मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२३

3
नागरखण्डः · 123

तथान्यदपि तत्रास्ति शुक्लतीर्थमनुत्तमम्

सूत उवाच

तथान्यदपि तत्रास्ति शुक्लतीर्थमनुत्तमम् ॥

दर्भैः संसूचितं श्वेतैर्यदद्यापि द्विजोत्तमाः

॥१॥

चमत्कारपुरे पूर्वमासीत्कश्चित्सुशल्यवित् ॥

रजकः शुद्धकोनाम पुत्रपौत्रसमन्वितः

॥२॥

स सर्वरजकानां च प्राधान्येन व्यवस्थितः ॥

प्रधानब्राह्मणानां च करोत्यंबरशोधनम्

॥३॥

कस्यचित्त्वथ कालस्य नीलीकुण्ड्यां समाहितः ॥

प्राक्षिपद्ब्राह्मणेंद्राणां वासो विज्ञातवांश्चिरात्

॥४॥

अथासौ मन्दचित्तश्च स्वामाहूयकुटुम्बिनीम् ॥

पुत्रांश्च वचनं प्राह रहस्ये भयविह्वलः

॥५॥

निर्मूल्यानि सुवस्त्राणि ब्राह्मणानां महात्मनाम् ॥

नीलीमध्ये विमोहेन प्रक्षिप्तानि बहूनि च

॥६॥

वधबन्धादिकं कर्म ते करिष्यंत्यसंशयम् ॥

तस्मादन्यत्र गच्छामो गृहीत्वा रजनीमिमाम्

॥७॥

एवं स निश्चयं कृत्वा सारमादाय मंदिरात् ॥

प्रस्थितो भार्यया सार्द्धं कांदिशीको द्विजोत्तमाः

॥८॥

तावत्तस्य सुता गत्वा स्वां सखीं दाशसंभवाम् ॥

उवाच क्षम्यतां भद्रे यन्मया कुकृतं कृतम्

॥९॥

अज्ञानाज्ज्ञानतो वापि प्रक्रीडंत्या त्वया सह ॥

प्रणयाद्बाल्यभावाच्च क्रोधाद्वाथ महेर्ष्यया

॥१०॥

अथ सा सहसा श्रुत्वा बाष्पपर्याकुलेक्षणा ॥

उवाच किमिदं भद्रे यन्मामित्थं प्रभाषसे

॥११॥

सख्युवाच

मम तातेन नीलायां प्रक्षिप्तान्यंबराणि च ॥

ब्राह्मणानां महार्हाणि विभ्रमेण सुलोचने

॥१२॥

तत्प्रभाते परिज्ञाय दंडं धास्यंति दारुणम् ॥

एवं चित्ते समास्थाय तातः संप्रस्थितोऽधुना

॥१३॥

अहं तवातिकं प्राप्ता दर्शनार्थमनिन्दिते ॥

अनुज्ञाता प्रयास्यामि त्वया तस्मात्प्रमुच्यताम्

॥१४॥

अथ सा तद्वचः श्रुत्वा प्रसन्नवदनाऽब्रवीत् ॥

यद्येवं मा सरोजाक्षि कुत्रचित्संप्रयास्यसि

॥१५॥

निवारय द्रुतं गत्वा तातं नो गम्यतामिति ॥

अस्ति पूर्वोत्तरे भागे स्थानादस्माज्जलाशयः

॥१६॥

तत्रैकदा विनिक्षिप्तं मम तातेन जालकम् ॥

अतीवकृष्णकेशोत्थं तावच्छुक्लत्वमागतम्

॥७॥

ततः स विस्मयाविष्टः स्वयं सस्नौ कुतूहलात् ।

यावच्छुक्लत्वमापन्नस्तादृक्कृष्णवपुर्धरः

॥१९॥

सुश्वेतमूर्धजः सद्यः स्त्रीणां वैराग्यकारकः ॥

ततःप्रभृति नो ज्ञात्वा कश्चित्तत्र प्रगच्छति

॥१९॥

तस्मात्तत्रैव वस्त्राणि प्रक्षालयतु सत्वरम् ॥

तातः स तव यास्यंति विशुद्धिं परमां शुभे

॥२०॥

अथ सा सत्वरं गत्वा निजतातस्य तद्वचः ॥

सत्वरं कथयामास प्रहृष्टवदना सती ॥

२१ मम सख्या समादिष्टं नातिदूरे जलाशयः ॥

तत्र श्वेतत्वमायाति सर्वं क्षिप्तं सितेतरम्

॥२२॥

तस्मात्प्रक्षालय प्रातस्तत्र गत्वा जलाशये ॥

वस्त्राण्यमूनि शुक्लत्वं संप्रयास्यंत्यसंशयम्

॥२३॥

रजक उवाच

नैतत्संपत्स्यते पुत्रि यन्नीलस्य परिक्षयः ॥

वस्त्रलग्नस्य जायेत यतः प्रोक्तं पुरातनैः

॥२४॥

वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च ॥

एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा

॥२५॥

कन्योवाच

तत्र ह्यागम्यतां तावद्वस्त्रणयादाय यत्नतः ॥

तोयाच्छुद्धिं प्रयास्यंति तदाऽऽगंतव्यमेव हि

॥२६॥

भूयोऽपि मंदिरे वाऽथ तस्मात्स्थानाद्दिगंतरम् ॥

गंतव्यं सकलैरेव ममैतद्धृदि संस्थितम्

॥२७॥

तस्यास्तद्वचनं श्रुत्वा साधुसाध्विति तेऽसकृत् ॥

प्रोच्य बांधवभृत्याश्च रात्रावेव प्रजग्मिरे

॥२८॥

दाशकन्यां पुरः कृत्वा संशयं परमं गताः ॥

विभवेन समायुक्ता निजेन द्विजसत्तमाः

॥२९॥

ततः सा दर्शयामास दाशकन्या जलाशयम् ॥

बहुवीरुधसंछन्नं दुष्प्रवेशं च देहिनाम्

॥३०॥

ततः स रजकस्तत्र वस्त्राण्यादाय सर्वशः ॥

प्रविष्टः सलिले तस्मिन्क्षालयामास वै द्विजाः

॥३१॥

अथ तानि सुवस्त्राणि मेचकाभानि तत्क्षणात् ॥

जातानि स्फटिकाभानि तत्क्षणादेव कृत्स्नशः

॥३२॥

ततस्तुष्टिसमायुक्तः साधुसाध्विति चाऽब्रवीत् ॥

समालिंग्य सुतां प्राह दाशकन्यां च सादरम्

॥३३॥

सुवस्त्राणि द्विजेंद्राणामर्पयामो यथाक्रमम्

॥३४॥

ततः स स्वगृहं गत्वा तानि वस्त्राणि कृत्स्नशः ॥

यथाक्रमेण संहृष्टः प्रददौ द्विजसत्तमाः

॥३५॥

अथ ते ब्राह्मणा दृष्ट्वा तां शुद्धिं वस्त्रसंभवाम् ॥

तं च श्वेतीकृतं चेदृग्रजकं विस्मयान्विताः

॥३६॥

पप्रच्छुः किमिदं चित्रं वस्त्रमूर्धजसंभवम् ॥

अनौपम्यं च संजातं वदस्व यदि मन्यसे

॥३७॥

रजक उवाच

एतानि विप्रा वस्त्राणि मया क्षिप्तानि मोहतः ॥

नीलीमध्ये सुवस्त्राणि विनष्टानि च कृत्स्नशः

॥३८॥

ततो भयं महद्भूतं कुटुम्बेन समन्वितः ॥

चलितो रजनीवक्त्रे दिगंते ब्राह्मणोत्तमाः

॥३९॥

अथैषा तनयाऽस्माकं गता निजसखीं प्रति ॥

दाशात्मजां सुदुःखार्ता पुनर्दर्शनलालसा

॥४०॥

तया सर्वमभिप्रायं ज्ञात्वा मे दुःखहेतुकम् ॥

ततः संदर्शयामास स्थिताग्रे स्वजलाशयम्

॥४१॥

तस्मिन्प्रक्षिप्तमात्राणि वस्त्राणीमानि तत्क्षणात् ॥

ईदृग्वर्णानि जातानि विस्मयस्य हि कारणम्

॥४२॥

तथा मे मूर्धजाः कृष्णास्तत्र स्नातस्य तत्क्षणात् ॥

परं शुक्लत्वमापन्ना एतत्प्रोक्तं मया स्फुटम्

॥४३॥

एवं ते ब्राह्मणाः श्रुत्वा कौतूहलसमन्विताः ॥

तत्र जग्मुः परीक्षार्थं विक्षिप्य तदनंतरम्

॥४४॥

कृष्णद्रव्याणि भूरीणि केशादीनि सहस्रशः ॥

सर्वं तच्छुक्लतां याति त्यक्त्वा वर्णं मलीमसम्

॥४५॥

ततो वृद्धतया ये च विशेषाच्छ्वेतमूर्धजाः ॥

ते सस्नुः श्रद्धया युक्तास्तरुणाश्चापि धर्मिणः

॥४६॥

ततः शुक्लत्वमापन्नास्तेजोवीर्यसमन्विताः ॥

भवंति तत्प्रभावेन प्रयांति च परां गतिम्

॥४७॥

अथ तद्वासवो दृष्ट्वा शुक्लतीर्थं प्रमुक्तिदम् ॥

पूरयामास रजसा मानुषोत्थभयेन च

॥४८॥

अद्यापि तत्र यत्किंचिज्जायतेऽथ तृणादिकम् ॥

तत्सर्वं शुक्लतामेति तत्तोयस्य प्रभावतः

॥४९॥

तत्रोत्थैर्यः कुशैः श्राद्धं कुरुते श्रद्धयान्वितः ।

३ श्वैतैस्तैस्तारयेत्सर्वान्पितॄन्नरकगानपि

॥५०॥

तत्तीर्थोत्थां मृदं गात्रे योजयित्वा नरोत्तमः ॥

स्नानं करोति तीर्थानां सर्वेषां लभते फलम्

॥५१॥

यस्तैर्दर्भैर्नरो भक्त्या तिलैश्चारण्यसंभवैः ॥

करोति तर्पणं विप्राः स प्रीणाति पितामहान्

॥५२॥

अथाश्वमेधात्संप्राप्यं गयाश्राद्धेन यत्फलम् ॥

नीलसंज्ञगवोत्सर्गे तथात्रापि द्विजोत्तमाः

॥५३॥

ऋषय ऊचुः

शुक्लतीर्थं कथं जातं तत्र त्वं सूतनंदन ॥

विस्तरेण समाचक्ष्व परं कौतूहलं हि नः

॥५४॥

सूत उवाच

श्वेतद्वीपः समानीतो विष्णुना प्रभविष्णुना ॥

तत्क्षेत्रे कलिभीतेन यथा शौक्ल्यं न संत्यजेत्

॥५५॥

कलिकालेन संस्पृष्टः श्वेतद्वीपोऽपि श्यामताम् ॥

न प्रयाति द्विजश्रेष्ठास्ततस्तत्र निवेशितः

॥५६॥

इतिश्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तर शततमोध्यायः ॥ १२३ ॥