मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १८९

3
नागरखण्डः · 189

सावित्र्या तास्तु गंधर्व्यः प्राप्ताः सा यत्र तिष्ठति

सूत उवाच

अथ यावच्च ताः शप्ता मातरो द्विजसत्तमाः ॥

सावित्र्या तास्तु गंधर्व्यः प्राप्ताः सा यत्र तिष्ठति

॥१॥

ततः प्रणम्य ता ऊचुः सर्वा दीनतरं वचः ॥

वयं समागता देवि सर्वास्तव मखे यतः

॥२॥

यज्ञभागं लभिष्याम औदुंबर्याः प्रसादतः ॥

न चास्माभिः परिज्ञाता सावित्री चात्र तिष्ठति

॥३॥

दौर्भाग्यदोषसंपन्ना नागरीभिः समावृता ॥

अस्माकं सुखमार्गोऽयं नृत्यगीतसमुद्भवः

॥४॥

तत्कुर्वाणास्ततो रात्रौ शप्ता गांधर्वसत्तमे ॥

स्त्रीणां दुःखेन दुःखार्ता जायंते सर्वयोषितः

॥५॥

यूयमानंदिताः सर्वाः सपत्न्या मम चोत्सवे ॥

तां प्रणम्य प्रपूज्याद्य नाहं संभाषितापि च

॥६॥

विशेषान्नृत्यगीतं च प्रारब्धं मम चाग्रतः ॥

तस्माद्व्योमगति र्नैव भवतीनां भविष्यति

॥७॥

अस्मिन्स्थाने सदा दीनास्तथाऽऽश्रयविवर्जिताः ॥

संतिष्ठध्वं न वः पूजां करिष्यंति च मानवाः

॥८॥

दीनानामसमर्थानां यात्राकृत्येषु सर्वदा ॥

तस्यास्तद्वचनं देवि नान्यथा संभविष्यति

॥९॥

औदुम्बर्याः पूजनाय गत्वा तस्यै निवेद्यताम् ॥

सा हि व्यपनयेद्दुःखं ध्रुवं सा हि प्रकामदा

॥१०॥

तेनाऽत्र सहसा प्राप्ता यावन्नष्टमनोरथाः

॥११॥

तस्मात्कुरुष्व कल्याणि यथास्माकं गतिर्भवेत् ॥

माहात्म्यं तव वर्द्धेत त्रैलोक्येऽपि चराचरे

॥१२॥

औदुम्बर्युवाच

का शक्तिर्विद्यतेऽस्माकं कृतं सावित्रिसंभवम् ॥

अन्यथा कर्तुमेवाद्य सर्वैरपि सुरासुरैः

॥१३॥

तथापि शक्तितो देव्यो यतिष्यामि हिताय वः ॥

अष्टषष्टिषु गोत्रेषु भवत्यः संनियोजिताः

॥१४॥

पितामहेन तुष्टेन तत्र पूजामवाप्स्यथ ॥

यूयं रात्रौ च संज्ञाभिर्हास्यपूर्वाभिरेव च

॥१५॥

अद्यप्रभृति यस्यात्र नागरस्य तु मंदिरे ॥

वृद्धिः संपत्स्यते काचिद्वि शेषान्मंडपोद्भवा

॥१६॥

तथा या योषितः काश्चित्पुरद्वारं समेत्य च ॥

अदृष्टहास्यमाध्याय क्षपिष्यंति बलिं ततः

॥१७॥

तेन वो भविता तृप्तिर्देवानां च यथा मखैः ॥

याः पुनर्न करिष्यंति पूजामेतां मयोदिताम्

॥१८॥

युष्माकं नगरे तासां सुपुत्रो नाशमाप्स्यति ॥

युष्माकमपमाने न सदा रोगी भविष्यति

॥१९॥

तस्मात्तिष्ठध्वमत्रैव रक्षार्थं नगरस्य च ॥

शापव्याजेन युष्माकं वरोऽयं समुपस्थितः

॥२०॥

एतस्मिन्नंतरे प्राप्तो देवशर्मा द्विजोत्तमाः ॥

गंधर्वः पर्वतो जातः स्वपत्न्या सहितस्तदा

॥२१॥

यदा चौदुम्बरी शप्ता नारदेन सुरर्षिणा ॥

मानुषी भव क्रुद्धेन तदा संप्रार्थितस्तया

॥२२॥

मदर्थं मानुषो भूत्वा तता त्वं चानया सह ॥

सृज मां मानुषीं चेव येन गच्छामि नो भुवि

॥२३॥

विण्मूत्रसंयुते गर्भे सर्वदोषसमन्विते ॥

ततः सा कृपया तस्याः सत्पत्न्या देवशर्मणः

॥२४॥

अवतीर्णा धरापृष्ठे वानप्रस्थाश्रमे ततः ॥

एवं सा पञ्चमी रात्रिस्तस्य यज्ञस्य सत्तमाः

॥२५॥

उत्सवेन मनोज्ञेन चौदुम्बर्या व्यतिक्रमात् ॥

प्रत्यूषे च ततो जाते यदा तेन विसर्जिता

॥२६॥

औदुम्बरी तदा प्राह पर्वतं जनकं निजम् ॥

कल्येऽत्रावभृथो भावी विधियज्ञसमुद्भवः

॥२७॥

सर्वतीर्थमयस्तस्मिन्स्नानं न स्यात्ततः परम् ॥

यास्यामः स्वगृहान्भूयः सर्वैर्देवैः समन्विताः

॥२८॥

अनेनैव विमानेन त्रयो वापि यथासुखम् ॥

ममापि च वरो जातो यः शापान्नारदोद्भवात् ॥

यज्ञभागो मया प्राप्तो देवानामपि दुर्लभः ॥

पौर्णमासीदिने प्राप्ते विशेषात्स्त्रीजनैः कृतः

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य औदुंबर्युत्पत्तिपूर्वकतत्प्राग्जन्मवृत्तांतवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः ॥ १८९ ॥