मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३८

3
नागरखण्डः · 138

किं कृतं धर्मराजेन तपोध्यानादिकं च यत्

ऋषय ऊचुः

किं कृतं धर्मराजेन तपोध्यानादिकं च यत् ॥

मांडव्यशापनाशाय तदस्माकं प्रकीर्तय

॥१॥

सूत उवाच

मांडव्य शापमासाद्य धर्मराजः सुदुःखितः ॥

तपस्तेपे द्विजश्रेष्ठास्तस्मिन्क्षेत्रे व्यवस्थितः

॥२॥

प्रासादं देवदेवस्य संविधाय कपर्दिनः ॥

अव्यग्रं पूजयामास पुष्पधूपानुलेपनैः

॥३॥

ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥

प्रोवाच वरदोऽस्मीति प्रार्थयस्व यदीप्सितम्

॥४॥

धर्मराज उवाच

अहं देव पुरा शप्तो मांडव्येन महात्मना ॥

स्वधर्मे वर्तमानोऽपि सर्वदोषविवर्जितः

॥५॥

कुपितेन च तेनोक्तं शूद्रयोनौ भविष्यसि

॥६॥

तत्रापि च महद्दुःखं ज्ञातिनाशसमुद्रवम् ॥

मच्छापजनितं सद्यो जातिजं समवाप्स्यसि

॥७॥

तस्मात्त्राहि सुरश्रेष्ठ तस्या योनेः सकाशतः ॥

कथं चैतद्विधो भूत्वा तस्यां जन्म करोम्यहम्

॥८॥

तत्रापि च महदुःखं ज्ञातिनाशसमुद्भवम् ॥

एतदर्थे सुरश्रेष्ठ मया चाराधितो भवान्

॥९॥

श्रीभगवानुवाच

न तस्य सन्मुनेर्वाक्यं शक्यते कर्तुमन्यथा ॥

तस्माच्छूद्रोऽपि भूत्वा त्वं न संतानमवाप्स्यसि

॥१०॥

ज्ञातिक्षयं प्रदृष्ट्वापि नैव दुःखमवाप्स्यसि ॥

यतो निषिध्यमानापि न करिष्यंति ते वचः

॥११॥

एतस्मात्कारणाच्चित्ते न ते दुःखं भविष्यति ॥

ज्ञातिजं धर्मराजैतत्सत्यमेव मयोदितम्

॥१२॥

स्थित्वा वर्षशतं प्राज्ञ त्वं शूद्रो धर्मवत्सलः ॥

उपदेशान्बहून्दत्त्वा ज्ञातिभ्यो हितकाम्यया ॥

अपि श्रद्धा विहीनेषु पापात्मसु सदैव हि

॥१३॥

ततो वर्षशते पूर्णे ब्रह्मद्वारेण केवलम् ॥

आत्मानं सम्यगुत्सृज्य मोक्षमेव प्रयास्यसि

॥१४॥

एवमुक्त्वा स भगवान्गतश्चादर्शनं ततः ॥

धर्मराजोऽपि तं शापं भेजे मांडव्यसंभवम्

॥१५॥

तदा विदुररूपेण ह्यवतीर्य धरातले ॥

मांडव्यस्य वचः सत्यं स चकार महामतिः

॥१६॥

जातो भगवता साक्षाद्व्यासेनामिततेजसा ॥

पाराशर्येण विप्रेण दासीगर्भसमुद्भवः

॥१७॥

एतद्वः सर्वमाख्यातं धर्मराजसमुद्भवम् ॥

आख्यानं यदहं पृष्टः सर्वपातकनाशनम्

॥१८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरोत्पत्तिवर्णनंनामाष्टात्रिंशदुत्तरशततमोअध्यायः ॥ १३८ ॥