मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५०

3
नागरखण्डः · 250

बिल्वोत्पत्तिवर्णनम्

वाण्युवाच

बिल्वपत्रस्य माहात्म्यं कथितुं नैव शक्यते ॥

तवोद्देशेन वक्ष्यामि महेन्द्र शृणु तत्त्वतः

॥१॥

विहारश्रममापन्ना देवी गिरिसुता शुभा ॥

ललाटफलके तस्याः स्वेदबिन्दुरजायत

॥२॥

स भवान्या विनिक्षिप्तो भूतले निपपात च ॥

महातरुरयं जातो मन्दरे पर्वतोत्तमे

॥३॥

ततः शैलसुता तत्र रममाणा ययौ पुनः ॥

दृष्ट्वा वनगतं वृक्षं विस्मयोत्फुल्ललोचना

॥४॥

जयां च विजयां चैव पप्रच्छ च सखीद्वयम् ॥

कोऽयं महातरुर्दिव्यो विभाति वनमध्यगः ॥

दृश्यते रुचिराकारो महाहर्षकरो ह्ययम्

॥५॥

जयोवाच

देवि त्वद्देहसंभूतो वृक्षोऽयं स्वेदबिन्दुजः ॥

नामाऽस्य कुरु वै क्षिप्रं पूजितः पापनाशनः

॥६॥

पार्वत्युवाच

यस्मात्क्षोणीतलं भित्त्वा विशिष्टोऽयं महातरुः

॥७॥

उदतिष्ठत्समीपे मे तस्माद्बिल्वो भवत्वयम् ॥

इमं वृक्षं समासाद्य भक्तितः पत्रसंचयम्

॥८॥

आहरिष्यत्यसौ राजा भविष्यत्येव भूतले ॥

यः करिष्यति मे पूजां पत्रैः श्रद्धासमन्वितः

॥९॥

यंयं काममभिध्यायेत्तस्य सिद्धिः प्रजायते ॥

यो दृष्ट्वा बिल्वपत्राणि श्रद्धामपि करिष्यति

॥१०॥

पूजनार्थाय विधये धनदाऽहं न संशयः ॥

पत्राग्रप्राशने यस्तु करिष्यति मनो यदि ॥

तस्य पापसहस्राणि यास्यंति विलयं स्वयम

॥११॥

शिरः पत्राग्रसंयुक्तं करोति यदि मानवः ॥

न याम्या यातना ह्यस्य दुःखदात्री भविष्यति

॥१२॥

इत्युक्त्वा पार्वती हृष्टा जगाम भवनं स्वकम् ॥

सखीभिः सहिता देवी गणैरपि समन्विता

॥१३॥

वाण्युवाच

अयं बिल्वतरुः श्रेष्ठः पवित्रः पापनाशनः ॥

तस्य मूले स्थिता देवी गिरिजा नात्र संशयः

॥१४॥

स्कन्धे दाक्षायणी देवी शाखासु च महेश्वरी ॥

पत्रेषु पार्वती देवी फले कात्या यनी स्मृता

॥१५॥

त्वचि गौरी समाख्याता अपर्णा मध्यवल्कले ॥

पुष्पे दुर्गा समाख्याता उमा शाखांगकेषु च

॥१६॥

कण्टकेषु च सर्वेषु कोटयो नवसंख्यया ।

शक्तयः प्राणिरक्षार्थं संस्थिता गिरिजाऽऽज्ञया

॥१७॥

तां भजंति सुपत्रैश्च पूजयंति सनातनीम् ॥

यंयं कामयते कामं तस्य सिद्धिर्भवेद्ध्रुवम्

॥१८॥

महेश्वरी सा गिरिजा महेश्वरी विशुद्धरूपा जनमोक्षदात्री ॥

हरं च दृष्ट्वाथ पलाशमाश्रितं स्वलीलया बिल्ववपुश्चकार सा

॥१९॥

इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातु र्मास्यमाहात्म्ये पैजवनोपाख्याने बिल्वोत्पत्तिवर्णनंनाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥