मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३९

3
नागरखण्डः · 239

उपचारैः षोडशभिः पूजनं क्रियते कथम्

नारद उवाच

उपचारैः षोडशभिः पूजनं क्रियते कथम् ॥

ते के षोडश भावाः स्युर्नित्यं ये शयने हरेः

॥१॥

एतद्विस्तरतो ब्रूहि पृच्छतो मे प्रजापते ॥

तव प्रसादमासाद्य जगत्पूज्यो भवाम्यहम्

॥२॥

ब्रह्मोवाच

विष्णुभक्तिर्दृढा कार्या वेदशास्त्रविधानतः ॥

वेदमूलमिदं सर्वं वेदो विष्णुः सनातनः

॥३॥

ते वेदा ब्राह्मणाधारा ब्राह्मणाश्चाग्निदैवताः ॥

अग्नौ प्रास्ताहुतिर्विप्रो यज्ञे देवं यजन्सदा

॥४॥

जगत्संधारयेत्सर्वं विष्णुपूजारतः सदा ॥

नारायणः स्मृतो ध्यातः क्लेशदुःखादिनाशनः

॥५॥

चातुर्मास्ये विशेषेण जलरूपगतो हरिः ॥

जलादन्नानि जायंते जगतां तृप्तिहेतवे

॥६॥

विष्णुदेहांशसंभूतं तदन्नं ब्रह्म इष्यते ॥

तदन्नं विष्णवे दत्त्वा ह्यावाहनपुरःसरम्

॥७॥

पुनर्जन्मजराक्लेशसंस्कारैर्नाभिभूयते ॥

आकाशसंभवो वेद एक एव पुराऽभवत्

॥८॥

ततो यजुःसामसंज्ञामृग्वेदः प्राप भूतये ॥

ऋग्वेदोऽभिहितः पूर्वं यजुःसहस्रशीर्षेति च

॥९॥

षोडशर्चं महासूक्तं नारायणमयं परम् ॥

तस्यापि पाठमात्रेण ब्रह्महत्या निव र्तते

॥१०॥

विप्रः पूर्वं न्यसेद्देहे स्मृत्युक्तेन निजे बुधः ॥

ततस्तु प्रतिमायां च शालग्रामे विशेषतः

॥११॥

क्रमेण च ततः कुर्यात्पश्चादावाहनादिकम् ॥

आवाह्य सकलं रूपं वैकुण्ठस्थानसंस्थितम्

॥१२॥

कौस्तुभेन विराजंतं सूर्यकोटिसमप्रभम्।

. दंडहस्तं शिखासूत्रसहितं पीतवाससम्

॥१३॥

महासंन्यासिनं ध्यायेच्चातुर्मास्ये विशेषतः ॥

एवं रूपमयं विष्णुं सर्वपापौघहारिणम्

॥१४॥

आवाहयेच्च पुरतो ध्यानसंस्थं द्विजोत्तम ॥

ऋचा प्रथमया चास्योंकारादिसमुदीर्णया

॥१५॥

द्वितीयया चासनं च पार्षदैश्च समन्वितम् ॥

सौवर्णान्यासनान्येषां मनसा परिचिन्तयेत्

॥१६॥

चिन्तनैर्भक्तियोगेन परिपूर्णं च तद्भवेत् ॥

पाद्यं तृतीयया कार्यं गंगां तत्र स्मरेद्बुधः

॥१७॥

अर्घ्यः कार्यस्ततो विष्णोः सरिद्भिः सप्तसागरैः ॥

पुनराचमनं कार्यममृतेन जगत्पतेः

॥१८॥

त्रिभिराचमनैः शुद्धिर्ब्राह्मणस्य निगद्यते ॥

अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः

॥१९॥

हृत्कण्ठ तालुगाभिश्च यथावर्णं द्विजातयः ॥

शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरंततः

॥२०॥

पञ्चम्याऽऽचमनं कार्यं भक्तियुक्तेन चेतसा ॥

भक्तिग्राह्यो हृषीकेशो भक्त्याऽऽत्मानं प्रयच्छति

॥२१॥

ततः सुवासितैस्तोयैः सर्वोषधिसमन्वितैः ॥

शेषोदकैः स्वर्णघटैः स्नानं देवस्य कारयेत्

॥२२॥

तीर्थोदकैः श्रद्धया च मनसा समुपाहृतैः ॥

अश्रद्धया रत्नराशिः प्रदत्तो निष्फलो भवेत्

॥२३॥

वार्यपि श्रद्धया दत्तमनंतत्वाय कल्पते ॥

चातुर्मास्ये विशेषेण श्रद्धया पूयते नरः

॥२४॥

षष्ठ्या स्नानं ततः कार्यं पुनराचमनं भवेत् ॥

दद्याच्च वाससी स्वर्णसहिते भक्तिशक्तितः

॥२५॥

आच्छादितं जगत्सर्वं वस्त्रेणाच्छादितो हरिः ॥

चातुर्मास्ये विशेषेण वस्त्रदानं महाफलम्

॥२६॥

पुनराचमनं देयं यतये विष्णुरूपिणे ॥

वस्त्रदानं च सप्तम्या कार्यं विष्णोर्मुनीश्वर

॥२७॥

यज्ञोपवीतमष्टम्या तच्चाध्यात्मतया शृणु ॥

सूर्यकोटिसमस्पर्शं तेजसा भास्वरं तथा

॥२८॥

क्रोधाभिभूते विप्रे तु तडित्कोटिसभप्रभम् ॥

सूर्येन्दुवह्निसंयोगाद्गुणत्रयसमन्वितम्

॥२९॥

त्रयीमयं ब्रह्मविष्णुरुद्ररूपं त्रिविष्टपम् ॥

यस्य प्रभावाद्विप्रेंद्र मानवो द्विज उच्यते

॥३०॥

जन्मना जायते शूद्रः संस्काराद्द्विज उच्यते ॥

शापानुग्रहसामर्थ्यं तथा क्रोधः प्रसन्नता

॥३१॥

त्रैलोक्यप्रवरत्वं च ब्राह्मणादेव जायते ॥

न ब्राह्मणसमो बन्धुर्न ब्राह्मणसमा गतिः

॥३२॥

न ब्राह्मणसमः कश्चित्त्रैलोक्ये सचराचरे ॥

दत्तोपवीते ब्रह्मण्ये सुप्ते देवे जनार्दने

॥३३॥

सर्वजगद्ब्रह्ममयं संजातं नात्र संशयः ॥

नवम्या च सुलेपश्च कर्तव्यो यज्ञमूर्तये

॥३४॥

सुयक्षकर्दमैर्लिप्तो विष्णुर्येन जगद्गुरुः ॥

तेना प्यायितमेतद्धि वासितं यशसा जगत्

॥३५॥

तेजसा भास्करो लोके देवत्वं प्राप्य मानवः ॥

ब्रह्मलोकादिके लोके मोदते चंदनप्रदः

॥३६॥

चंदनालेपसुभगं विष्णुं पश्यंति मानवाः ॥

न ते यमपुरं यांति चातुर्मास्ये विशेषतः

॥३७॥

दशम्या पुष्पपूजा च भक्तिपूजा तथैव च ॥

पुष्पे चैव सदा लक्ष्मीर्वसत्येव निरंतरम् ॥

लक्ष्म्याः सर्वत्र गामिन्या दोषो नैव प्रजायते ॥

यथा सर्वमयो विष्णुर्न दोषैरनुभूयते

॥३९॥

तथा सर्वमयी लक्ष्मीः सतीत्वान्नैव हीयते ॥

प्रतिमासु च सर्वासु सर्वभूतेषु नित्यदा

॥४०॥

मनुष्यदेवपितृषु पुष्पपूजा विधीयते ॥

पुष्पैः संपूजितो येन हरिरेकः श्रिया सह

॥४१॥

आब्रह्मस्तंबपर्यंतं पूजितं तेन वै जगत् ॥

अतः सुश्वेतकुसुमैर्विष्णुं संपूजयेत्सदा

॥४२॥

चातुर्मास्ये विशेषेण भक्तियुक्तः सदा शुचिः ॥

भक्त्या सुविहिता ब्रह्मन्पुष्पपूजा नरैर्यदि

॥४३॥

यंयं काममभिध्यायेत्तस्य सिद्धिर्निरंतरा ॥

पुष्पैरुपचितं विष्णुं यद्यन्ये प्रणमंति च

॥४४॥

तेषामप्यक्षया लोकाश्चातुर्मास्येऽधिकं फलम् ॥

एकादश्या धूपदानं कर्तव्यं यतये हरौ

॥४५॥

वनस्पति रसो दिव्यो गंधाढ्यो गन्ध उत्तमः ॥

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्

॥४६॥

इमं मंत्रं समुच्चार्य धूपमागुरुजं शुभम् ॥

दद्याद्भगवते नित्यं चातुर्मास्ये महाफलम्

॥४७॥

कर्पूरचन्दनदलैः सितामधुसमन्वितम् ॥

मांसीजटाभिः सहितं सुप्ते देवेऽथ सत्तम

॥४८॥

देवा घ्राणेन तुष्यंति धूपं घ्राणहरं शुभम् ॥

द्वादश्या दीपदानं तु कर्तव्यं मुक्तिमिच्छुभिः

॥४९॥

दीपः सर्वेषु कार्येषु प्रथमस्तेजसां पतिः ॥

दीपस्तमौघनाशाय दीपः कांतिं प्रयच्छति

॥५०॥

तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः ॥

अयं पौराणजो मंत्रो वेदर्चेन समन्वितः ॥

दीपप्रदाने सकलः प्रयुक्तो नाशयेदघम्

॥५१॥

चातुर्मास्ये दीपदानं कुरुते यो हरेः पुरः ॥

तस्य पापमयो राशिर्निमेषादपि दह्यते

॥५२॥

तावत्पापानि गर्जंति तावद्बिभेति पातकी ॥

यावन्न विहितो भास्वान्दीपो नारायणालये

॥५३॥

दर्शनादपि दीपस्य सर्वसिद्धिर्नृणां भवेत्

॥५४॥

कामनां यां समुद्दिश्य दीपं कारयते हरौ ॥

सासा सिद्ध्यति निर्विघ्ना सुप्तेऽनंते गुणोत्तरम्

॥५५॥

पंचायतनसंस्थेषु तथा देवेषु पंचसु ॥

विहितं दीपदानं च चातुर्मास्ये महाफलम्

॥५६॥

एको विष्णुस्तुष्यते मुक्तिदाता नित्यं ध्यातः पूजितः संस्तुतश्च ॥

यच्चाभीष्टं यच्च गेहे शुभं वा तत्तद्देयं मुक्तिहेतोर्नृवर्यैः

॥५७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारषोडशोपचारदीपमहिमवर्णनंनामैकोनचत्वारिंशदुत्तर द्विशततमोऽध्यायः ॥ २३९ ॥