मंदराचलंप्रतिगमनवर्णनम्
पैजवन उवाच
शालिग्रामशिलायां च जगदादिः सनातनः ॥
कथं पाषाणतां प्राप्तो गण्डक्यां तच्च मे वद ॥
त्वत्प्रसादेन विप्रर्षे हरौ भक्तिर्दृढा भवेत् ॥
भवंतस्तीर्थरूपा हि दर्शनात्पापहारिणः
॥२॥तीर्थामृतावगाहेन यथा पवित्रता नृणाम् ॥
भवद्वाक्यामृताज्जाता तथा मम न संशयः
॥३॥गालव उवाच
इतिहासस्त्वयं पुण्यः पुराणेषु च पठ्यते ॥
यथा स एव भगवाञ्छालिग्रामत्वमागतः
॥४॥महेश्वरश्च लिंगत्वं कथयेऽहं तवाऽनघ ॥
पूर्वं प्रजापतिर्दक्षो ब्रह्मणोंऽगुष्ठ संभवः
॥५॥' तस्यासीद्दुहिता साध्वी सतीनाम्नी सुलक्षणा ॥
हरेणोढा विधिज्ञेन वेदोक्तविधिना ततः
॥६॥स चकार महायज्ञे हरद्वेषं विमूढधीः ॥
तेन द्वेषेण महता सती प्रकुपिता भृशम्
॥७॥यज्ञवेद्यां समागम्य वह्निधारणया तदा ॥
प्राणायामपरा भूत्वा देहोत्सर्गं चकार सा
॥८॥पितृभागं परित्यज्य स्वभागेन युता सती ॥
मनसा ध्यानमगमच्छीतलं च हिमालयम्
॥९॥यत्रयत्र मनो याति स्वकर्मवशगं मृतौ ॥
अवतारस्तत्रतत्र जायते नात्र संशयः
॥१०॥दह्यमाना हि सा देवी हिमालयसुताऽभवत् ॥
तत्र सा पार्वती भूत्वा तप उग्रं समाश्रिता
॥११॥शिवभक्तिरता नित्यं हरव्रतपरायणा ॥
शृंगे हिमवतः पुत्री मनो न्यस्य महेश्वरे
॥१२॥ततो वर्षसहस्रांते भगवान्भूतभावनः ॥
अथाजगाम तं देशं विप्ररूपो महेश्वरः
॥१३॥तां ज्ञात्वा तपसा शुद्धां कर्मभावैः परीक्षितैः ॥
ततो दिव्यवपुर्भूत्वा करे जग्राह पार्वतीम्
॥१४॥तपसा निर्जितश्चास्मि करवाणि च किं प्रियम् ॥
ततः प्राह महेशानं प्रमाणं मे पिता गुरुः
॥१५॥सप्तर्षीन्स तथोक्तस्तु प्रेषयामास शंकरः ॥
ते तत्र गत्वा समयं वक्तुं हिमवता सह
॥१६॥निवेद्य च महेशानं प्रेषिता मुनयो ययुः ।
ततो लग्नदिने देवा महेन्द्रादय ईश्वरम्
॥१७॥ब्रह्मविष्णुपुरोगाश्च पुरोधायाग्निमाययुः ॥
योगसिद्धा समायांतं वरवेषं वृषध्वजम् ।
हिमवान्पूजयामास मधुपर्कादिकैः शुभैः ॥
उपचारैर्मुदा युक्तो मानयन्कृतकृत्यताम्
॥१९॥वेदोक्तेन विधानेन तां कन्यां समयोजयत् ॥
पाणिग्रहेण विधिना द्विजातिगणसंवृतः
॥२०॥वह्निं प्रदक्षिणीकृत्य गिरीशस्तदनन्तरम् ॥
दानकाले च गोत्रादि पृष्टो लज्जापरो हर
॥२१॥ब्रह्मणो वचनात्तेन विधिशेषोऽवशेषितः ॥
चरुप्राशनकाले तु पंचवक्त्रप्रकाशकृत्
॥२२॥सहितः सकलैर्देवैः कुतूहलपरायणः ॥
गिरिजार्थं समायुक्तो वरः सोऽपि महेश्वरः
॥२३॥नवकोटिमुखां दृष्ट्वा साट्टहासो जनोऽभवत् ॥
वैदिकी श्रुतिरित्युक्ता शिव त्वं स्थिरतां व्रज
॥२४॥लज्जिता सा परित्यागं नाकरोत्पंचजन्मसु ॥
भर्त्तारमसितापांगी हरमेवाभ्यगच्छत
॥२५॥देवानां पर्वतानां च प्रहृष्टं सकलं कुलम् ॥
ततो विवाहे संपूर्णे हरोऽगात्कौतुकौकसि
॥२६॥गणानां चापि सान्निध्ये सा नामर्षयदंबिका ॥
पारिबर्हं ततो दत्त्वा शैलेन स विसर्जितः
॥२७॥मानितः सत्कृतश्चापि मन्दराचलमभ्यगात् ॥
विश्वकर्मा ततस्तस्य क्षणेन मणिमद्गृहम्
॥२८॥निर्ममे देवदेवस्य स्वेच्छावर्द्धिष्णुमंदिरम् ॥
सर्वर्द्धिमत्प्रशस्ताभं मणिविद्रुमभूषितम्
॥२९॥स्थूणासहस्रसंयुक्तं मणिवेदिमनोहरम् ॥
गणा नंदिप्रभृतयो यस्य द्वारि समाश्रिताः
॥३०॥त्रिनेत्राः शूलहस्ताश्च बभुः शंकररूपिणः ॥
वाटिका अस्य परितः पारिजाताः सहस्रशः
॥३१॥कामधेनुर्मणिर्दिव्यो यस्य द्वारि समाश्रितौ ॥
तस्मिन्मनोहरतरे कामवृद्धिकरे गृहे
॥३२॥पार्वत्या वसतः सार्द्धं कामो दृष्टिपथं ययौ ॥
वायुरूपः शिवं दृष्ट्वा कामः प्रोवाच शंकरम्
॥३३॥नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
नमस्ते गणनाथाय पाहि नाथ नमोऽस्तु ते
॥३४॥त्वया विरहितं लोकं शववत्स्पृशते मही ॥
न त्वया रहितं किञ्चि द्दृश्यते सचराचरे
॥३५॥त्वं गोप्ता त्वं विधाता च लोकसंहारकारकः ॥
कृपां कुरु महादेव देहदानं प्रयच्छ मे
॥३६॥ईश्वर उवाच
यन्मया त्वं पुरा दग्धः पर्वते पुरतोऽनघ ॥
तस्या एव समीपे त्वं पुनर्भव स्वदेहवान्
॥३७॥एवमुक्तस्ततः कामः स्वशरीरमुपागतः ॥
ववंदे चरणौ शूद्र विनयावनतोऽभवत्
॥३८॥ततो ननाम चरणौ पार्वत्याः संप्रहृष्टवान् ॥
लब्धप्रसादस्तु तयोः समीपाद्भुवनत्रये
॥३९॥चचार सुमहातेजा महामोहबलान्वितः ॥
पुष्पधन्वा पुष्पबाणस्त्वाकुञ्चितशिरोरुहः
॥४०॥सदा घूर्णितनेत्रश्च तयोर्देहमुपाविशत् ॥
दिव्यासवैर्दिव्यगंधैर्वस्त्रमाल्यादिभिस्तथा
॥४१॥सख्यः संभोगसमये परिचक्रुः समंततः ॥
एवं प्रक्रीडतस्तस्य वत्सराणां शतं ययौ
॥४२॥साग्रमेका निशा यद्वन्मैथुने सक्तचेतसः ॥
एतस्मिन्नंतरे देवास्तारकप्रद्रुता भयात् ॥
ब्रह्माणं शरणं जग्मुः स्तुत्वा तं शरणं गताः
॥४३॥देवा उचुः ॥
तारकोऽसौ महारौद्रस्त्वया दत्तवरः पुरा
॥४४॥विजित्य तरसा शक्रं भुंक्ते त्रैलोक्यपूजितः ॥
वधोपायो यथा तस्य जायते त्वं कुरु स्वयम्
॥४५॥ब्रह्मोवाच
मया दत्तवरश्चासौ मयैवोच्छिद्यते नहि ॥
स्वयं संवर्ध्य कटुकं छेत्तुं कोऽपि न चार्हति
॥४६॥तस्मात्तस्य वधोपायं कथयामि महात्मनः ॥
पार्वत्यां यो महेशानात्सूनुरुत्पत्स्यते हि सः
॥४७॥दिनसप्तकवान्भूत्वा तारकं स हनिष्यति ॥
इति वाक्यं तु ते श्रुत्वा मंदरं लोकसुंदरम्
॥४८॥ब्रह्मलोकात्समाजग्मुः पीडिता दैत्यदानवैः
॥४९॥तत्र नंदिप्रभृतयो गणाः शूलभृतः पुरः ॥
गृहद्वारे ह्युपा वृत्य तस्थुः संयतचेतसः
॥५०॥देवा ऊचुः
देवाश्च दुःखातुरचेतसो भृशं हतप्रभास्त्यक्तगृहाश्रयाखिलाः ॥
संप्राप्य मासांश्चतुरः स्तपः स्थिता देवे प्रसुप्ते हरतोषणं परम्
॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तारकोपद्रुतानां देवानां शिवदर्शनार्थं मंदराचलंप्रतिगमनवर्णनंनाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥