मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ७८

3
नागरखण्डः · 78

ब्रह्मणा कतमे स्थाने तत्र सूत कृतं तपः

ऋषय ऊचुः

ब्रह्मणा कतमे स्थाने तत्र सूत कृतं तपः ॥

वालखिल्यैश्च तैः सर्वैर्मुनिभिः शंसितव्रतैः

॥१॥

सूत उवाच

तस्या वायव्यदिग्भागे हरवेद्या द्विजोत्तमाः ॥

सम्यक्छ्रद्धाप्रयत्नेन ब्रह्मणा विहितं तपः

॥२॥

पश्चिमे वालखिल्यैश्च जपस्नानपरायणैः ॥

तत्राश्चर्यमभूद्यद्वै पूर्वं ब्राह्मण सत्तमाः ॥

आश्रमे चतुरास्यस्य तद्वो वक्ष्यामि सांप्रतम्

॥३॥

तत्र दुश्चारिणी काचिद्रात्रौ ब्राह्मणवंशजा ॥

देवदत्तं समासाद्य वल्लभं रमते सदा

॥४॥

अज्ञाता पतिना मात्रा तथान्यैरपि बांधवैः ॥

कृष्णपक्षं समासाद्य विजने हृष्टमानसा

॥५॥

कस्यचित्त्वथ कालस्य दृष्टा सा केनचि द्द्विजाः ॥

तत्रस्था जारसंयुक्ता स्वभर्तुश्च निवेदिता

॥६॥

अथासौ कोपसंयुक्तस्तस्या भर्ता सुनिष्ठुरैः ॥

वाक्यैस्तां गर्हयामास प्रहारैश्चाप्य ताडयत्

॥७॥

अथ सा धार्ष्ट्यमासाद्य स्त्रीस्वभावं समाश्रिता ॥

प्रोवाच बाष्पपूर्णाक्षी दीनांजलिपुटा स्थिता

॥८॥

किं मां दुर्जनवाक्येन त्वं ताडयसि निष्ठुरैः ॥

प्रहारैर्दोषनिर्मुक्तां त्वत्पादप्रणतां विभो

॥९॥

अहं त्वां शपथं कृत्वा भक्षयित्वाऽथ वा विषम् ॥

प्रविश्य हव्यवाहं वा करिष्ये प्रत्ययान्वितम्

॥१०॥

अथ तां ब्राह्मणः प्राह यदि त्वं पापवर्जिता ॥

पुरतो देवविप्राणां कुरु दिव्यग्रहं स्वयम्

॥११॥

सा तथेति प्रतिज्ञाय साहसेन समन्विता ॥

दिव्यग्रहं ततश्चक्रे यथोक्तविधिना सती

॥१२॥

शुद्धिं च प्राप्ता सर्वेषां बन्धूनां च द्विजन्मनाम् ॥

पुरतश्च गुरूणां च देवानामपि पापकृत्

॥१३॥

एतस्मिन्नन्तरे तस्याः साधुवादो महानभूत् ॥

धिक्छब्दश्च तथा पत्युः सर्वैर्दत्तः सुगर्हितः

॥१४॥

अहो पापसमाचारो दुष्टोऽयं ब्राह्मणाधमः ॥

अपापां धर्मपत्नीं यो मिथ्यादोषेणयोजयेत्

॥१५॥

एवं स निन्द्यमानस्तु सर्वलोकैर्द्विजोत्तमाः ॥

कोपं चक्रे ततो वह्निं समुद्दिश्य सदुःखितः

॥१६॥

शापं दातुं मतिं चक्रे ततो वह्नेः सुदुःखितः ॥

अब्रवीत्परुषं वाक्यं निन्दमानः पुनःपुनः

॥१७॥

मया स्वयं प्रदृष्टेयं जारेण सह संगता ॥

त्वया वह्ने सुपापेयं न कस्माद्भस्मसात्कृता

॥१८॥

तस्मात्त्वां पापकर्माणमसत्यपक्षपातिनम् ॥

असंदिग्धं शपिष्यामि रौद्रशापेन सांप्रतम्

॥१९॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा संक्रुद्धस्य द्विजन्मनः ॥

सप्तार्चिर्भयसंत्रस्तः कृतांजलिरुवाच तम्

॥२०॥

अग्निरुवाच

नैष दोषो मम ब्रह्मन्यन्न दग्धा तव प्रिया ॥

कृतागसाऽपि मे वाक्यं शृणुष्वात्र स्फुटेरितम्

॥२१॥

अनया परकांतेन कृतः सह समागमः ॥

चिरं कालं द्विज श्रेष्ठ त्वया ज्ञाताद्य वासरे

॥२२॥

परं यस्माद्विशुद्धैषा मया दग्धा न सा द्विज ॥

कारणं तच्च ते वच्मि शृणुष्वैकमनाः स्थितः

॥२३॥

यत्रानया कृतः संगः परकांतेन वै द्विज ॥

तस्मिन्नायतने ब्रह्मा रुद्रशीर्षो व्यवस्थितः

॥२४॥

तत्र कृत्वा रतं चित्रं परकांतसमं तदा ॥

पश्यति स्म ततो रुद्रं ब्रह्ममस्तकसंस्थितम्

॥२५॥

ततः प्रक्षालयत्यंगं कुण्डे तत्राग्रतः स्थिते ॥

कृतपापापि तेनैषा शुद्धिं याति शुचिस्मिता

॥२६॥

अत्र पूर्वं विपाप्माऽभूद्ब्रह्मा लोकपितामहः ॥

सतीवक्त्रं समालोक्य कामार्तोऽपि स पापकृत्

॥२७॥

तस्मान्नास्त्यत्र मे दोषः स्वल्पोऽपि द्विजसत्तम ॥

रुद्रशीर्षप्रभावोऽयं तस्य कुण्डोदकस्य च

॥२८॥

तस्मादेनां समादाय संशुद्धां पापवर्जिताम् ॥

गृहं गच्छ द्विजश्रेष्ठ सत्यमेतन्मयो दितम्

॥२९॥

ब्राह्मण उवाच

या मया सहसा दृष्टा स्वयमेव हुताशन ॥

परकांतेन तां नाद्य शुद्धामपि गृहं नये

॥३०॥

इत्युक्त्वा च द्विजश्रेष्ठस्तां त्यक्त्वापि शुचिव्रतः ॥

जगाम स्वगृहं पश्चात्तथा जग्मुर्जना गृहान्

॥३१॥

सापि तेन परित्यक्ता पतिना हृष्टमानसा ॥

ज्ञात्वा तत्तीर्थमाहात्म्यं वैश्वानरमुखेरितम्

॥३२॥

तेनैव परकांतेन विशेषेण रतिक्रियाम् ॥

तस्मिन्नायतने चक्रे कुण्डे तोयावगाहनम्

॥३३॥

अथान्ये परलोकस्य भीत्याऽतीव व्यवस्थिताः ॥

विमुखाः परदारेषु नार्यश्चापि पतिव्रताः

॥३४॥

दूरतोऽपि समभ्येत्य ते सर्वे तत्र मंदिरे ॥

रुद्रशीर्षाभिधानं च प्रचक्रुः सुरतोत्सवम्

॥३५॥

निमज्जंति ततः कुण्डे तस्मिन्पातकनाशने ॥

भवंति पापनिर्मुक्ता रुद्रशीर्षावलोकनात्

॥३६॥

एतस्मिन्नंतरे नष्टो धर्मः पत्नीसमुद्भवः ॥

पुरुषाणां ततः स्त्रीणां निजकांतासमुद्भवः

॥३७॥

यो यां पश्यति रूपाढ्यां नारीमपि कुलोद्भवाम् ॥

स तत्रानीय संहृष्टो भजते द्विजसत्तमाः

॥३८॥

तथा नारी सुरूपाढ्यं यं पश्यति नरं क्वचित् ॥

सापि तत्र समानीय कुरुते सुरतोत्सवम्

॥३९॥

लिप्यते न च पापेन कथंचित्तकृतेन च ॥

नरो वा यदि वा नारी तत्तीर्थस्य प्रभावतः

॥४०॥

कस्यचित्त्वथ कालस्य तत्र राजा विदूरथः ॥

आनर्त्तविषये जज्ञे वार्धक्यं च क्रमाद्ययौ

॥४१॥

तस्य भार्याऽभवत्तन्वी तरुणी वररूपधृक् ॥

पश्चिमे वयसि प्राप्ते प्राणेभ्योऽपि गरीयसी

॥४२॥

न तस्याः स जराग्रस्तश्चित्ते वसति पार्थिवः ॥

तस्मिंस्तीर्थे समागत्य वांछितं रमते नरः

॥४३॥

पार्थिवोऽपि परिज्ञाय तस्यास्तच्च विचेष्टितम् ॥

कोपाविष्टस्ततो गत्वा तस्मिन्क्षेत्रे सुशोभने

॥४४॥

तत्कुण्डं पूरयामास ततः पांशूत्करैर्द्रुतम् ॥

बभंज तं च प्रासादं ततः प्रोवाच दारुणम्

॥४५॥

यश्चैतत्पूरितं कुण्डं पांशुना निखनिष्यति ॥

प्रासादं च पुनश्चैनं करिष्यति पुनर्नवम्

॥४६॥

परदारकृतं पापं तस्य संपत्स्यतेऽखिलम् ॥

यदत्र प्रकरिष्यंति मानवाः काममोहिताः

॥४७॥

सूत उवाच

एवं स पार्थिवः प्रोच्य तामादाय ततः प्रियाम् ॥

जगाम स्वगृहं पश्चात्प्रहृष्टेनांतरात्मना

॥४८॥

अथ तां विरतां ज्ञात्वा सोऽन्यचित्तां प्रियां नृपः ॥

यत्नेन रक्षयामास विश्वासं नैव गच्छति

॥४९॥

अन्यस्मिन्दिवसे शस्त्रं सूक्ष्मं वेण्यां निधाय सा ॥

जगाम शयनं तस्य वधार्थं वरवर्णिनी

॥५०॥

ततस्तेन समं हास्यं कृत्वा क्षत्रियभावजम् ॥

सुरतं रुचिरैर्भावैर्हावैर्भूरिभिरेव च

॥५१॥

ततो निद्रावशं प्राप्तं तं नृपं सा नृपप्रिया ॥

स्ववेण्याः शस्त्रमादाय निजघान सुनिर्दया

॥५२॥

एवं तस्य फलं जातं सद्यस्तीर्थस्य भंगजम् ॥

आनर्ताधिपते रौद्रं सर्वलोकविगर्हितम्

॥५३॥

अद्यापि तत्र देवेशो रुद्रशीर्षः स तिष्ठति ॥

लिंगभेदभयात्तेन न स भग्नो द्विजोत्तमाः

॥५४॥

यस्तस्य पुरतः स्थित्वा जपेद्रुद्रशिरः शुचिः ॥

माघशुक्लचतुर्दश्यां पूजयित्वा स्रगादिभिः

॥५५॥

वांछितं लभते चाशु तस्येशस्य प्रभावतः ॥

अष्टोत्तरशतं यावद्यो जपेत्पुरतः स्थितः

॥५६॥

रुद्रशीर्षं न संदेहः स याति परमां गतिम् ॥

एकवारं नरो यो वा तत्पुरः पठति द्विजः

॥५७॥

नित्यं दिनकृतात्पापान्मुच्यते द्विजसत्तमाः ॥

एतद्वः सर्वमाख्यातं रुद्रशीर्षसमुद्भवम्

॥५८॥

माहात्म्यं सर्वपापानां सद्यो नाशनकारकम् ॥

मंगलं परमं ह्येतदायुष्यं कीर्तिवर्धनम् ॥

रुद्रशीर्षस्य माहात्म्यं तस्माच्छ्रोतव्यमादरात्

॥५९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये रुद्रशीर्ष (जागेश्वर )माहात्म्यवर्णनंनामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥