मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९७

3
नागरखण्डः · 97

दशरथकृततपःसमुद्योगवर्णनम्

सूत उवाच

ततः प्रभृति नो मन्दो रोहिणीशकटं द्विजाः ॥

भिनत्ति वचनात्तस्य राज्ञो दशरथस्य च

॥१॥

तद्वृत्तांतं समाकर्ण्य तस्य शक्रः प्रहर्षितः ॥

भूपालं तं समभ्येत्य ततश्चोवाच सादरम्

॥२॥

अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥

संसाधितं यदन्येन मनसापि न चिन्त्यते

॥३॥

अत एव हि संतुष्टिः सञ्जाताद्य तवोपरि ॥

वरं मत्तो गृहाणाद्य तदभीष्टं हृदि स्थितम्

॥४॥

राजोवाच

त्वया सह सुरश्रेष्ठ मैत्री संप्रार्थयाम्यहम् ॥

शाश्वती सर्वकृत्येषु परमां लोकसंस्थिताम्

॥५॥

इन्द्र उवाच

एवं भवतु राजेंद्र त्वया सह सदा मम ॥

संपत्स्यते सदा मैत्री वसोरिव च शाश्वती

॥६॥

त्वया सदैव मे पार्श्वे सभायां देवसंनिधौ ॥

आगन्तव्यं विशेषेण येन मैत्री प्रवर्धते

॥७॥

एवमुक्त्वा सहस्राक्षो जगाम त्रिदिवालयम् ॥

राजापि चागतो हर्म्ये स्वकीये हर्षसंयुतः

॥८॥

रक्षयित्वा जगत्सर्वं शनैश्चर कृताद्भयात् ॥

अप्राप्यां प्राप्य संकीर्तिं स्तूयमानस्तु बन्दिभिः

॥९॥

ततः प्रभृति नित्यं स सन्ध्याकाल उपस्थिते ॥

सायाह्नं संविधायाथ याति शक्रस्य मंदिरे

॥१०॥

तत्र स्थित्वा चिरं श्रुत्वा गंधर्वाणां मनोहरम् ॥

गीतं दृष्ट्वा च नृत्यं च तानादिविहितं शुभम्

॥११॥

विचित्रार्थाः कथाः श्रुत्वा देवर्षीणां मुखाच्च्युताः ॥

स्वयं च कीर्तयित्वाथ प्रयाति निजमंदिरम्

॥१२॥

विमानवरमारुह्य हंसबर्हिणनादितम् ॥

मनोहरपताकाभिः समंताच्च विभूषितम्

॥१३॥

यदायदा स निर्याति शक्रस्थानान्निजालयम् ॥

तदातदाऽऽसने तस्य क्रियतेऽभ्युक्षणं सदा

॥१४॥

शक्रादेशात्तदा वेत्ति न स भूपः कथंचन ॥

अन्यस्मिन्दिवसे तस्य नारदो मुनिसत्तमः ॥

कथयामास तत्सर्वमभ्युक्षणसमुद्भवम्

॥१५॥

वृत्तांतं तस्य राजर्षेस्तस्यैव गृहमागतः ॥

तीर्थयात्रा प्रसंगेन विद्वेषपरिवृद्धये

॥१६॥

तच्छ्रुत्वा नारदेनोक्तं श्रद्धेयमपि भूपतिः ॥

न चक्रे हृदयेऽधर्ममात्मानं परिचिंतयन्

॥१७॥

तथापि कौतुकाविष्टो गत्वा शक्रनिवेशनम् ॥

अन्यस्मिन्दिवसे स्थित्वा चिरं तत्र समुत्थितः

॥१८॥

अलक्ष्यं वीक्षयामास स्वासनं दूरमास्थितः ॥

किंचित्सद्मांतरं प्राप्य कौतूहलसमन्वितः

॥१९॥

ततः शक्रसमादेशादुत्थाय सुरकिंकरः ॥

प्रोक्षयामास तोयेन पार्थिवस्य तदासनम्

॥२०॥

तद्दृष्ट्वा कोपसंपन्नः स राजाऽभ्येत्य वासवम् ॥

प्रोवाच किमिदं शक्र प्रोक्ष्यते यन्ममासनम्

॥२१॥

किं मया निहता विप्राः किं वा विप्रसमुद्भवम् ॥

शासनं लोपितं किंचित्किं वा विप्रा विनिंदिताः

॥२२॥

किं वा नष्टोऽस्मि संग्रामे दृष्ट्वा शत्रून्समागतान् ॥

दैन्यं वा जल्पितं तेषां भयत्रस्तेन चेतसा

॥२३॥

मम राज्येऽथवा शक्र दुर्बलो बलवत्तरैः ॥

पीड़्यते वाथ चौराद्यैर्मुष्यते वंचकैस्तथा

॥२४॥

किं वा राज्ये मदीये च जायते योनिविप्लवः ॥

संकरो वाथ वर्णानां परित्यक्तविधिक्रमः

॥२५॥

किं वा दुर्जनवाक्येन दूषितो दोषवर्जितः ॥

दंड्यते मम राज्ये च केनचित्त्रिदशेश्वर

॥२६॥

किं वा चौरोऽथ पापो वा गृहीतो दोषवान्स्वयम् ॥

मुच्यते द्रव्यलोभेन तथान्यो वा जुगुप्सितः

॥२७॥

किंस्विन्मया परित्यक्तः कोऽप्यत्र शरणागतः ॥

भयत्रस्तः सुभीतेन प्राणानां त्रिदशाधिप

॥२८॥

कस्य वा पृष्ठमांसानि भक्षितानि मया क्वचित् ॥

कच्चिच्च त्रिदशाधीष ब्राह्मणस्य विशेषतः

॥२९॥

किं वा दानं मया दत्त्वा ब्राह्मणाय महात्मने ॥

पश्चात्तापः कृतः पश्चाद्दत्तं चोपेक्षितं च वा

॥३०॥

किं वा राज्ये मदीये च दीनानां प्रपतंति च ॥

अश्रुपाता दिवारात्रं दुःखितानां समंततः

॥३१॥

दैवं वा पैतृकं वापि किं वा कर्म गृहे मम ॥

लोपं गच्छति देवेन्द्र क्रियते वा विधिच्युतम्

॥३२॥

यत्त्वया क्रियते नित्यं तोयैरभ्युक्षणं मम ॥

आसनस्य द्रुतं ब्रूया यत्पापं विहितं मया

॥३३॥

इन्द्र उवाच

न विद्यते महाराज शरीरे तव पातकम् ॥

न राष्ट्रे च कुले गेहे भृत्यवर्गे विशेषतः

॥३४॥

परं शृणु प्रवक्ष्यामि यत्ते पापं भविष्यति ॥

तेन संप्रोक्ष्यते चैव आसनं सर्वदैव तु

॥३५॥

अपुत्रस्य गतिर्नास्ति न च स्वर्गं प्रपद्यते ॥

पैतृकेण नरो ग्रस्तो य ऋणेन सदा नृप

॥३६॥

द्वेष्यतां याति देवानां पितॄणां च विशेषतः ॥

यदा पश्यति पुत्रस्य वदनं पुरुषो नृप

॥३७॥

आनृण्यं समवाप्नोति पितॄणां स तदा ध्रुवम् ॥

स त्वं नैव गतो राजन्नानृण्यं यन्मयोदितम्

॥३८॥

पितॄणां तेन ते नित्यमासनेऽभ्युक्षणं कृतम् ॥

तस्माद्यतस्व पुत्रार्थं यदीच्छसि परां गतिम्

॥३९॥

आत्मानं नरकात्त्रातुं पुंसंज्ञाच्च तथा नृप ॥

एवमुक्तः स शक्रेण राजा दशरथस्तदा

॥४०॥

दुःखेन महता युक्तो लज्जयाऽधोमुखः स्थितः ॥

आमंत्र्याथ सहस्राक्षं गत्वाऽयोध्यां निजां पुरीम् ॥

अमात्यानां निजं राज्यमर्पयामास सत्वरः

॥४१॥

ततः प्रोवाच तान्सर्वांस्तपः कार्यं मयाऽधुना ॥

यावत्पुत्रस्य संप्राप्तिस्तावदेव न संशयः

॥४२॥

एतद्राज्यं प्रयत्नेन रक्षणीयं यथाविधि ॥

युष्माभिर्मम वाक्येन यावदागमनं मम

॥४३॥

मंत्रिण ऊचुः

युक्तमेतन्महाराज पुत्रार्थं यत्समुद्यमः ॥

क्रियते पुत्रहीनस्य किं राज्येन धनेन वा

॥४४॥

वयं रक्षां करिष्यामस्तव राज्ये समंततः ॥

निर्वृतिं त्वं समास्थाय कुरु पुत्रकृते तपः

॥४५॥

कार्तिकेयपुरं गत्वा यत्र पित्रा पुरा तव ॥

तपस्तप्तं यथा लब्धा सिद्धिश्च मनसेप्सिता

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये दशरथकृततपःसमुद्योगवर्णनंनाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥