दुःशीलाख्यप्रासादोत्पत्तिवर्णनम्
सूत उवाच
अथापश्यत्स विप्राणां वृन्दं वृन्दारकोपमम् ॥
संनिविष्टं धरापृष्ठे लीलाभाजि द्विजोत्तमाः ॥
एके वेदविदस्तत्र वेदव्याख्यानतत्पराः ॥
परस्परं सुसंक्रुद्धा विवदंति जिगीषवः
॥२॥यज्ञविद्याविदोऽन्येऽपि यज्ञाख्यानपरायणाः ॥
तत्र विप्राः प्रदृश्यंते शतशो ब्रह्मवादिनः
॥३॥अन्ये ब्राह्मणशार्दूला वेदांगेषु विचक्षणाः ॥
प्रवदंति च संदेहान्वृन्दानामग्रतः स्थिताः
॥४॥वेदाभ्यासपराश्चान्ये तारनादेन सर्वशः ॥
नादयंतो दिशां चक्रं तत्र सम्यग्द्विजोत्तमाः
॥५॥अन्ये कौतूहलाविष्टाः संचरान्विषमान्मिथः ॥
पप्रच्छुर्जहसुश्चान्ये ज्ञात्वा मार्गप्रवर्तिनम्
॥६॥स्मृतिवादपराश्चान्ये तथान्ये श्रुतिपाठकाः ॥
संदेहान्स्मृतिजानन्ये पृच्छंति च परस्परम्
॥७॥कीर्तयंति तथा चान्ये पुराणं ब्राह्मणोत्तमाः ॥
वृद्धानां पुरतस्तत्र सभामध्ये व्यवस्थिताः
॥८॥अथ तान्स मुनिर्दृष्ट्वा ब्राह्मणान्संशितव्रतान् ॥
अभिवाद्य ततः प्राह सादरं विनयान्वितः
॥९॥मम बुद्धिः समुत्पन्ना शम्भोरायतनं प्रति ॥
कर्तुं ब्राह्मणशार्दूलास्तस्मात्स्थानं प्रदर्श्यताम्
॥१०॥तवाहं देवदेवस्य शम्भोः प्रासादमुत्तमम् ॥
विधायाराधयिष्यामि तमेव वृषभध्वजम्
॥११॥स एवं जल्पमानोऽपि मुहुर्मुहुरतंद्रितः ॥
न तेषामुत्तरं लेभे शुभं वा यदि वाशुभम्
॥१२॥ततः कोपपरीतात्मा समुनिस्तान्द्विजोत्तमान् ॥
शशाप तारशब्देन यथा शृण्वंति कृत्स्नशः
॥१३॥दुर्वासा उवाच
विद्यामदो धनमदस्तृतीयोऽभिजनोद्भवः ॥
एते मदावलिप्तानामेत एव सतां दमाः
॥१४॥तत्र येऽपि हि युष्माकं मदा एव व्यवस्थिताः ॥
यतस्ततोऽन्वयेऽप्येवं भविष्यति मदान्विताः
॥१५॥सदा सौहृदनिर्मुक्ताः पितरोऽपि सुतैः सह ॥
भविष्यंति पुरे ह्यस्मिन्किं पुनर्बांधवादयः
॥१६॥एवमुक्त्वा स विप्रेन्द्रो निवृत्तस्तदनन्तरम् ॥
अपमानं परं प्राप्य ब्राह्मणानां द्विजोत्तमाः
॥१७॥अथ तन्मध्यगो विप्र आसीद्वृद्धतमः सुधीः ॥
सुशील इति विख्यातो वेदवेदांगपारगः
॥१८॥स दृष्ट्वा तं मुनिं क्रुद्धं गच्छंतमपमानितम् ॥
सत्वरं प्रययौ पृष्ठे तिष्ठ तिष्ठेति च ब्रुवन्
॥१९॥अथासाद्य गतं दूरं प्रणिपत्य मुनिं च सः ॥
प्रोवाच क्षम्यतां विप्र विप्राणां वचनान्मम
॥२०॥एतैः स्वाध्यायसंपन्नैर्न श्रुतं वचनं तव ॥
नोत्तरं तेन संदत्तं सत्यमेतद्ब्रवीम्यहम्
॥२१॥तस्माद्भूमिर्मया दत्ता शंभुहर्म्यकृते तव ॥
अस्मिन्स्थाने द्विजश्रेष्ठ प्रासादं कर्तुमर्हसि
॥२२॥तस्य तद्वचनं श्रुत्वा दुर्वासा हर्षसंयुतः ॥
क्षितिदानोद्भवां चक्रे स्वस्ति ब्राह्मणसत्तमाः ॥
प्रासादं निर्ममे पश्चात्तस्य वाक्ये व्यवस्थितः
॥२३॥अथ ते ब्राह्मणा ज्ञात्वा सुशीलेन वसुन्धरा ॥
देवतायतनार्थाय दत्ता तस्मै तपस्विने
॥२४॥सर्वे कोपसमायुक्ताः सुशीलं प्रति ते द्विजाः
॥२५॥ततः प्रोचुः समासाद्य येन शप्ता दुरात्मना ॥
वयं तस्मै त्वया दत्ता प्रासादार्थं वसुन्धरा
॥२६॥तस्मात्त्वमपि चास्माकं बाह्य एव भविष्यसि ॥
सुशीलोऽपि हि दुःशीलो नाम्ना संकीर्त्यसे बुधैः
॥२७॥एषोऽपि तापसो दुष्टो यः करोति शिवालयम् ॥
नैव तस्य भवेत्सिद्धिश्चापि वर्षशतैरपि
॥२८॥तथा कीर्तिकृतां लोके कीर्तनं क्रियते नरैः ॥
ततः संपश्यतां चास्य कीर्तिर्नास्य तु दुर्मतेः
॥२९॥एष दुःशीलसंज्ञो वै तव नाम्ना भविष्यति ॥
प्रासादो नाममात्रेण न संपूर्णः कदाचन
॥३०॥यस्मात्सौहृदनिर्मुक्ताः कृतास्तेन वयं द्विजाः ॥
मदैस्त्रिभिः समायुक्ताः सर्वान्वयसमन्विताः
॥३१॥तस्मादेषोऽपि पापात्मा भविष्यति स कोपभाक् ॥
तप्तं तप्तं तपो येन संप्रयास्यति संक्षयम्
॥३२॥एवमुक्त्वाथ ते विप्राः कोपसंरक्तलोचनाः ॥
दुःशीलं संपरित्यज्य प्रविष्टाः स्वपुरे ततः
॥३३॥दुःशीलोऽपि बहिश्चक्रे गृहं तस्य पुरस्य च ॥
देवशर्मा यथापूर्वं संत्यक्तः पुरवासिभिः
॥३४॥तस्यान्वयेऽपि ये जातास्ते बाह्याः संप्रकीर्तिताः ॥
बाह्याः क्रियासु सर्वासु सर्वेषां पुरवासिनाम्
॥३५॥सूत उवाच
एवं तेषु द्विजेंद्रेषु शापं दत्त्वा गतेषु च ॥
दुर्वासाः प्राह दुःशीलं कोपसंरक्तलो चनः
॥३६॥मम सिद्धिं गता मंत्राः समर्थाः शत्रुसंक्षये ॥
आथर्वणास्तथा चान्ये वेदत्रयसमुद्भवाः
॥३७॥तस्मादेतत्पुरं कृत्स्नं पशुपक्षि समन्वितम् ॥
नाशमद्य नयिष्यामि यथा शत्रोर्हि दुष्टकः
॥३८॥दुःशील उवाच
नैतद्युक्तं नरश्रेष्ठ तव कर्तुं कथंचन ॥
ब्राह्मणानां कृते कर्म ब्राह्मणस्य विशेषतः
॥३९॥निघ्नंतो वा शपंतो वा वदंतो वापि निष्ठुरम् ॥
पूजनीयाः सदा विप्रा दिव्याँल्लोकानभीप्सुभिः
॥४०॥ब्राह्मणैर्निर्जितैर्मेने य आत्मानं जयान्वितम् ॥
तामिस्रादिषु घोरेषु नरकेषु स पच्यते
॥४१॥आत्मनश्च पराभूतिं तस्माद्विप्रात्सहेत वै ॥
य इच्छेद्वसतिं स्वर्गे शाश्वतीं द्विजसत्तम
॥४२॥एतेषां ब्राह्मणेंद्राणां क्षेत्रे सिद्धिं समागताः ॥
मंत्रास्ते तत्कथं नाशं त्वमेतेषां करिष्यसि
॥४३॥ब्रह्मघ्ने च सुरापे च चौरे भग्नवते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
॥४४॥तस्मात्कोपो न कर्तव्यः क्षेत्रे चात्र व्यवस्थितैः ॥
क्षमां कुरु मुनिश्रेष्ठ कृपां कृत्वा ममोपरि
॥४५॥सूत उवाच
स तथेति प्रतिज्ञाय तत्र कृत्वावसत्तपः ॥
प्राप्तश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि
॥४६॥दुःशीलाख्यः क्षितौ सोऽपि प्रासादः ख्याति मागतः ॥
यस्य संदर्शनादेव नरः पापात्प्रमुच्यते
॥४७॥तस्य मध्यगतं लिंगं शुक्लाष्टम्यां सदा नरः ॥
यः पश्यति क्षणं ध्यात्वा नरकं स न पश्यति
॥४८॥इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुःशीलाख्यप्रासादोत्पत्ति वर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥