मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९७

3
नागरखण्डः · 197

परावसुप्रायश्चित्तविधानवृत्तांतवर्णनम्

सूत उवाच

एतस्मिन्नेव काले तु नागरो द्विजसत्तमाः ॥

विश्वावसुरिति ख्यातो वेदवेदांगपारगः

॥१॥

पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥

परावसुरिति ख्यातस्तस्य प्राणसमः सदा

॥२॥

स वेदाध्ययनं चक्रे यौवने समुपस्थिते ॥

वयस्यैः संमतैः सार्धं सदा हास्य परायणैः

॥३॥

कस्यचित्त्वथ कालस्य माघमास उपस्थिते ॥

रात्रौ सोऽध्ययनं चक्र उपाध्यायगृहं गतः

॥४॥

निशीथे स समुत्थाय सर्वैर्मि त्रैश्च रक्षितः ॥

वेश्यागृहं समासाद्य प्रसुप्तो वेश्यया सह

॥५॥

जलपूर्णं समाधाय जलपात्रं समीपगम् ॥

निजाचमनयोग्यं च जलपानार्थमेव च

॥६॥

निशाशेषे तु संप्राप्ते स पिपासासमाकुलः ॥

निद्रालस्यसमोपेतः शय्यां त्यक्त्वा समुत्थितः

॥७॥

वेश्याया मद्यपात्रं तु ह्यधस्तात्सं व्यवस्थितम् ॥

तदादाय पपौ मद्यं जलभ्रांत्या यदैव सः

॥८॥

तदा मद्यं परिज्ञाय पात्रं त्यक्त्वा सुदुःखितः ॥

वैराग्यं परमं गत्वा प्रलापानकरो द्बहून्

॥९॥

अहो निद्रान्वितेनाद्य किं मया विकृतं कृतम् ॥

यदद्य मद्यमापीतं जलभ्रांत्या विगर्हितम्

॥१०॥

किं करोमि क्व गच्छामि कथं शुद्धिर्भवेन्मम ॥

प्रायश्चित्तं करिष्यामि यद्यपि स्यात्सुदुष्करम्

॥११॥

एवं निश्चित्य मनसा प्रभाते समुपस्थिते ॥

शंखतीर्थं समासाद्य कृत्वा स्नानं तथा परम्

॥१२॥

सशिखं वपनं पश्चात्कारयित्वा त्वरावितः ॥

गतश्च तिष्ठते यत्र ब्रह्मघोषपरायणः

॥१३॥

उपाध्यायः सशिष्यश्च ब्रह्मस्थानं समाश्रितः ॥

स गत्वा दूरतः स्थित्वा संनिविष्टो यथान्त्यजः

॥१४॥

श्मश्रुमूर्धजहीनस्तु यदा मित्रैर्विलोकितः ॥

तदा हास्याद्धतो मूर्ध्नि हस्ताग्रैश्च मुहुर्मुहुः

॥१५॥

उपाध्यायस्तु तं दृष्ट्वा दीनं बाष्पपरिप्लुतम् ॥

श्मश्रुमूर्धजसंत्यक्तं ततः प्रोवाच सादरम्

॥१६॥

किमद्य वत्स दूरे त्वमुपविष्टस्तु दैन्यधृक् ॥

एहि मे संनिधौ ब्रूहि पराभूतोऽसि केन वा

॥१७॥

परावसुरुवाच

अयोग्योऽहं गुरो जातः सेवायास्तव सांप्रतम् ॥

वेश्याया मंदिरस्थेन ज्ञात्वा निजकमंडलुम्

॥१८॥

वेश्याया मद्यपात्रं तु मद्यपूर्णं प्रगृह्य च ॥

तस्माद्देहि विभो मह्यं प्रायश्चित्तं विशुद्धये

॥१९॥

धर्मद्रोणेषु यत्प्रोक्तं तत्करिष्याम्यसंशयम्

॥२०॥

अथ तं बटवः प्रोचुर्वयस्यास्तस्य ये स्थिताः ॥

हास्यं कृत्वा प्रकामाश्च वेश्या या गुरुसंनिधौ

॥२१॥

या एषा नृपतेः कन्या ख्याता रत्नावती जने ॥

अस्याः स्तनौ गृहीत्वा त्वमधरं पिबसि द्रुतम् ॥

ततस्ते स्याद्विशुद्धिश्च नान्यथा प्रभविष्यति

॥२२॥

परावसुरुवाच

न वयस्या नर्मकालो विषमे मम संस्थिते ॥

ममोपरि यदि स्नेहो वालमित्रत्वसंभवः ॥

तदानीय द्विजानन्यान्वदध्वं निष्कृतिं मम

॥२३॥

अथ ते नर्ममुत्सृज्य तद्दुःखेन च दुःखिताः ॥

विश्वावसुं समासाद्य तद्वृत्तांतमथाब्रुवन्

॥२४॥

सोऽपि तेषां समाकर्ण्य तत्कर्णकटुकं वचः ॥

सभार्यः प्रययौ तत्र यत्र पुत्रो व्यवस्थितः

॥२५॥

दुःखेन महता युक्तः स्खलमानः पदेपदे ॥

वृद्धभावात्तथा शोकात्पुत्राकृत्यसमुद्भवात्

॥२६॥

ततस्तौ प्रोचतुः पुत्रं बाष्पगद्गदया गिरा ॥

दंपती बहुशोकार्तौ हा पुत्र किमिदं कृतम् ॥

सोऽपि सर्वं समाचख्यौ ताभ्यां वृतांतमात्मनः

॥२७॥

प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये ॥

ततो विश्वावसुर्विप्रान्स्मार्ताञ्छ्रुतिसमन्वितान् ॥

तदर्थमानयामास वेदविद्याविचक्षणान्

॥२८॥

ततः परावसुस्तेषां पुरः स्थित्वा कृतांजलिः ॥

प्रोवाच स्वादितं मद्यं मया रात्रावजानता ॥

वेश्या भांडं समादाय ज्ञात्वा निजकमंडलुम्

॥२९॥

एवं ज्ञात्वा यदर्हं च प्रायश्चित्तं प्रदीयताम् ॥

येन मे जायते शुद्धिः प्रसादाद्वो द्विजोत्तमाः

॥३॥

एवमुक्तास्ततस्तेन विप्रास्ते स्मृतिवादिनः ॥

धर्मशास्त्रं समालोक्य ततः प्रोचुश्च तं द्विजाः

॥३१॥

अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् ॥

प्रायश्चित्तमनर्हं तु ददत्तत्पापमश्नुते

॥३२॥

प्रायश्चित्तं प्रदास्यामस्तस्माद्युक्तं वयं तव ॥

यदि शक्नोषि तत्कर्तुं तत्कुरुष्व समाहितः

॥३३॥

परावसुरुवाच

करोमि वो न चेद्वाक्यं तत्पृच्छामि कुतो द्विजाः ॥

नाहं केनापि संदृष्टो मद्यपानं समाचरन्

॥३४॥

तस्माद्ब्रूत यथार्हं मे प्रायश्चित्तं विशुद्धये ॥

अपि प्राणहरं रौद्रं नो चेत्पापमवाप्स्यथ

॥३५॥

ब्राह्मणा ऊचुः

बुध्यमानो द्विजो यस्तु मद्यपानं समाचरेत् ॥

तावन्मात्रं हिरण्यं च तप्तं पीत्वा विशुध्यति

॥३६॥

अज्ञानतो यदा पीतं मद्यं विप्रेण कर्हिचित् ॥

अग्नितुल्यं घृतं पीत्वा तावन्मात्रं विशुध्यति

॥३७॥

एवं ते सर्वमाख्यातं प्रायश्चित्तं विशुद्धये ॥

यदि शक्तोषि चेत्कर्तुं कुरुष्व त्वं द्विजोत्तम

॥३८॥

परावसुरुवाच

गंडूषमेकं मद्यस्य मया पीतं द्विजोत्तमाः ॥

तावन्मात्रं पिबाम्येव घृतं वह्निसमं कृतम्

॥३९॥

युष्मदादेशतोऽद्यैव स्वशरीरविशुद्धये ॥

विश्वावसुश्च तच्छ्रुत्वा वज्रपातोपमं वचः

॥४०॥

विप्राणां चाथ पुत्रस्य तदोवाच सुदुःखितः ॥

कृत्वाश्रुमोक्षणं भूरि बाष्पगद्गदया गिरा

॥४१॥

सर्वस्वमपि दास्यामि पुत्रस्यास्य विशुद्धये ॥

प्रायश्चित्तं समाचर्तुं न दास्यामि कथंचन

॥४२॥

अश्राद्धेयो विपांक्तेयः सपुत्रो वा भवाम्यहम् ॥

स्थानं वा संत्यजाम्येतत्पुत्र मैवं समाचर

॥४३॥

तच्छ्रुत्वा वचनं तस्य पितुर्विघ्नकरं परम् ॥

प्रायश्चित्तस्य सस्नेहं पुत्रो वचनमब्रवीत्

॥४४॥

त्यज तात मम स्नेहं मा विघ्नं मे समाचर ॥

प्रायश्चित्तं करिष्यामि निश्चयोऽयं मया कृतः

॥४५॥

मातोवाच

यदि पुत्र त्वया कार्यं प्रायश्चित्तं विशुद्धये ॥

तदहं पतिना सार्धं प्रवेक्ष्यामि पुरोऽनलम्

॥४६॥

त्वां द्रष्टुं नैव शक्रोमि पिबंतमग्निवद्घृतम् ॥

पश्चात्प्राणपरित्यक्तं सत्येना त्मानमालभे

॥४७॥

पितोवाच

युक्तं पुत्रानया प्रोक्तं मात्रा तव हितं तथा ॥

ममापि संमतं ह्येतत्करिष्यामि न संशयः

॥४८॥

सूत उवाच

एतस्मिन्नंतरे सर्वे सुहृदस्तस्य ये स्थिताः १।

तच्छ्रुत्वा तं समायाता वृत्तांतं दुःखसंयुताः

॥४९॥

प्रोचुश्च विविधैर्वाक्यैः सपत्नीकं विभावसुम् ॥

पुत्रशोकेन संतप्तं मरणे कृतनिश्चयम्

॥५॥

पुत्रं प्रबोधयामासुः प्रायश्चित्तनिवृत्तये ॥

तदा न शक्नुवंति स्म निवर्तयितुमं जसा

॥५१॥

तावुभौ च पितापुत्रौ प्राणत्यागकृतादरौ

॥५२॥

ततो वास्तुपदं जग्मुः सर्वज्ञो यत्र तिष्ठति ॥

भर्तृयज्ञो महाभागः सर्वसंदेह वारकः

॥५३॥

तस्य सर्वं समाचख्युः परावसुसमुद्भवम् ॥

वृत्तांतं मद्यपानोत्थं यन्मित्रैस्तस्य कीर्तितम्

॥५४॥

प्रायश्चित्तं तु हास्येन यच्च स्मार्तैः प्रकीर्तितम् ॥

विश्वावसोश्च संकल्पं वह्निसाधनसंभवम्

॥५५॥

सपत्नीकस्य मित्राणां यच्च दुःखमुपस्थितम् ॥

निवेद्य तत्तथा प्रोचुर्भू योऽपिविनयान्वितम्

॥५६॥

अतीतं वर्तमानं च भविष्यद्वापि यद्भवेत् ॥

न तेऽस्त्यविदितं किंचित्सर्वं जानीमहे वयम्

॥५७॥

एतच्च नगरं सर्वं विश्वावसुकृतेऽधुना ॥

संशयं परमं प्राप्तं तेन प्राप्तास्तवांतिकम्

॥५८॥

तस्माद्ब्रूहि महाभाग यद्यस्त्यपरमेव हि ॥

प्रायश्चित्तं द्विजस्यास्य मद्यपानविशुद्धये

॥५९॥

न ते ह्यविदितं किंचित्तव वेदसमुद्भवम् ॥

भर्तृयज्ञो विहस्योच्चैस्ततो वचनमब्रवीत्

॥६०॥

ब्राह्मणस्यास्य शुद्ध्यर्थमप्ययुपायः सुखावहः ॥

विद्यमानोऽपि नास्त्येव मतिरेषा स्थिता मम

॥६१॥

ब्राह्मणा ऊचुः

पूर्वापरविरोधे नवाक्यमेतन्महामते ॥

कथमस्ति कथं नास्ति तस्मात्त्वं वक्तुमर्हसि ॥

विस्मयोऽयं महाञ्जातः सर्वेषां च द्विजन्मनाम्

॥६२॥

भर्तृयज्ञ उवाच

जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥

सर्वं भवति निश्छिद्रं यस्य चेच्छंति ब्राह्मणाः

॥६३॥

अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः ॥

विशेषान्नागरोद्भूतास्तत्तथैव न चान्यथा

॥६४॥

तथा च ब्रह्मशालायां संस्थितैर्यदुदाहृतम् ॥

नान्यथा तत्परिज्ञेयं हास्येनापि स्मृतिं विना

॥६५॥

स एष हास्यभावेन प्रोक्तो मित्रैः परावसुः

॥६६॥

रत्नवत्याः स्तनौ गृह्य यद्यास्वादयतेऽधरम् ॥

तद्भविष्यति मे शुद्धिर्मद्यपान समुद्भवा

॥६७॥

तदुपायो मया प्रोक्तो विप्रस्यास्य सुखावहः ॥

पराशरमतेनैव करोति यदि शुध्यति

॥६८॥

ब्राह्मणा ऊचुः

यद्येतच्छुणुते राजा वाक्यमीर्ष्यापरायणः ॥

तत्सर्वेषां वधं कुर्याद्विप्राणामन्यथा भवेत्

॥६९॥

तस्मात्करोतु चाभीष्टमेष विप्रः परावसुः ॥

मातापितृसमोपेतो वयं यास्यामहे गृहम्

॥७०॥

भर्तृयज्ञ उवाच

स राजा नीतिमान्विज्ञः सर्वधर्मपरायणः ॥

भक्तो देवद्विजानां च सर्वशास्त्र विचक्षणः

॥७१॥

तस्मान्मया समं सर्वे नागरायांतु तद्ग्रहे

॥७२॥

मध्यगं पुरतः कृत्वा तद्वक्त्रेण च तत्पुरः ॥

कथयंतु च वृत्तांतं मद्यपान समुद्भवम्

॥७३॥

परावसोश्च यत्प्रोक्तं वयस्यैर्हास्यमाश्रितैः ॥

पराशरसमुत्थं च यद्वाक्यं तत्स्मृतेः परम्

॥७४॥

तच्छ्रुत्वा यदि भूपाल ईर्ष्या लोभसमन्वितः ॥

भविष्यति ततोऽहं तं धारयिष्यामि सत्पथे

॥७५॥

सूतउवाच

ततस्ते नागराः सर्वे सन्तोषं परमं गताः ॥

साधुवादैः समभ्यर्च्य भर्तृयज्ञं पृथग्विधैः

॥७६॥

तेनैव सहितं तूर्णं मध्ये कृत्वा च मध्यगम् ॥

गर्त्तातीर्थसमुद्भूतं वेदवेदांगपारगम्

॥७७॥

स्मृतिज्ञं लक्षणज्ञं तमाहिताग्निं यशस्विनम् ॥

यष्टारं बहुयज्ञानां भर्तृयज्ञमते स्थितम्

॥७८॥

आनर्तेनापि भूपेन स्वर्गभ्रष्टेन वै पुरा ॥

कर्णोत्पलाजनित्रेण यश्च पूर्वं चिरन्तनः

॥७९॥

चमत्कारपुरे न्यस्तः स्थानेऽस्मिन्विप्रगौरवात् ॥

येन सिध्यंति कार्याणि सर्वेषां च द्विजन्मनाम्

॥८०॥

तथा चैव तु चान्यानि चमत्कारपुरस्य च ॥

हरिभद्राभिधानं तं भर्तृयज्ञसमन्वितम्

॥८१॥

कृत्वा ते नागराः सर्वे राजद्वारमुपागताः ॥

परावसुं समादाय मातापितृसमन्वितम्

॥८२॥

अथ द्वाःस्थो द्रुतं गत्वा भूपतेस्तान्न्यवेदयत् ॥

ब्राह्मणान्भर्तृयज्ञेन हरिभद्रेण संयुतान्

॥८३॥

आनर्तोऽपि च ताञ्छ्रुत्वा राजद्वारसमागतान् ॥

पुरोधसा समायुक्तः संमुखं प्रययौ तदा

॥८४॥

दत्त्वार्घं मधुपर्कं च विष्टरं गां तथा नृपः ॥

प्रथमं भर्तृयज्ञाय हरिभद्राय वै ततः

॥८५॥

चतुर्णां मुद्गहस्तानां तथान्येषां द्विजन्मनाम् ॥

आद्यऋग्यजुःसाम्नां च प्रगृह्याशीर्वचः परम्

॥८६॥

सभामंडपमासाद्य सर्वान्समुपवेशयत् ॥

वरासनेषु हैमेषु यथावदनुपूर्वशः

॥९७॥

तथा तेषूपविष्टेषु सर्वेषु पृथिवीपतिः ॥

उपविश्य धरापृष्ठे कृतांजलिर भाषत

॥८८॥

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे गृहमुपागतः ॥

सर्वोऽयं नागरो लोको भर्तृयज्ञसमन्वितः

॥८९॥

तदादिशतु मां लोको यत्कृत्यं प्रकरोमि वः ॥

अदेयमपि यच्छामि गृहायातस्य सांप्रतम्

॥९०॥

अगम्यमपि यास्यामि करिष्येऽकृत्यमेव च ॥

तच्छ्रुत्वा हरिभद्रः स समुत्थाय त्वरान्वितः

॥९१॥

पप्रच्छाद्यांस्तदर्थं च बह्वृचांस्तदनंतरम् ॥

अध्वर्यूंश्चैव छांदोग्याननुज्ञातश्च तैस्तदा

॥९२॥

प्राणरुद्रान्वदंत्वाद्या जीवसूक्तं च बह्वृचाः ॥

एषां चैव पृथिव्यादिसवनं यत्पुरा कृतम्

॥९३॥

पठन्त्वध्वर्यवः सर्वे छांदोग्याश्च पृथक्पृथक् ॥

मधुच्युतेन संयुक्तं प्रपठन्तु च सिद्धये

॥९४॥

भर्तृयज्ञमतेनैवं तेन प्रोक्ता द्विजोत्तमाः ॥

पप्रच्छुश्चैव तत्सर्वं यत्प्रोक्तं तेन धीमता

॥९५॥

ततः पाठावसाने तु मध्यगः प्राह सादरम् ॥

परावसुसमुद्भूतं वृत्तांतं तस्य भूपतेः

॥९६॥

यथा तेनाऽऽसवः पीतो यथा मित्रैः प्रजल्पितम् ॥

प्रायश्चित्तं समादिष्टं यथा स्मार्तैर्घृतोद्भवम्

॥९७॥

भर्तृयज्ञेन चानीता यथा सर्वे द्विजातयः ॥

तच्छ्रुत्वा पार्थिवो हृष्टः कृतांजलिपुटोऽब्रवीत्

॥९८॥

धन्योहं कृतपुण्योऽस्मि यस्य मे नागरैर्द्विजैः ॥

विप्रत्रयप्ररक्षार्थं प्रसादोऽयं महान्कृतः

॥९९॥

धन्या मे कन्यका चेयं रक्षयिष्यति च स्वयम् ॥

ब्राह्मणत्रितयं ह्येतन्मरणे कृतनिश्चयम्

॥१००॥

अथाऽसावानयामास तां कन्यां तत्क्षणाद्द्विजाः ॥

उपविष्टं सभामध्ये ब्राह्मणेभ्यो न्यवेदयत्

॥१०१॥

एषा कन्या मयानीता युष्मद्वाक्याद्द्विजोत्तमाः ॥

भर्तृयज्ञेन यत्प्रोक्तं तत्करोतु च स द्विजः

॥१०२॥

ततस्तत्र समानीय ब्राह्मण तं परावसुम् ॥

भर्तृयज्ञ इदं वाक्यं कन्यायाः पुरतोऽब्रवीत्

॥१०३॥

इमां त्वं कन्यकां चित्ते जननीं यदि मन्यसे ॥

अधरास्वादनं कुर्वंस्ततः सिद्धिमवाप्स्यसि

॥१०४॥

अनुरागपरो भूत्वा यद्यास्वादनतत्परः ॥

भविष्यति ततो रक्तं तव वक्त्रे परावसो

॥१०५॥

शुद्धस्य त्वथ दुग्धं च भविष्यति न संशयः

॥१०६॥

स्तनाभ्यां तव हस्ताभ्यां स्पर्शात्क्षीरं भवेद्यदि ॥

तत्ते शुद्धिः परिज्ञेया रक्तं वा न भविष्यति

॥१०७॥

एवमुक्त्वाथ तं कन्यां ततः प्रोवाच स द्विजः ॥

एनं त्वं पुत्रवत्पश्य पुत्रि ब्राह्मणसत्तमम्

॥१०८॥

येन शुद्धिमवाप्नोति त्वदोष्ठास्वादने कृते ॥

स्पर्शिताभ्यां स्तनाभ्यां च प्रायश्चित्तं यतः स्मृतम्

॥१०९॥

एतदस्य द्विजेंद्रस्य वयस्यैर्हास्यसंयुतैः ॥

येन शुद्धिमवाप्नोति नो चेन्मृत्युमवाप्स्यति

॥११०॥

सूत उवाच

सा तथेति प्रतिज्ञाय सव्रीडं तमुवाच ह ॥

एहि वत्स कुरुष्व त्वं प्रायश्चित्तं विशुद्धये

॥१११॥

मातृभावं समाधाय मया त्वं कल्पितः सुतः ॥

सोऽपि तां मातृवन्मत्वा तस्याः सांनिध्यमागतः

॥११२॥

स्पृष्टवांश्च स्तनौ तस्याः सर्वलोकस्य पश्यतः ॥

स्पृष्टाभ्यां च स्तनाभ्यां च तत्क्षणाद्द्विजसत्तमाः

॥११३॥

क्षीरधारे विनिष्क्रांते कुन्देंदुहिमसंनिभे ॥

[

॥११४॥

अथौष्ठास्वादनं यावत्तस्याः स कुरुते द्विजः ॥

तावत्क्षीरं विनिष्क्रांतं तादृग्रूपं तदाननात्

॥११५॥

एतस्मिन्नंतरे सर्वैस्ताला दत्ता द्विजातिभिः ॥

राज्ञाऽयं ब्राह्मणः शुद्धो वदमानैर्मुहुर्मुहुः

॥११६॥

सोऽपि प्रदक्षिणीकृत्य तां च कन्यां मुहुर्मुहुः [।

नमस्कृत्य क्षमस्वेति त्वं मातः पुत्रवत्सले

॥११७॥

तद्दृष्ट्वा महदाश्चर्यमानर्तो विस्मयान्वितः ॥

शशंस भतृयज्ञं तं प्रायश्चित्तप्रदायकम्

॥११८॥

अहोऽतीव सुभा ग्योऽहं यस्य मे गृहमागताः ॥

ईदृशा ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः

॥११९॥

तथा चैतादृशी कन्या ह्यसामान्यप्रवर्तिनी ॥

रत्नावती महाभागा सत्यशौचसमन्विता

॥१२०॥

तथाऽयं नैव सामान्यो ब्राह्मणश्च परावसुः ॥

यश्चेदृशीं समासाद्य कन्यां नो विकृतः स्थितः

॥१२१॥

एवमुक्त्वा विसृज्याथ तान्विप्रान्पार्थिवोत्तमाः ॥

तां च कन्यां समादाय ततश्चांतःपुरं ययौ

॥१२२॥

अथ ते नागराः सर्वे मर्यादां चक्रिरे ततः ॥

अद्यप्रभृति या वेश्या स्थानेऽस्मिन्वासमेष्यति

॥१२३॥

तया नैव गृहे धार्यं सुरामांसं कथंचन ॥

दूषयंति सदा दुष्टा नागराणां सुतानिह

॥१२४॥

अथ व्यवस्थामुत्क्रम्य या हि तद्धारयिष्यति ॥

सा दण्ड्यास्माच्च निर्वास्या प्रेत्य स्यात्पापभागिनी

॥१२५॥

औदुम्बर्या मध्यगेन दत्तं तालत्रयं तदा

॥१२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परावसुप्रायश्चित्तविधानवृत्तांतवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥