मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०३

3
नागरखण्डः · 103

आनर्तकतीर्थकूपिकामाहात्म्यवर्णनम्

ऋषय ऊचुः

आश्चर्यं सूतपुत्रैतद्यत्त्वया परिकीर्तितम् ॥

यत्स्थापितानि लिंगानि राक्षसैरपि वानरैः

॥१॥

तस्माद्विस्तरतो ब्रूहि यत्रयत्र यथायथा ॥

तैः स्थापितानि लिंगानि येषु स्थानेषु सूतज

॥२॥

सूत उवाच

' सुग्रीवः संभ्रमित्वाथ क्षेत्रं सर्वमशेषतः ॥

बालमंडनकं प्राप्य तत्र स्नात्वा समाहितः ॥

मुखलिंगं ततस्तत्र स्थापयामास शूलिनः ॥

तथान्यैर्वानरैः सर्वैमुखलिंगानि शूलिनः ॥

स्वसंज्ञार्थं द्विजश्रेष्ठाः स्थापितानि यथेच्छया

॥४॥

यस्तेषां मुखलिंगानां करोति घृतकंबलम् ॥

मकरस्थेन सूर्येण शिवलोकं स गच्छति

॥५॥

ततः पश्चिमदिग्भागे तस्य क्षेत्रस्य राक्षसैः ॥

संस्थापितानि लिङ्गानि चतुर्वक्त्राणि च द्विजाः ॥

_

॥६॥

रामेण पूर्वदिग्भागे प्रासादानां च पंचकम् ॥

स्थापितं भक्तियुक्तेन सर्वपातकनाशनम्

॥७॥

तथादक्षिणदिग्भागे कूपिका तेन निर्मिता ॥

आनर्त्तीयतडागस्य समीपे पापनाशनी

॥८॥

यस्तस्यां कुरुते श्राद्धं संप्राप्ते दक्षिणायने ॥

सोऽश्वमेधफलं प्राप्य पितृलोके महीयते

॥९॥

यस्तत्र दीपकं दद्यात्कार्तिके मासि च द्विजाः ॥

न स पश्यति रौद्रांस्तान्नरकानेकविंशतिम् ॥

न चांधो जायते क्वापि यत्रयत्र प्रजायते

॥१०॥

ऋषय ऊचुः

आनर्त्तीयतडागं तत्केन तत्र विनिर्मितम् ॥

किंप्रभावं च कार्त्स्न्येन सूतपुत्र प्रकीर्तय

॥११॥

सूत उवाच

आनर्त्तीयतडागस्य महिमा द्विजसत्तमाः ॥

एकवक्त्रेण नो शक्यो वक्तुं वर्षशतैरपि

॥१२॥

आश्विनस्य सिते पक्षे चतुर्दश्यां समाहितः ॥

स्नात्वा देवान्पितॄंश्चैव तर्पयेद्विधिपूर्वकम्

॥१३॥

ततो दीपोत्सवदिने श्राद्धं कृत्वा समाहितः ॥

दामोदरं यमं पूज्य दीपं दद्यात्स्वभक्तितः

॥१४॥

संपूज्यो धर्मराजस्तु गन्धपुष्पानुलेपनैः ॥

माषास्तिलाश्च दातव्या गोविंदः प्रीयतामिति

॥१५॥

तिलमाषप्रदानेन द्विजानां तर्पणेन च ॥

यमेन सहितो देवः प्रीयते पुरुषोत्तमः

॥१६॥

य एवं कुरुते विप्रास्तीर्थ आनर्त संज्ञिते ॥

सोऽश्वमेधफलं प्राप्यब्रह्मलोके महीयते

॥१७॥

यस्मिन्दिने समायातो रामस्तत्र प्रहर्षितः ॥

तस्मिन्द्विजोत्तमैः सर्वैः प्रोक्तः सोऽभ्येत्य सादरम्

॥१८॥

अत्रागस्त्यो मुनिश्रेष्ठस्तिष्ठते रघुनंदन ॥

तं गत्वा पश्य विप्रेन्द्र मित्रावरुणसंभवम्

॥१९॥

अथ तेषां वचः श्रुत्वा रामो राजीवलोचनः ॥

वानरै राक्षसैः सार्धं प्रहृष्टः सत्वरं ययौ ॥

6.103.२० अष्टांगप्रणिपातेन तं प्रणम्य रघूत्तमः ॥

परिष्यक्तो दृढं तेन सानन्देन महात्मना

॥२१॥

नातिदूरे ततस्तस्य विनयेन समन्वितः ॥

उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः

॥२२॥

ततः पृष्टस्तु मुनिना कथयामास विस्तरात् ॥

वृत्तांतं सर्वमात्मीयं स्वर्गस्य गमनं प्रति

॥२३॥

यथा सीता परित्यक्ता यथा सौमित्रिणा कृतः ॥

परित्यागः स्वकीयस्य संत्यक्तेन महात्मना

॥२४॥

तथा सुग्रीवमासाद्य तथैव च विभीषणम् ॥

संभाष्य चागमस्त्वत्र ततः पुष्पकसंस्थितिः

॥२५॥

ततोऽगस्त्यः कथाश्चित्राश्चक्रे तस्य पुरस्तदा ॥

राजर्षीणां पुराणानां दृष्टांतैर्बहुभिर्मुनिः

॥२६॥

ततः कथावसाने च चलचित्तं रघूत्तमम् ॥

विलोक्य प्रददौ तस्मै रत्नाभरणमुत्तमम्

॥२७॥

यन्न देवेषु यक्षेषु सिद्धविद्याधरेषु च ॥

नागेषु राक्षसेन्द्रेषु मानुषेषु च का कथा

॥२८॥

यस्येन्द्रायुधसंघाश्च निष्क्रामंति सहस्रशः ॥

रात्रौ तमिस्रपक्षेऽपि लक्ष्यतेऽर्कोपमत्विषः

॥२९॥

तद्रामस्तु गृहीत्वाऽथ विस्मयोत्फुल्ललोचनः ॥

पप्रच्छ कौतुकाविष्टः कुतस्त्वेतन्मुने तव

॥३०॥

अत्यद्भुतकरं रत्नैर्निर्मितं तिमिरापहम् ॥

कण्ठाभरणमाख्याहि नेदमस्ति जगत्त्रये

॥३१॥

अगस्तिरुवाच

यत्पश्यसि रघुश्रेष्ठ तडागमिदमुत्तमम् ॥

ममाश्रमसमीपस्थं तद्देवदेवनिर्मितम्

॥३२॥

तस्य तीरे मया दृष्टं यदाश्चर्यमनुत्तमम् ॥

तत्तेऽहं संप्रवक्ष्यामि शृणुष्व रघु नन्दन

॥३३॥

कदाचिद्राघवश्रेष्ठ निशीथेऽहं समुत्थितः ॥

पश्यामि व्योममार्गेण प्रद्योतं भास्करोपमम्

॥३४॥

यावत्तावद्विमानं तदप्सरोगणराजितम् ॥

तस्य मध्यगतश्चैकः पुरुषस्तरुणस्तथा ॥

अन्धस्तत्र समारूढः स्तूयते किन्नरैर्नृपः

॥३५॥

रत्नाभरणमेतच्च बिभ्रत्कण्ठे सुनिर्मलम् ॥

द्वादशार्कप्रतीकाशं कामदेव इवापरः

॥३६॥

अथोत्तीर्य विमानाग्र्यात्स्कंधलग्नो रघूद्वह ॥

एकस्य देवदूतस्य सलिलांतमुपागतः

॥३७॥

ततश्च सलिलात्तस्मादाकृष्य च कलेवरम् ॥

मृतकस्य ततो दंतैर्भक्षयामास सत्वरम्

॥३८॥

यथायथा महामांसं स भक्षयति राघव ॥

तथातथा पुनः कायं तद्रूपं तत्प्रजायते

॥३९॥

ततस्तृप्तिं चिरात्प्राप्य शुचिर्भूत्वा प्रहर्षितः ॥

निष्कम्य सलिलाद्यावद्विमानमधिरोहति

॥४०॥

तावन्मया द्रुतं गत्वा स पृष्टः कौतुकान्नृपः ॥

सेव्यमानोऽपि गन्धर्वैः समंताद्बुद्धितत्परैः

॥४१॥

भोभो वैमानिकश्रेष्ठ मुहूर्तं प्रतिपालय ॥

अगस्तिर्नाम विप्रोऽहं मित्रावरुणसंभवः ॥

तच्छ्रुत्वा सम्मुखो भूत्वा प्रणाममकरोत्ततः ॥

तैश्च वैमानिकैः सार्धं सर्वैस्तैः किन्नरादिभिः

॥४३॥

सोऽयं राजा मया पृष्टः कृतानतिः पुरः स्थितः ॥

कस्त्वमीदृग्वपुः श्रीमान्विमानवरमाश्रितः ॥

सेव्यमानोऽप्सरोभिश्च गन्धर्वैः किन्नरैस्तथा

॥४४॥

अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम् ॥

कृतवानसि वैकल्यं कस्मात्ते दृष्टिसंभवम्

॥४५॥

वैमानिक उवाच

साधु साधु मुनिश्रेष्ठ यत्त्वं प्राप्तो ममान्तिकम् ॥

अवश्यं सानुकूलो मे विधिर्यत्त्वं समागतः

॥४६॥

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥

कालेन फलते तीर्थं सद्यः साधुसमागमः

॥४७॥

तस्मात्सर्वं तवाख्यानं कथयामि महामुने ।

येन मे गर्हितं भोज्यं विभवश्च तथेदृशः

॥४८॥

अहमासं पुरा राजा श्वेतोनाम महामुने ॥

आनर्ताधिपतिः पापः सर्वलोकनिपीडकः

॥४९॥

न किंचित्प्राङ्मया दत्तं न हुतं जातवेदसि ॥

न च रक्षा कृता लोके न त्राताः शरणागताः

॥५०॥

दृष्ट्वादृष्ट्वा मया रत्नं यत्किंचिद्धरणीतले ॥

तद्वै बलाद्धृतं सर्वं सर्वेषामिह देहिनाम्

॥५१॥

ततः कालेन दीर्घेण जराग्रस्तस्य मे बलात् ॥

हृतं राज्यं स्वपुत्रेण मां निर्वास्य विगर्हितम्

॥५२॥

ततोऽहं जरया ग्रस्तो वैराग्यं परमं गतः ॥

समायातोऽत्र विप्रेंद्र भ्रममाण इतस्ततः

॥५३॥

ततः क्षुत्क्षामकण्ठोऽहं स्नात्वाऽत्र सलिले शुभे ॥

मृतश्च संनिविष्टोहं क्षुधया परिपीडितः

॥५४॥

प्राविश्याऽत्र जले पुण्ये पंचत्वं समुपागतः ॥

ततश्च तत्क्षणादेव विमानं समुपस्थितम्

॥५५॥

मामन्येन शरीरेण समादाय च किंकराः ॥

तत्रारोप्य ततः प्राप्ता ब्रह्मणः सदनं प्रति

॥५६॥

दिव्यमाल्यावरधरंदिव्यगन्धानुलेपनम् ॥

दिव्याभरणसंजुष्टं स्तूयमानं च किन्नरैः

॥५७॥

ततो ब्रह्मसभामध्ये ह्यहं तैर्देवकिंकरैः ॥

तादृग्रूपो विचक्षुश्च धारितो ब्रह्मणः पुरः

॥५८॥

सर्वैः सभागतैर्दृष्टा विस्मितास्यैः परस्परम् ॥

अन्यैश्च निन्दमानैश्च धिक्छब्दस्य प्रजल्पकैः

॥५९॥

किंकरा ऊचुः

एष देवश्चतुर्वक्त्रः सभेयं तस्य सम्भवा ॥

सर्वैर्देवगणैर्जुष्टा प्रणामः क्रियतामिति

॥६०॥

ततोऽहं प्रणिपत्योच्चैस्तं देवं देवसंयुतम् ॥

उपविष्टः सभामध्ये व्रीडयाऽवनतः स्थितः

॥६१॥

यथायथा कथास्तत्र प्रजायन्ते सभातले ॥

देवद्विजनरेन्द्राणां धर्माख्यानानि कुंभज

॥६२॥

तथातथा ममातीव क्षुद्वृद्धिं संप्रगच्छति ॥

जाने किं भक्षयाम्याशु दृषदः काष्ठमेव वा

॥६३॥

ततो मया प्रणम्योच्चैर्विज्ञप्तः प्रपितामहः ॥

प्राणिपत्य मुनिश्रेष्ठ लज्जां त्यक्त्वा सुदूरतः

॥६४॥

क्षुधा मां बाधते अतीव सांप्रतं प्रपितामह ॥

तथा पश्यामि नो किंचित्तादृग्भोज्यं प्रयच्छ मे

॥६५॥

क्षुत्पिपासादयो दोषा न विद्यंतेऽत्र ते किल ॥

स्वर्गे स्थितस्य यच्चैतत्तत्किमेवंविधं मम

॥६६॥

पितामह उवाच

त्वया नान्नं क्वचिद्दत्तं कस्यचित्पृथिवीतले ।

तेनात्रापि बुभुक्षा ते वृद्धिं गच्छति दुर्मते

॥६७॥

तथा हृतानि रत्नानि यानि दृष्टिगतानि ते ॥

चक्षुर्हीनस्ततो जातो मम लोके गतोऽपि च

॥६८॥

यस्त्वं पातकयुक्तोऽपि संप्राप्तो मम मंदिरम् ॥

तद्वक्ष्याम्यखिलं तेऽहं शृणुष्वैकमनाः स्थितः

॥६९॥

यस्मिञ्जले त्वया मुक्ताः प्राणाः पापा त्मनापिच ॥

श्वेतद्वीपपतिस्तत्र कलिकालभयातुरः

॥७०॥

ततोऽस्य स्पर्शनात्सद्यो विमुक्तः सर्वपातकैः ॥

अन्नादानात्परा पीडा जायते क्षुत्समु द्भवा

॥७१॥

तथा रत्नापहारेण सञ्जाता चांधता तव ॥

नैवान्यत्कारणं किंचित्सत्यमेतन्मयोदितम्

॥७२॥

ततो मया विधिः प्रोक्तः पुनरेव द्विजोत्तम ॥

एषोऽपि ब्रह्मलोकस्ते नरकादतिरिच्यते ॥

तस्मात्तत्रैव मां देव प्रेषयस्व किमत्र वै

॥७३॥

ब्रह्मोवाच

तस्मात्तत्रैव गच्छ त्वं प्रेषि तोऽसि किमत्र वै ॥

नरके तव वासो न श्वेतद्वीपसमुद्भवम्

॥७४॥

माहात्म्यं नाशमायाति शास्त्रं स्यात्सत्यवर्जितम् ॥

तस्मात्त्वं नित्यमारूढो विमा ने त्रैवसुन्दरे

॥७५॥

गत्वा जलाशये तस्मिन्यत्र प्राणाः समुज्झिताः ॥

तमेव निजदेहं च भक्षयस्व यथेच्छया

॥७६॥

तद्भविष्यति मद्वाक्या दक्षयं जलमध्यगम् ॥

तावत्कालं च दृष्टिस्ते भोज्यकाले भविष्यति

॥७७॥

ततोऽहं तस्य वाक्येन दीपोत्सवदिने सदा ॥

निशीथेऽत्र समा गत्य भक्षयामि निजां तनुम्

॥७८॥

ततस्तृप्तिं प्रगच्छामि यावद्दैवं दिनं स्थितम् ॥

मानुषं च तथा वर्षमीदृग्रूपो व्यवस्थितः

॥७९॥

नास्त्यसाध्यं मुनिश्रेष्ठ तव किंचिज्जगत्त्रये ॥

येनैकं चुलुकं कृत्वा निपीतः पयसांनिधिः

॥८०॥

तस्मान्मुने दयां कृत्वा ममोपरि महत्तराम् ॥

अकृत्या द्रक्ष मामस्मात्सर्वलोकविगर्हितात्

॥८१॥

तथा दृष्टिप्रदानं मे कुरुष्व मुनिसत्तम ॥

निर्विण्णोऽस्म्यंधभावेन नान्या त्वत्तोऽस्ति मे गतिः

॥८२॥

तस्य तद्वचनं श्रुत्वा कृपया मम मानसम् ॥

द्रवीभूतं तदा वाक्यमवोचं तं रघूत्तम

॥८३॥

त्वमन्ननिष्क्रयं देहि कण्ठस्थमिह भूषणम् ॥

येन नाशं प्रयात्येषा बुभुक्षा जठरोद्भवा

॥८४॥

तथाऽद्यप्रभृति प्राज्ञ रत्नदीपान्सुनिर्मलान् ॥

अत्रैव सरसस्तीरे देहि दामोदराय च

॥८५॥

द्ध?स येन संजायते दृष्टिः शाश्वती तव निर्मला ॥

मम वाक्यादसंदिग्धं सत्येनात्मानमालभे

॥८६॥

राजोवाच

ममोपरि दयां कृत्वा त्वमेव मुनिसत्तम ॥

गृहाण रत्नसंभूतं कण्ठाभरणमुत्तमम्

॥८७॥

ततो दयाभिभूतेन मया तस्य प्रतिग्रहः ॥

निःस्पृहेणापि संचीर्णो मुनिना रण्यवासिना।

ततः प्रक्षाल्य मे पादौ यावत्तेनान्ननिष्क्रये।

विभूषणमिदं दत्तं सद्भक्त्या भावितात्मने ॥

ततस्तस्य प्रणष्टा सा बुभुक्षा तत्क्षणान्नृप ॥

संजाता परमा तृप्तिर्देवपीयूषसंभवा

॥९०॥

तस्य नष्टं मृतं कायं तच्च जीर्णं पुरोद्भवम् ॥

यदासीदक्षयं नित्यं तस्मिंस्तोये व्यवस्थितम्

॥९१॥

ततः संस्थापितस्तेन तस्मिन्स्थाने सुभक्तितः ॥

दामोदरो रघुश्रेष्ठ कृत्वा प्रासादमुत्तमम् ९२ ॥

तस्याग्रे श्रद्धया युक्तो दीपं दयाद्यथायथा ॥

तथातथा भवेद्दृष्टिस्तस्य नित्यं सुनिर्मलाम्

॥९३॥

ततो मासात्समासाद्य दिव्यचक्षुर्महीपतिः ॥

स बभूव नृपश्रेष्ठः स्पृहणीयतमः सताम्

॥९४॥

ततः प्रोवाच मां हृष्टः प्रणिपत्य कृतांजलिः ॥

हर्षगद्गदया वाचा प्रस्थितस्त्रिदिवं प्रति

॥९५॥

त्वत्प्रसादात्प्रणष्टा मे बुभुक्षाऽतिसुदारुणा ॥

तथा दृष्टिश्च संजाता दिव्या ब्राह्मणसत्तम

॥९६॥

अनुज्ञां देहि मे तस्माद्येन गच्छामि सांप्रतम् ॥

ब्रह्मलोकं मुनिश्रेष्ठ तीर्थस्यास्य प्रभावतः

॥९७॥

ततो मया विनिर्मुक्तः प्रणिपत्य मुहुर्मुहुः ॥

स जगाम प्रहृष्टात्मा ब्रह्मलोकं सनातनम्

॥९८॥

एवं मे भूषणमिदं जातं हस्तगतं पुरा ॥

तव योग्यमिदं ज्ञात्वा तुभ्यं तेन निवेदितम्

॥९९॥

ततः प्रभृति राजेंद्र समागत्यात्र मानवाः ॥

रत्नदीपान्प्रदायोच्चैः स्नात्वाऽत्र सलिले शुभे ॥

कार्तिके मासि निर्यांति देहांते त्रिदिवालयम्

॥१००॥

ये पुनः प्राणसंत्यागं प्रकुर्वंति समाहिताः ॥

पापात्मानोऽपि ते यांति ब्रह्मलोकं रघूत्तम

॥१०१॥

ततो दृष्ट्वा सहस्राक्षः प्रभावं तज्जलोद्भवम् ॥

पांसुभिः पूरयामास समंताद्भयसंकुलम्

॥१०२॥

तदद्य दिवसः प्राप्तो दीपोत्सवसमुद्भवः ॥

सुपुण्योऽत्र ममादेशात्त्वं कुरुष्व सुकूपिकाम्

॥१०३॥

तस्यां स्नानं विधायाथ पितॄंस्तर्पय राघव ॥

देवस्यास्य पुरो देहि रत्नदीपमनुत्तमम्

॥४॥

येन संजायते सिद्धिर्ब्रह्मलोकसमुद्भवा ॥

अनेनैव शरीरेण सत्यमेतन्मयोदितम्

॥५॥

ततस्ते राघवादेशा त्सर्वे राक्षसवानराः ॥

तस्मिन्देशे विनिदधुः कूपिकां विमलोदकाम्

॥६॥

तत्र स्नात्वा पितॄंस्तर्प्य रत्नदीपं प्रदाय च ॥

समस्तं कार्तिकं यावदयोध्यां प्रस्थितास्ततः

॥१०७॥

ततो विभीषणं मुक्त्वा हनूमंतं च वानरम् ॥

ब्रह्मलोकं गताः सर्वे तत्तीर्थस्य प्रभावतः

॥१०८॥

सूत उवाच

अद्यापि दीपदानं यः कुरुते तत्र सादरम् ॥

संप्राप्ते कार्तिके मासि स्नात्वा तत्र जले शुभे ॥

स सर्वपातकैर्मुक्तो ब्रह्मलोके महीयते

॥१०९॥

एवं तत्र समुत्पन्नं तत्तडागं शुभावहम् ॥

आनर्त्तीयं तथा विष्णुकूपिका सा च शोभना

॥११०॥

इति श्रीस्कांदे महापुराण एकाशीति साहरुयां संहि तायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये आनर्तकतीर्थकूपिकामाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥