मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४५

3
नागरखण्डः · 45

त्रिपुष्करमाहात्म्यवर्णनम्

सूत उवाच

तत्रैवास्ति द्विजश्रेष्ठाः सुपुण्यं पुष्करत्रयम् ॥

यत्र पूर्वं तपस्तप्तमानर्ताधिपभूभुजा

॥१॥

यस्तत्र कार्तिके मासि कृत्तिकास्थे निशाकरे ॥

मध्याह्ने कुरुते स्नानं स गच्छति परां गतिम्

॥२॥

ऋषय ऊचुः

कथं तत्र समायातं सुपुण्यं पुष्करत्रयम् ॥

कस्मिन्स्थाने च विज्ञेयं कैश्चिह्नैर्वद सूतज

॥३॥

सूत उवाच

अहं वः कीर्तयिष्यामि यैश्चिह्नैः पुष्करत्रयम् ॥

प्राग्दृष्टं मुनिना तत्र विश्वामित्रेण धीमता

॥४॥

पुरा निवसतस्तस्य विश्वामित्रस्य सन्मुनेः ॥

संप्राप्ता कार्तिकी पुण्या कृत्तिकायोगसंयुता

॥५॥

सर्वतीर्थमयं क्षेत्रं तद्विज्ञाय तपोनिधिः ॥

ततश्च चिन्तयामास स्वचित्ते गाधिनन्दनः

॥६॥

अद्येयं कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥

यस्यां स्नाने नरैः श्रेयः प्राप्यते पुष्करोदके ॥

आद्यं तु पुष्करं दूरे न गन्तुं शक्यतेऽधुना

॥७॥

तस्मादत्र स्थितं यच्च तस्मिन्स्नानं करोम्यहम् ॥

स एवं निश्चयं कृत्वा श्रद्धापूतेन चेतसा

॥८॥

ततश्चान्वेषयामास पुष्कराणि समंततः ॥

बहुत्वात्तत्र तीर्थानां निश्चयं नान्वपद्यत

॥९॥

दृष्ट्वादृष्ट्वा जलस्थानं स्नानं चक्रे ततः परम् ॥

स तदा श्रममापन्नो भ्रममाण इतस्ततः

॥१०॥

वृक्षमूलं समाश्रित्य निविष्टश्च क्षितौ ततः ॥

तुष्टावाथ शुचिर्भूत्वा श्रद्धया च त्रिपुष्करम् ॥

मध्यमाद्योजनं स्वर्गः कनिष्ठादर्ध योजनम् ॥

ज्येष्ठकुण्डात्पुनः ख्यातो हस्तप्रायः शुभात्मभिः

॥१२॥

पावयंति हि तीर्थानि स्नानदानादसंशयम् ॥

पुष्करालोकनादेव नरः पापात्प्रमु च्यते

॥१३॥

पुष्करारण्यमाश्रित्य शाकमूलफलैरपि ॥

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता

॥१४॥

पुष्करे दुष्करं स्नानं पुष्करे दुष्करं तपः ॥

पुष्करे दुष्करो वासः सर्वं पुष्करदुष्करम्

॥१५॥

कार्तिक्यां कृत्तिकायोगे पुष्करे स्नाति यो नरः ॥

स क्षणान्मुच्यते पापादाजन्ममरणोद्भवात्

॥१६॥

ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नाति यो नरः ॥

कनिष्ठेऽस्तमिते भानौ सकृत्स्वर्गमवाप्नुयात्

॥१७॥

तावत्तिष्ठति देहेषु पातकं सर्वदेहिनाम् ॥

यावन्न पौष्करैस्तोयैः स्नानं वै कुर्वते नराः

॥१८॥

दिवाकरकरैः स्पृष्टं तमो यद्वत्प्रणश्यति ॥

पुष्करोदकसंस्पर्शाच्छीघ्रं गच्छति पातकम्

॥१९॥

ब्रह्महत्यादिकं पापं कृत्वापि पुरुषो भुवि ॥

कार्तिक्यां पुष्करे स्नात्वा निर्दोषत्वं प्रपद्यते

॥२०॥

किं दानैः किं व्रतैर्होमैः किं यज्ञैर्वहुविस्तरैः ॥

कार्तिक्यां पुष्करे स्नानैः सर्वेषां लभ्यते फलम्

॥२१॥

यद्येषा भारती सत्या मया सम्यमुदीरिता ॥

तन्मे स्याद्दर्शनं शीघ्रं सद्यः पुष्करसंभवम्

॥२२॥

एवं तस्य ब्रुवाणस्य विश्वामित्रस्य धीमतः ॥

अशरीराऽभवद्वाणी गगनाद्द्विजसत्तमाः

॥२३॥

विश्वामित्र मुनिश्रेष्ठ सदा मे गगने स्थितिः ॥

मुक्त्वैकां कार्तिकीं चैव कृत्तिकायोगसंयुताम्

॥२४॥

तदत्र दिवसे वासो मम भूमितले ध्रुवम् ॥

अस्मिन्नेव वने पुण्ये तत्त्वं स्नानं समाचर

॥२५॥

विश्वामित्र उवाच

सर्वेषामेव तीर्थानां श्रूयते च समाश्रयः ॥

तत्कथं वेद्मि तीर्थेश त्वामत्रैव व्यवस्थितम्

॥२६॥

तदोत्थिता पुनर्वाणी तारा गगनगोचरा ॥

विश्वामित्रं मुनिश्रेष्ठं हर्षयंती द्विजोत्तमाः

॥२७॥

नातिदूरे वनादस्मादत्र संति जलाशयाः ॥

तेषामेकतमे पद्मं विद्यतेऽधोमुखं स्थितम्

॥२८॥

ऊर्ध्ववक्त्रं द्वितीये च तिर्यग्वक्त्रं तृतीयके ॥

तत्रोर्ध्वास्यैः सरोजैश्च विज्ञेयं ज्येष्ठपुष्करम्

॥२९॥

पार्श्ववक्त्रैर्द्विजश्रेष्ठ मध्यमं परिकीर्तितम् ॥

अधोवक्त्रैस्तथा ज्ञेयं कनिष्ठं पुष्करं क्षितौ

॥३०॥

एतैश्चिह्नैर्मुनिश्रेष्ठ ज्ञात्वा स्नानं समाचर ॥

तच्छ्रुत्वा स मुनिस्तूर्णं समुत्थाय ययौ ततः

॥३१॥

तादृशैः कमलैस्तत्र संस्थितास्ते जलाशयाः ॥

तान्दृष्ट्वा श्रद्धयोपेतः कृत्वा स्नानं यथाक्रमम्

॥३२॥

ततश्च विधिना सम्यक्चकारपितृतर्पणम्

॥३३॥

ततः शाकैश्च मूलैश्च नीवारैः फलसंयुतैः ॥

चकार विधिना श्राद्धं तत्रैव द्विजसत्तमाः

॥३४॥

तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाहितः ॥

कार्तिक्यां कृत्तिकायोगे चिह्नदर्शनलालसः

॥३५॥

ब्राह्मणा ऊचुः

कीदृशं जायते चिह्नं कार्तिक्यां ज्येष्ठपुष्करे ॥

संप्राप्ते कृत्तिकायोगे सर्वं तत्र वदाशु नः

॥३६॥

सूत उवाच

कार्तिक्यां कृत्तिकायोगे यदा गच्छति चंद्रमाः ॥

तदा निष्क्रामति श्रेष्ठं कमलं जलमध्यतः

॥३७॥

तन्मध्येंऽगुष्ठमात्रस्तु पुरुषो दृश्यते जनैः ॥

सुस्नातैः श्रद्धयोपेतैस्ततस्तीर्थफलं लभेत्

॥३८॥

एतस्मात्कारणात्स्नात्वा विश्वामित्रो महामुनिः ॥

तच्चिह्नं वीक्षयामास महद्यत्नं समाश्रितः

॥३९॥

तस्यैवं वीक्षमाणस्य विश्वामित्रस्य धीमतः ॥

आनर्ताधिपतिस्तत्र प्राप्तो राजा बृहद्बलः

॥४०॥

अत्यंतं मृगयाश्रांतो हत्वा मृगगणान्बहून् ॥

ऋक्षांश्चैव वराहांश्च सारंगानथ संबरान्

॥४१॥

सिंहान्व्याघ्रान्वृकांश्चैव हिंसानारण्यचारिणः ॥

तथान्यानपि मध्याह्ने तेन मार्गेण संगतः

॥४२॥

अथापश्यद्द्रुमोपांते विश्वामित्रं मुनीश्वरम् ॥

उपविष्टं कृतस्नानं वीक्षमाणं जलाशयम्

॥४३॥

ततस्तं प्रणिपत्योच्चैरवतीर्य तुरंगमात् ॥

श्रमार्त्तः सलिले तस्मिन्प्रविवेश नृपोत्तमः

॥४४॥

एतस्मिन्नंतरे तोयात्कमलं तद्विनिर्गतम् ॥

सहस्रपत्रसंजुष्टं द्वादशार्कसमप्रभम्

॥४५॥

तद्दृष्ट्वा स महीपालः पद्ममत्यद्भुतं महत् ॥

जग्राह कौतुकाविष्टः स्वयं सव्येन पाणिना

॥४६॥

स्पृष्टमात्रे ततस्तस्मिन्कमले द्विजसत्तमाः ॥

उत्थितः सुमहाञ्छब्दो विश्वं येन प्रपूरितम्

॥४७॥

तं शब्दं स महीपालः श्रुत्वा मूर्छामुपाविशत् ॥

पतितश्च जले तस्मिन्पद्मं चादर्शनं गतम्

॥४८॥

ततः कृच्छ्रेण महता कर्षितः सलिलाद्बहिः ॥

सेवकैर्दुःखशोकार्त्तैर्हाहेति प्रतिजल्पकैः

॥४९॥

ततस्तीरं समासाद्य कृच्छ्रात्प्राप्याथ चेतनाम् ॥

यावद्वीक्षयति स्वांगं तावत्कुष्ठं समागतम्

॥५०॥

ततो विषादमापन्नो दृष्ट्वा तादृङ्निजं वपुः ॥

शीर्णघ्राणांघ्रिहस्तं च घर्घरस्वरसंयुतम्

॥५१॥

अथ गत्वा मुनेः पार्श्वे विश्वामित्रस्य भूमिपः ॥

उवाच वचनं दीनं बाष्पगद्गदया गिरा

॥५२॥

भगवन्पश्य मे जातं यादृशं वपुरेव हि ॥

अकस्मादेव मग्नस्य सलिलेऽत्र विगर्हितम्

॥५३॥

तत्किं पानीयदोषो वा किं वा भूमेर्मुनी श्वर ॥

येनेदृक्सहसा यातं विकृतिं मे शरीरकम्

॥५४॥

विश्वामित्र उवाच

सावित्रं पद्ममेवैतद्यत्स्पृष्टं भूपते त्वया ॥

उच्छिष्टेन रविर्मध्ये स्वयं यस्य व्यवस्थितः

॥५५॥

यदा स्यात्कृत्तिकायोगः कार्तिके मासि पार्थिव ॥

शशांकस्य तदा चैतज्जायते पौष्करे जले

॥५६॥

तदिदं पुष्करं ज्येष्ठं भवान्यत्र श्रमातुरः ॥

प्रविष्टः कार्तिकी चाद्य कृत्तिकायोगसंयुता

॥५७॥

एतद्वीक्ष्य नरो ह्यत्र स्नानं कुर्याज्जलाशये ॥

श्रद्धया परया युक्तः स गच्छति परां गतिम्

॥५८॥

उच्छिष्टेन त्वया राजन्हरणाय हि केवलम् ॥

एतत्सरोरुहं स्पृष्टं तेनेदृक्संस्थितं फलम्

॥५९॥

बृहद्बल उवाच

कथं मे स्यान्मुनिश्रेष्ठ कुष्ठव्याधिपरिक्षयः ॥

तपसा नियमेनापि व्रतेनापि कृतेन वै

॥६०॥

विश्वामित्र उवाच

आराधय सहस्रांशुमस्मिन्क्षेत्रे महीपते ॥

ततः प्राप्स्यसि संसिद्धिं कुष्ठनाशसमुद्भवाम्

॥६१॥

तच्छ्रुत्वा स मुनेर्वाक्यं भूमिपालो बृहद्बलः ॥

तत्क्षणात्स्थापयामास सूर्यस्य प्रतिमां तदा

॥६२॥

अर्चयामास विधिवत्पुष्पधूपानुलेपनैः ॥

श्रद्धया परया युक्तो रविवारे विशेषतः

॥६३॥

उपवासपरो भूत्वा रक्तचन्दनसंयुतैः ॥

पूजयन्रक्तपुष्पैश्च श्रद्धया परया युतः

॥६४॥

ततः संवत्सरस्यांते स बभूव महीपतिः ॥

कुष्ठ व्याधि विनिर्मुक्तो द्वादशार्कसमप्रभः

॥६५॥

ततः स्वं राज्यमासाद्य भुक्त्वा भोगाननेकशः ॥

देहांते दिननाथस्य संप्राप्तो मंदिरं तथा

॥६६॥

सूत उवाच

एवं तत्र द्विजश्रेष्ठा विश्वामित्रेण धीमता ॥

प्रकटं सर्वलोकस्य विहितं पुष्करत्रयम्

॥६७॥

यस्तत्र कार्तिके मासे कार्त्तिक्यां कृत्तिकासु च ॥

प्रकरोति नरः स्नानं ब्रह्मलोकं स गच्छति

॥६८॥

तथा यो भास्करं पश्येद्बृहद्वलप्रतिष्ठितम् ॥

वत्सरं रविवारेण यावत्कृत्वा क्षणं नरः ॥

स मुच्यते नरो रोगैर्यदि स्याद्रोगसंयुतः

॥६९॥

नीरोगो वा नरः सद्यो लभते मनसेप्सितम् ॥

निष्कामो मोक्षमाप्नोति प्रसादात्तीक्ष्णदीधितेः

॥७०॥

कार्त्तिक्यां कृत्तिकायोगे वृषोत्सर्गं करोति यः ॥

पुष्करेषु सुपुण्येषु सोऽश्वमेधफलं लभेत्

॥७१॥

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥

यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्

॥७२॥

एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥

एकतस्तु वृषोत्सर्गः कार्तिक्यां पुष्करेषु च

॥७३॥

यश्चैतच्छुणुयान्नित्यं पठेद्वा श्रद्धयान्वितः ॥

संप्राप्य सर्वकामान्वै ब्रह्मलोके महीयते

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये त्रिपुष्करमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥