व्याजमुवाच सः

॥२८॥

अस्माकं कन्यकादाने शुल्कमस्ति द्विजोत्तम ॥

तच्चेद्यच्छसि कन्यां तां तुभ्यं दास्याम्यसंशयम्

॥२९॥

ऋचीक उवाच

ब्रूहि पार्थिवशार्दूल कन्याशुल्कं मम द्रुतम् ॥

येन यच्छामि ते सर्वं यद्यपि स्यात्सुदुर्लभम्

॥३०॥

गाधिरुवाच

एकतः श्यामकर्णानामश्वानां वातरंहसाम् ॥

शतानि सप्त विप्रेंद्र श्वेतानां चैव सर्वतः

॥३१॥

य आनीय प्रदद्यान्मे तस्मै कन्यां ददाम्यहम्

॥३२॥

सूत उवाच

स तथेति प्रतिज्ञाय ऋचीको मुनिसत्तमः ॥

कान्यकुब्जं समासाद्य गंगातीरे विवेश ह

॥३३॥

अश्वो वोढेति यत्सूक्तं चतुःषष्टिसमुद्भवम् ॥

छंदऋषिदेवतायुक्तं जपं चक्रे ततः परम्

॥३४॥

विनियोगं वाजिकृतं गाधिना यत्प्रकीर्तितम् ॥

ततस्ते वाजिनस्तस्मान्निष्क्रांताः सलिलाद्द्विजाः

॥३५॥

सर्वश्वेताः सुवेगाश्च श्यामैकश्रवणास्तथा ॥

शतानि सप्तसंख्यानि तावत्संख्यै र्नरैयुताः

॥३६॥

ततः प्रभृति विख्यातमश्वतीर्थं धरातले ॥

गंगातीरे शुभे पुण्ये कान्यकुब्जसमीपगम् ॥

यस्मिन्स्नाने कृते मर्त्यो वाजिमेधफलं लभेत्

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽश्वतीर्थोत्पत्तिवर्णनंनाम पंचषष्ट्यधिकशततमोऽध्यायः ॥ १६५ ॥