मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५१

3
नागरखण्डः · 251

इत्युक्त्वाऽऽकाशजावाणी विरराम शुभप्रदा

गालव उवाच

इत्युक्त्वाऽऽकाशजावाणी विरराम शुभप्रदा ॥

तेऽपि देवास्तदाश्चर्यं महद्दृष्ट्वा महाव्रताः

॥१॥

चतुष्टयं च वृक्षाणां चातुर्मास्ये समागते ॥

अपूजयंश्च विधिवदैक्यभावेन शूद्रज

॥२॥

चातुर्मास्येऽथ संपूर्णे देवो हरिहरात्मकः ॥

प्रसन्नस्तानुवाचाथ भक्त्या प्रत्यक्षरूपधृक्

॥३॥

यूयं गच्छत देवेश महा व्रतपरायणाः ॥

भुंक्त स्वान्स्वांश्चाधिकारान्मया ते दानवा हताः

॥४॥

इत्युक्त्वा देवदेवेशावैक्यरूपधरौ यदा ॥

गणानां देवतानां च बुद्धिं निर्भेदतां तदा

॥५॥

नयन्तौ तौ तदा चेशा बभूवतुररिन्दमौ ॥

तेऽपि देवा निराबाधा हृष्टचित्ता ह्यभेदतः

॥६॥

प्रययुः स्वांश्चाधिकारान्विमानगण कोटिभिः ॥

गालव उवाच ॥

तथा तत्रापि ते देवाः पार्वत्याः शापमोहिताः

॥७॥

स्तुत्वा तां बिल्वपत्रैश्च पूजयित्वा महेश्वरीम् ॥

प्रसन्नवदनां स्तुत्वा प्रणिपत्य पुनःपुनः

॥८॥

सा प्रोवाच ततो देवान्विश्वमाता तु संस्तुता ॥

मम शापो वृथा नैव भविष्यति सुरोत्तमाः

॥९॥

तथापि कृतपापानां करवाणि कृपां च वः ॥

स्वर्गे दृषन्मया नैव भविष्यथ सुरोत्तमाः

॥१०॥

मर्त्यलोकं च संप्राप्य प्रतिमासु च सर्वशः ॥

सर्वे देवाश्च वरदा लोकानां प्रभविष्यथ

॥११॥

पाणिग्रहेण विहिता ये कुमाराः कुमारिकाः ॥

तेषांतेषां प्रजाश्चैव भविष्यथ न संशयः

॥१२॥

इत्युक्त्वा सा भगवती देवतानां वरप्रदा ॥

विष्णुं महेश्वरं चैव प्रोवाच कुपिता भृशम्

॥१३॥

देवास्तस्या भयान्नष्टा मर्त्येषु प्रतिमां गताः ॥

भक्तानां मानसं भावं पूरयन्तः सुसंस्थिताः

॥१४॥

यस्माद्विष्णो महेशानस्त्वयाऽपि न निषेधितः ॥

तस्मात्त्वमपि पाषाणो भविष्यसि न संशयः

॥१५॥

हरोऽप्यश्ममयं रूपं प्राप्य लोकविगर्हितम् ॥

लिंगाकारं विप्रशापान्महद्दुःखमवाप्स्यति

॥१६॥

तच्छ्रुत्वा भगवान्विष्णुः पार्वतीमनुकूलयन् ॥

उवाच प्रणतो भूत्वा हरभार्यां महेश्वरीम्

॥१७॥

श्रीविष्णुरुवाच

महाव्रते महादेवि महादेवप्रिया सदा ॥

त्वं हि सत्त्वरजःस्था च तामसी शक्तिरुत्तमा

॥१८॥

मात्रात्रयसमोपेता गुणत्रयविभाविनी ॥

मायादीनां जनित्री त्वं विश्वव्यापकरूपिणी

॥१९॥

वेदत्रयस्तुता त्वं च साध्यारूपेण रागिणी ॥

अरूपा सर्वरूपा त्वं जनसन्तानदायिनी

॥२०॥

फलवेला महाकाली महालक्ष्मीः सरस्वती ॥

ओंकारश्च वषट्कारस्त्वमेव हि सुरेश्वरि

॥२१॥

भूतधात्रि नमस्तेऽस्तु शिवायै च नमोऽस्तु ते ॥

रागिण्यै च विरागिण्यै विकराले नमः शुभे

॥२२॥

एवं स्तुता प्रसन्नाक्षी प्रसन्नेनांतरात्मना ॥

उवाच परमोदारं मिथ्यारोषयुतं वचः

॥२३॥

मच्छापो नाऽन्यथा भावी जनार्दन तवाप्ययम् ॥

तत्राऽपि संस्थितस्त्वं हि योगीश्वरविमुक्तिदः

॥२४॥

कामप्रदश्च भक्तानां चातुर्मास्ये विशेषतः ॥

निम्नगा गंडकीनाम ब्रह्मणो दयिता सुता

॥२५॥

पाषाणसारसंभूता पुण्यदात्री महाजला ॥

तस्याः सुविमले नीरे तव वासो भविष्यति

॥२६॥

चतुर्विंशतिभेदेन पुराणज्ञैर्निरीक्षितः ।

मुखे जांबूनदं चैव शालग्रामः प्रकीर्तितः

॥२७॥

वर्त्तुलस्तेजसः पिंडः श्रिया युक्तो भविष्यसि ॥

सर्वसामर्थ्यसंयुक्तो योगिनामपि मोक्षदः

॥२८॥

ये त्वां शिलागतं विष्णुं पूजयिष्यंति मानवाः ॥

तेषां सुचिन्तितां सिद्धिं भक्तानां संप्रयच्छसि

॥२९॥

शिलागतं च देवेशं तुलस्या भक्ति तत्पराः ॥

पूजयिष्यंति मनुजास्तेषां मुक्तिर्न दूरतः

॥३०॥

शिलास्थितं च यः पश्येत्त्वां विष्णुं प्रतिमागतम् ॥

सुचक्रांकितसर्वांगं न स गच्छेद्यमालयम्

॥३१॥

गालव उवाच

इति ते कथितं सर्वं शालग्रामस्य कारणम् ॥

यथा स भगवान्विष्णुः पाषाणत्वमुपा गतः

॥३२॥

गोविन्दोऽपि महाशापं लब्ध्वा स्वभवनं गतः ॥

पार्वती च महेशानं कुपिता प्रणमय्य च ॥

एवं स एव भगवान्भवभूत भव्यभूतादिकृत्सकलसंस्थितिनाशनांकः ॥

सोऽपि श्रिया सह भवोऽपि गिरीशपुत्र्या सार्द्धं चतुर्षु च द्रुमेषु निवासमाप

॥३४॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैज वनोपाख्याने विष्णुशापोनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥