मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९४

3
नागरखण्डः · 94

लोहयष्टिमाहात्म्यवर्णनम्

सूत उवाच

तथान्या लोहयष्टिस्तु तस्मिन्क्षेत्रेऽतिशोभना ॥

मुक्ता परशुरामेण भंक्त्वा निजकुठारकम्

॥१॥

तां दृष्ट्वा मानवः सम्यगुपवासपरायणः ॥

मुच्यते हि स्वकात्पापात्तत्क्षणाद्विजसत्तमाः

॥२॥

ऋषय ऊचुः

कुतः परशुरामेण भंक्त्वा निजकुठारकम् ॥

निर्मिता लोहयष्टिः सा तत्रोत्सृष्टा च सा कुतः

॥३॥

सूत उवाच

यदा रामो ह्रदं कृत्वा तर्पयित्वा निजान्पितॄन् ॥

गतामर्षो द्विजेन्द्राणां दत्त्वा यज्ञे वसुन्धराम्

॥४॥

ततः संप्रस्थितो हृष्टो धृत्वा मनसि सागरम् ॥

स्नानार्थं तं समादाय कुठारं भास्करप्रभम्

॥५॥

तदा स मुनिभिः प्रोक्तः सर्वैस्तत्क्षेत्रवासिभिः ॥

वांछद्भिस्तु हितं तस्य सदा शमपरायणैः

॥६॥

रामराम महाभाग यद्धारयसि पाणिना ॥

शस्त्रं पूर्णे प्रतिज्ञोऽपि तन्न युक्तं भवेत्तव

॥७॥

अनेन करसंस्थेन तव कोपः कथंचन ॥

न यास्यति शरीरस्थस्तस्मादेनं परित्यज

॥९॥

तेषां तद्वचनं श्रुत्वा ततो रामः कृतांजलिः ॥

प्रोवाच विनयोपेतः प्रहसंस्तान्द्विजोत्तमान्

॥९॥

कुठारश्चैव विप्रेंद्रा रुद्रतेजोद्भवेन च ॥

लोहेन निर्मितः पूर्वमक्षयो विश्वकर्मणा ॥

तदहं संपरित्यज्य कथमेनं द्विजोत्तमाः ॥

क्षत्त्रधर्मपरोऽप्येवं प्रगच्छामि दिगंतरम्

॥१॥

यदि चैनं मया मुक्तं कुठारं च द्विजोत्तमाः ॥

ग्रहीष्यति परः कश्चिन्मम वध्यो भविष्यति

॥१२॥

नापराधमिमं शक्तः सोढ़ुं चाहं कथंचन ॥

अपि ब्राह्मणमुख्यस्य जनस्यान्यस्य का कथा

॥१३॥

तथापि नास्ति ते शांतिर्मुक्तेऽप्यस्मिन्द्विजोत्तमाः ॥

गृहीतेऽपि च युष्माभिस्तस्माद्रक्ष्यः प्रयत्नतः

॥१४॥

ब्राह्मणा ऊचुः

यद्येवं त्वं महाभाग रक्षार्थं संप्रयच्छसि ॥

अस्माकं तत्र भंक्त्वाशु पिंडं कृत्वा समर्पय

॥१५॥

येन रक्षामहे सर्वे परमं यवमाश्रिताः ॥

न च गृह्णाति वा कश्चिद्गते कालांतरेऽपि च

॥१६॥

तेषां तद्वचनं श्रुत्वा रामः शस्त्रभृतां वरः ॥

चक्रे लोहमयीं यष्टिं तं भंक्त्वा स कुठारकम्

॥१७॥

ततः स ब्राह्मणेंद्राणामर्पयामास सादरम् ॥

रक्षार्थं भार्गवश्रेष्ठो विनयावनतः स्थितः

॥१८॥

ब्राह्मणा ऊचुः

लोहयष्टिमिमां राम त्वत्कुठारसमुद्भवाम् ॥

वयं संरक्षयिष्यामः पूजयिष्याम एव हि

॥१९॥

यथा शक्तिमयी कीर्तिः स्कन्दस्यात्र प्रतिष्ठिता ॥

लोहयष्टिमयी तद्वत्तव राम भविष्यति

॥२०॥

भ्रष्टराज्यस्तु यो राजा एनामाराधयिष्यति ॥

स्वं राज्यमचिरात्प्राप्य स प्रतापी भविष्यति

॥२१॥

विद्याकृते द्विजो वा यः सदैनां पूजयिष्यति ॥

स विद्यां परमां प्राप्य सर्वज्ञत्वं प्रपत्स्यते

॥२२॥

अपुत्रो वा नरो योऽथ नारी वा पूजयिष्यति ॥

एतां यष्टिं त्वदीयां च पुत्रवान्स भविष्यति

॥२३॥

उपवासपरो भूत्वा यश्चैनां पूजयिष्यति ॥

आश्विनस्यासिते पक्षे चतुर्दश्यां विशेषतः

॥२४॥

स प्राप्स्यति सदा कामानभीष्टान्मनसि स्थितान्

॥२४॥

एवं श्रुत्वा ततो रामस्तेषामेव द्विजन्मनाम् ॥

प्रणम्य प्रययौ तूर्णं समुद्रसदनं प्रति

॥२५॥

तेऽपि विप्रास्ततस्तस्याश्चक्रुः प्रासादमुत्तमम् ॥

तत्र संस्थाय तां चक्रुस्ततः पूजासमाहिताः

॥२६॥

प्राप्नुवंति च तत्पार्श्वात्कामानेव हृदि स्थितान् ॥

सुस्तोकेनाऽपि कालेन दुर्लभास्त्रिदशैरपि

॥२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लोहयष्टिमाहात्म्यवर्णनं नाम चतुर्णवतितमोऽध्यायः ॥ ९४ ॥