मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२७

3
नागरखण्डः · 227

नरकयातनानिरसनोपायवर्णनम्

युधिष्ठिर उवाच

नरकाणां स्वरूपं च श्रुत्वा मे भयमागतम् ॥

कथं मुक्तिर्भवेत्तेषां पापानामपि पार्थिव ॥

व्रतैर्वा नियमैर्वापि होमैर्वा तीर्थसंश्रयैः

॥१॥

भीष्म उवाच

गंगायामस्थिपातोऽत्र येषां संजायते नृणाम् ॥

न तेषां नारको वह्निः प्रभवेन्मध्यवर्तिनाम्

॥२॥

गंगायां क्रियते श्राद्धं येषां नाम्ना स्वकैः सुतैः ॥

ते विमानं समाश्रित्य प्रयांति नरकोपरि

॥३॥

पापं कृत्वा प्रकुर्वंति प्रायश्चित्तं यथोदितम् ॥

हेम यच्छंति वा भूप न तेषां नरको भवेत्

॥४॥

शेषाः स्वकर्मणः प्राप्त्या सेवंते च यथोचितम् ॥

स्वर्ग वा नरकं वापि सेवन्ते ते नराधिप

॥५॥

धारातीर्थे म्रियंते ये स्वामिनः पुरतः स्थिताः ॥

ते गच्छंति परं स्थानं नरकाणां सुदूरतः

॥६॥

वाराणस्यां कुरुक्षेत्रे नैमिषे नागरे पुरे ॥

प्रयागे वा प्रभासे वा यस्त्यजेत्तनुमा त्मनः ॥

महापातकयुक्तोऽपि नरकं न स पश्यति

॥७॥

नीलो वा वृषभो यस्य विवाहे संनियुज्यते ॥

स्वपुत्रेण न संपश्येन्नरकं ब्रह्महाऽपि सः

॥८॥

प्रायोपवेशनं कृत्वा हृदयस्थे जनार्दने ॥

यस्त्यजेत्पुरुषः प्राणान्नरकं न स पश्यति

॥९॥

प्रायोपवेशनं यो च चित्रेश्वरनिवेशने ॥

कुर्वन्ति नरकं नैव ते गच्छंति कदाचन

॥१०॥

दीनांधकृपणानां च पथिश्रममुपेयुषाम् ॥

तीर्थयात्रापराणां च यो यच्छति सदाऽशनम् ॥

काले वा यदि वाऽकाले नरकं न स पश्यति

॥११॥

जलधेनुं च यो दद्याद्धृषसंस्थे दिवाकरे ॥

तिलधेनुं मृगस्थे च नरकं न स पश्यति

॥१२॥

सोमे सोमग्रहे चैव सोमनाथस्य दर्शनात् ॥

समुद्रे च सरस्वत्यां स्नात्वा न नरकं व्रजेत्

॥१३॥

सन्निहित्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ॥

सूर्यवारेण यः याति नरकं न स पश्यति

॥१४॥

कार्तिक्यां कृत्तिकायोगे यः करोति प्रदक्षिणाम् ॥

त्रिपुष्करस्य मौनेन नरकं न स पश्यति

॥१५॥

मृगसंक्रमणे ये तु सूर्यवारेण संस्थिते ॥

चण्डीशं वीक्षयंति स्म न ते नरकगामिनः

॥१६॥

गां पंकाद्ब्राह्मणीं दास्यात्साधून्स्तेनाद्द्विजं वधात् ॥

मोचयन्ति च ये राजन्न ते नरकगामिनः

॥१७॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥

यथा न नरकं याति पुरुषस्तु स्वकर्मणा ॥

यथा च नरकं याति स्वल्पपापोऽपि मानवः

॥१८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे भीष्मयुधिष्ठिरसंवादे नरकयातनानिरसनोपायवर्णनंनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥