मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४४

3
नागरखण्डः · 144

चित्रांगदेश्वरफलवतीजाबाल्याख्यानवर्णनम्

सूत उवाच

सा गत्वा त्रिदिवं पश्चात्सहस्राक्षं सुरैर्युतम् ॥

प्रोवाच भगवन्दिष्ट्या क्षोभितोऽसौ महामुनिः

॥१॥

तपस्तस्य हतं कृत्स्नं यत्कृच्छ्रेण समाचितम् ॥

तथा निस्तेजसत्वं च नीतस्त्वं सुखभाग्भव

॥२॥

एवमुक्त्वाऽथ सा रंभा शंसिता निखिलैः सुरैः ॥

अमोघरेतसस्तस्य दध्रे गर्भं निजोदरे ।

जाबालिरपि कृत्वा च पश्चात्तापमनेकधा ॥

भूयस्तु तपसि स्थित्वा स्थितस्तत्रैव चाश्रमे

॥४॥

ततस्तु दशमे मासि संप्राप्ते सुषुवे शुभाम् ॥

कन्यां सरोजपत्राक्षीं दिव्यलक्षणलक्षिताम्

॥५॥

अथ तां मानुषोद्भूतां मत्वा तस्यैव चाश्रमम् ॥

गत्वा मुमोच प्रत्यक्षं तस्यर्षेश्चेदमब्रवीत्

॥६॥

तव वीर्यसमुद्भूतामेनां मज्जठरोषिताम् ॥

कन्यकां मुनिशार्दूल तस्मात्पालय सांप्रतम्

॥७॥

न स्वर्गे विद्यते वासो मानुषाणां कथंचन ॥

एतस्मात्कारणात्तुभ्यं मया ब्रह्मन्समर्पिता

॥८॥

एवमुक्त्वा ययौ रंभा सत्वरं त्रिदशालयम् ॥

जाबालिरपि तां दृष्ट्वा कन्यकां स्नेहमाविशत्

॥९॥

ततस्तां कन्यकां कृत्वा सुष्ठु गुप्ते लतागृहे ॥

रसैर्मिष्टफलोद्भूतैः पुपोष च दिवानिशम्

॥१०॥

सापि कन्या परां वृद्धिं शनैर्याति दिनेदिने ।

शुक्लपक्षं समासाद्य यथा चन्द्रकला दिवि

॥११॥

यथायथाथ सा याति वृद्धिं कमललोचना ॥

तथातथास्य सुस्नेहो जाबालेरप्यवर्धत ।

सा शिशुत्वे मृगैः सार्द्धं पक्षिभिश्च सुशोभना ॥

क्रीडां चक्रे सुविश्रब्धैर्वर्धयंती मुनेर्मुदम्

॥१३॥

ततो बाल्यं परित्यक्त्वा वल्कलावृतगात्रिका ॥

तस्यर्षेः सर्वकृत्येषु साहाय्यं प्रकरोति च

॥१४॥

समित्कुशादि यत्किंचित्फलपुष्पसमन्वितम् ॥

वनात्तदानयामास तस्य प्रीतिमवर्धयत्

॥१५॥

ततः कतिपयाहस्य फलार्थं सा मृगेक्षणा ॥

निदाघसमये दूरं स्वाश्रमात्प्रजगाम ह

॥१६॥

एतस्मिन्नंतरे तत्र विमानवरमाश्रितः ॥

प्राप्तश्चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम्

॥१७॥

तेन सा विजने बाला पूर्णचन्द्रनिभानना ॥

दृष्टा चांद्रमसी लेखा पतितेव धरातले

॥१८॥

ततः कामपरीतांगः सोवतीर्य धरातलम् ॥

विमानान्मधुरैर्वाक्यैस्तामुवाच कृतांजलिः

॥१९॥

का त्वं कमलगर्भाभा निर्जनेऽथ महावने ॥

भ्रमस्येकाकिनी बाले वनमध्ये सुलोचने

॥२०॥

कन्योवाच

अहं फलवतीनाम जाबालेर्दुहिता मुने ॥

फलपुष्पार्थमायाता तदर्थमिह कानने

॥२१॥

चित्रांगद उवाच

कुमारब्रह्मचारी स श्रूयते मुनिसत्तमः ॥

तत्कथं तस्य वामोरु त्वं जाता भार्यया विना

॥२२॥

कन्योवाच

सत्यमेतन्महाभाग नास्ति दारपरिग्रहः ॥

तस्यर्षेः किं तु संजाता यथा तन्मेऽवधारय

॥२३॥

रंभा नामाप्सरास्तेन पुरा दृष्टा सुरांगना ॥

ततः कामपरीतेन सेविता च यथासुखम्

॥२४॥

ततस्तदुदराज्जाता देवलोके महत्तरे ॥

तयापि चेह तस्यर्षेर्भूय एव नियोजिता

॥२५॥

एवं स मे पिता जातो जाबालिर्मुनिसत्तमः ॥

पोषिताऽहं ततस्तेन नानाफलसमुद्रवैः

॥२६॥

ततः फलवती नाम कृतं तेन महात्मना ॥

ममानुरूपमेतद्धि यन्मां त्वं परिपृच्छसि

॥२७॥

चित्रांगद उवाच

तव रूपं समालोक्य कामस्याहं वशं गतः ॥

तस्माद्भजस्व मां भीरु नो चेद्यास्यामि संक्षयम्

॥२८॥

अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥

तीर्थयात्राकृते प्राप्तः क्षेत्रेऽस्मिञ्छ्रद्धयाऽन्वितः

॥२९॥

कन्योवाच

कुमारधर्मिणी चाहमद्यापि वशगा पितुः ॥

कामधर्मं न जानामि चित्रांगद कथंचन

॥३०॥

तस्मात्प्रार्थय मे तातं स मां तुभ्यं प्रदास्यति ॥

अनुरूपाय योग्याय तरुणाय मनस्विनीम्

॥३१॥

ममापि रुचितं चित्ते तव वाक्यमिदं शुभम् ॥

धन्याहं यदि ते कण्ठमालिंगामि यथेच्छया

॥३२॥

चित्रांगद उवाच

न शक्नोमि महाभागे तावत्कालं प्रतीक्षितुम् ॥

मां दहत्येष गात्रोत्थः सुमहान्कामपावकः

॥३३॥

तस्मात्कुरु प्रसादं मे रतिदानेन शोभने ॥

को जानाति हि तच्चित्तं कीदृग्रूपं भविष्यति

॥३४॥

कन्योवाच

एवं ते वर्तमानस्य मम तातः प्रकोपतः ॥

दहिष्यति न संदेहः शापं दत्त्वा सुदारुणम्

॥३५॥

चित्रांगद उवाच

तव तातः स कालेन मां दहिष्यति मानदे ॥

कामानलः पुनः सद्य एष भस्म करिष्यति

॥३६॥

एवमुक्त्वाऽथ तां बालां वेपमानां त्रपावतीम् ॥

गृहीत्वा दक्षिणे पाणौ प्रविवेश सुरालयम्

॥३७॥

तत्र तां रमयामास तदा कामप्रपीडितः ॥

तत्कालजातरागांधां निर्लज्जत्वमुपागताम्

॥३८॥

एवं तस्याः समं तेन स्थिताया दिवसो गतः ॥

निमेषवन्मुनिश्रेष्ठास्ततश्चास्तं गतो रविः

॥३९॥

एतस्मिन्नंतरे विप्रो जाबालिर्दुःख संयुतः ॥

अनायातां सुतां ज्ञात्वा परिबभ्राम सर्वतः

॥४०॥

अहो सा दुहिता मह्यं किमु व्यालैः प्रभक्षिता ॥

वृक्षं कंचित्समारूढा पतिता धरणी तले

॥४१॥

किं वा जलाशयं कंचित्प्राप्य गाधमजानती ॥

निमग्ना तत्र सा बाला संप्रविष्टा जलार्थिनी

॥४२॥

एवं स प्रलपन्विप्रो बभ्राम गहने वने ॥

कुशकण्टकविद्धांगः क्षुत्पिपासासमाकुलः

॥४३॥

यंयं शृणोति शब्दं स मृगपक्षिसमुद्भवम् ॥

रजन्यां तत्र निर्याति मत्वा फलवतीं च ताम्

॥४४॥

अथ क्रमात्समायातो हरहर्म्यं स सन्मुनिः ॥

यत्र चित्रांगदोपेता सा संतिष्ठति कन्यका

॥४५॥

निःशंका जल्पमाना च रागवाक्यान्यनेकशः ॥

अनर्हाणि कुमारीणां ब्रह्मजानां विशेषतः

॥४६॥

ततः स सुचिरं श्रुत्वा दूरस्थो विस्मयान्वितः ॥

कुमार्याश्चेष्टितं दृष्ट्वा कोपसंरक्तलोचनः

॥४७॥

अथ दुद्राव वेगेन गृह्य काष्ठसमुच्चयम् ॥

द्वाभ्यामेव विनाशाय भर्त्समानो मुहुर्मुहुः

॥४८॥

धिग्धिक्पापसमाचारे कौमार्यं दूषितं त्वया ॥

लांछनं च समानीतं मम लोकत्रयेऽपि च

॥४९॥

नितरां पतिमासाद्य कर्मणानेन चाधमे ॥

तस्मादनेन पापेन युक्तां त्वां नाशयाम्यहम्

॥५०॥

एवमुक्त्वा प्रहारं स यावत्क्षिपति सन्मुनिः ॥

तावच्चित्रांगदो नष्टो व्योममार्गेण सत्वरम्

॥५१॥

विवस्त्रा सापि तत्रैव खिन्नांगी कामसेवया ॥

न शशाक क्वचिद्गंतुं समुत्थाय ततः क्षितौ

॥५२॥

ततः काष्ठप्रहारोघैर्हत्वा तां पतितां क्षितौ ॥

मृतामिति परिज्ञाय स क्रोधपरिवारितः

॥५३॥

ततश्चित्रांगदस्यापि ददौ शापं सुदारुणम् ॥

स दृष्ट्वाऽऽकाशमार्गेण गच्छमानं भयातुरम्

॥५४॥

य एष कन्यकां मह्यं धर्षयित्वा समुत्पतेत् ॥

स पतत्वचिरात्पापश्छिन्नपक्ष इवांडजः

॥५५॥

कुष्ठव्याधिसमायुक्तश्चलितुं नैव च क्षमः ॥

एतस्मिन्नन्तरे भूमौ स पपात नभस्तलात्

॥५६॥

कुष्ठव्याधिसमायुक्तः स च चित्रांगदो युवा ॥

ततस्तं स मुनिः प्राह काष्ठोद्यतकरः क्रुधा

॥५७॥

कस्त्वं पापसमाचार येन मे धर्षिता बलात् ॥

कुमारी तन्नयाम्येष त्वामद्य यम शासनम्

॥५८॥

चित्रांगद उवाच

अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥

तीर्थयात्राप्रसंगेन क्षेत्रेऽस्मिन्समुपागतः

॥५९॥

ततस्तु कन्यकां दृष्ट्वा कामदेववशं गतः

॥६०॥

ततः सेवितवानत्र लताहर्म्ये जनच्युते ॥

तस्मात्कुरु क्षमां मह्यं दीनस्य प्रणतस्य च

॥६१॥

यथा व्याधेर्भवेन्नाशो यथा स्याद्गगने गतिः ॥

भूयोऽपि त्वत्प्रसादेन स्वल्पः कोपो हि साधुषु

॥६२॥

जाबालिरुवाच

ईदृग्रूपधरस्त्वं हि मम वाक्याद्भविष्यसि ॥

एषापि मत्सुता पापा वस्त्रहीना सदेदृशी

॥६३॥

भविष्यति न संदेहो जीवयिष्यति चेत्क्वचित् ॥

यद्येषा धास्यति क्वापि वस्त्रं गात्रे निजे क्वचित्

॥६४॥

तन्नूनं च शिरोऽप्यस्याः फलिष्यति न संशयः ॥

एवमुक्त्वा विकोपश्च स जगाम निजाश्रमम्

॥६५॥

चित्रांगदोऽपि तत्रैव तया सार्धं तथा स्थितः ॥

कस्यचित्त्वथ कालस्य तत्र क्षेत्रे समाययौ

॥६६॥

चैत्रशुक्लचतुर्दश्यां भगवाञ्छशिशेखरः ॥

गन्तुं चित्रेश्वरे पीठे गणै रौद्रैः समावृतः ॥

योगिनीभिः प्रचण्डाभिः सार्धं प्राप्ते निशामुखे

॥६७॥

अथ प्राप्ते निशार्धे तु योगिन्यस्ताः सुदारुणाः ॥

महामांसं महामांसमित्यूचुर्भक्षणाय वै

॥६८॥

नृत्यमानाः पुरस्तस्य देवदेवस्य शूलिनः ॥

सस्पर्धा गणमुख्यैस्तैर्नर्तमानैः समंततः

॥६९॥

यस्तत्र समये तासां महामांसं प्रयच्छति ॥

मंत्रपूतं स संसिद्धिं समवाप्नोति वांछिताम्

॥७०॥

मद्यं मांसं तथा चान्यन्नैवेद्यं वा फलादिकम् ॥

तस्य सिद्धिः समादिष्टा यथा स्वहृदये स्थिता

॥७१॥

एतस्मिन्नंतरे कन्या सा जाबालिसमुद्भवा ॥

स च चित्रांगदस्तत्र गत्वा प्रोवाच सादरम्

॥७२॥

अस्मदीयमिदं मांसं योगिन्यो हर्षसंयुताः ॥

भक्षयन्तु यथासौख्यं स्वयमेव प्रकल्पितम्

॥७३॥

अथ तं पुरुषं दृष्ट्वा कुष्ठव्याधिसमावृतम् ॥

विवस्त्रां कन्यकां तां च सर्वास्ता विस्मयान्विताः

॥७४॥

ते च सर्वे गणा रौद्राः स च देवस्त्रिलोचनः ॥

पप्रच्छ कौतुकाविष्टस्तत्र चित्रांगदं प्रभुः

॥७५॥

कस्त्वं धैर्यसमायुक्तो महत्सत्त्वे व्यवस्थितः ॥

यः प्रयच्छसि जीवं त्वं कीटस्यापि सुवल्लभम्

॥७६॥

केयं च वसनैंर्हीना त्वया सार्धं गतव्यथा ॥

प्रयच्छति निजं देहं यद्देयं नैव कस्यचित्

॥७७॥

सूत उवाच

ततः स कथयामास सर्वमात्मविचेष्टितम् ॥

यथा कन्यासमं संगः कृतः शापश्च सन्मुनेः

॥७८॥

ततश्चित्रांगदं दृष्ट्वा स गन्धर्वं दिवौकसाम् ॥

तथारूपं कृपाविष्टस्ततः प्रोवाच शंकरः

॥७९॥

मम संदर्शनं प्राप्य न मृत्युर्जायते क्वचित् ॥

न वृथा दर्शनं चैतत्तस्मात्प्रार्थय सादरम्

॥८०॥

चित्रांगद उवाच

व्याधिनाऽहं सुनिर्विण्णस्तेन देवात्र चागतः ॥

येन व्याधिक्षयो भावी देहनाशेन शंकर

॥८१॥

तस्मात्कुरु क्षयं व्याधेर्यदि यच्छसि मे वरम् ॥

खेचरत्वं पुनर्देहि येन स्वर्गं व्रजाम्यहम्

॥८२॥

श्रीशंकर उवाच

त्वं स्थापयात्र मल्लिंगं पीठे गन्धर्वसत्तम ॥

ततश्चाराधय प्रीत्या यावद्वर्षमुपस्थितम्

॥८३॥

यथायथा सुपूजां त्वं मल्लिंगस्य करिष्यसि ॥

दिनेदिने तथा व्याधेस्तव नाशो भविष्यति

॥८४॥

ततस्तु खे गतिं प्राप्य पुनः स्वर्गं प्रयास्यसि ॥

मत्प्रसादान्न सन्देहः सत्यमेतन्मयोदितम्

॥८५॥

एषापि कन्यका यस्मात्प्रविष्टा पीठमध्यतः ॥

तस्मात्फलवतीनाम योगिनी सम्भविष्यति

॥८६॥

अनेनैव तु रूपेण नग्नत्वेन व्यवस्थिता ॥

मुख्यामवाप्स्यते पूजां वांछितं च प्रदास्यति ॥

पूजकानां स्थितं चित्ते शतसंख्यगुणं तदा

॥८७॥

एतां संपूजयेन्मर्त्यः पीठमेतत्ततः परम् ॥

पूजयिष्यति तस्येष्टा सिद्धिरेवं भविष्यति

॥८८॥

एवमुक्त्वा ततः साऽथ हर्षेण महताऽन्विता ॥

योगिनीवृंदमध्यस्था नृत्यं चक्रे ततः परम् ॥

८९ एवं बभूव सा तत्र योगिनी च वरांगना ॥

तथा चक्रे परं नृत्यं यथा तुष्टो महेश्वरः

॥९०॥

ततः प्रोवाच तां हृष्टः सर्वयोगिनिसंनिधौ ॥

अनेन तव नृत्येन गीतेन च विशेषतः

॥९१॥

परितुष्टोस्मि ते वत्से तस्माच्छृणु वचो मम ॥

निशीथेऽद्य दिने प्राप्ते यस्ते पूजां करिष्यति

॥९२॥

सुरा मांसान्नसत्कारैर्मंत्रैरागमसंभवैः ॥

स भविष्यति तत्कालं शापानुग्रहशक्तिमान्

॥९३॥

बंधनं मोहनं चापि शत्रोरुच्चाटनं तथा ॥

करिष्यति न सन्देहो वशीकरणमेव च

॥९४॥

त्रिकोणं कुण्डमास्थाय दिशां पालान्प्रपूजयेत् ।

क्षेत्रपालं च सर्वास्ता देवता गमनोद्भवाः

॥९५॥

तथा चत्वरपूजां च प्रकृत्वा विधिपूर्वकम् ॥

पश्चात्त्वां पूजयित्वा च होमं यश्च करिष्यति

॥९६॥

शत्रुवामपदोत्थेन स्पृष्टेन रजसाऽथवा ॥

गुग्गुलेन सहस्रांतं स्तंभनं च करिष्यति

॥९७॥

यश्च शत्रुं हृदि स्थाप्य शत्रूद्वर्तनसंभवम् ॥

मलं धात्रीफलैः सार्धं मोहनं स करिष्यति

॥९८॥

यः शत्रोः स्नानजं तोयं गृहीत्वा चाथ कर्दमम् ॥

शिवनिर्माल्यसंयुक्तं जुह्वयिष्यति पावके

॥९९॥

तवाग्रे स नरो नूनं शत्रुमुच्चाटयिष्यति ॥

एषोपि तव संगेन तव चित्रांगदः प्रियः ॥

संप्राप्स्यति च सत्पूजामनुषंगात्त्वदुद्भवात्

॥१००॥

फलवत्युवाच

यदि देव प्रसन्नो मे तथान्यमपि सद्वरम्

॥१०१॥

हृदिस्थं देहि मे सौख्यं येन संजायतेऽखिलम् ॥

पिता ममैष जाबालिर्निर्मुक्तो वसनैः सदा

॥१०२॥

अहं यथा तथात्रैव संतिष्ठतु दिवानिशम् ।

येन संतापमायाति पश्यन्मम विरोधिनीम्

॥१०३॥

क्रीडां ब्राह्मणवंशस्य मद्यमांससमुद्भवाम् ॥

मद्यगन्धं समाघ्राति मांसं पश्यति संस्कृतम् ॥

मां स्वच्छंदरतां नित्यं दुःखं याति दिनेदिने

॥१०४॥

श्रीभगवानुवाच

एवं भविष्यति प्रोक्तं संजातं चाधुना शुभे ॥

अहं यास्यामि कैलासं त्वं तिष्ठात्र यथोदिता

॥१०५॥

सूत उवाच

एवं स भगवान्प्रोक्त्वा गतश्चादर्शनं हरः ॥

योगिन्यश्चैव ताः सर्वाः स्वेस्वे स्थाने व्यवस्थिताः

॥१०६॥

चित्रांगदोपि तत्रैव कृत्वा प्रासादमुत्तमम् ॥

लिंगं संस्थापयामास देवदेवस्य शूलिनः

॥१०७॥

ततश्चाराधयामास दिवारात्रमतंद्रितः

॥१०८॥

ततः संवत्सरस्यांते व्याधिमुक्तः सुरूपधृक् ॥

विमानवरमारूढो जगाम त्रिदशालयम् ॥

सोऽपि जाबालिनामाथ विवस्त्र समपद्यत

॥१०९॥

जनहास्यकरो लोके स्थितस्तत्रैव सर्वदा ॥

पश्यमानो विकारांस्तान्दुःखितः स्वसुतोद्भवान्

॥११०॥

ततश्च गर्हयामास स्त्रीणां जन्म महामुनिः ॥

तस्मिन्पीठे समासाद्य दुःखेन महताऽन्वितः

॥१११॥

अहो पापात्मनां पुंसां संभविष्यंति योषितः ॥

यासामीदृक्समाचारो द्विजवंशोद्भवास्वपि

॥११२॥

सकृदेव मया संगः कृतो नार्या समन्वितः ॥

आजन्ममरणं यावत्पापं प्राप्तं यथेदृशम्

॥११३॥

ये पुनस्तासु संसक्ताः सदैव पुरुषाधमाः ॥

का तेषां जायते लोके गतिर्वेद्मि न चिंतयन्

॥११४॥

एवं तस्य ब्रुवाणस्य योगिन्यस्ताः क्रुधान्विताः ॥

तमूचुर्ब्राह्मणं तत्र घृणया परिवारितम्

॥११५॥

योगिन्य ऊचुः

मा निंदां कुरु मूढात्मंस्त्वं स्त्रीणां योगमाश्रितः ॥

एतच्चराचरं विश्वं स्त्रीभिः संधार्यते यतः

॥११६॥

याभिः संजनितः शेषः कूर्मश्च तदनंतरम् ॥

याभ्यां संधार्यते पृथ्वी यस्यां विश्वं प्रतिष्ठितम्

॥११७॥

धन्येयं ते सुता मूढ या प्राप्ता योगमुत्तमम् ॥

प्राप्ता च परमं स्थानं स्तोकैरेवात्र वासरैः

॥११८॥

त्वं पुनर्मूर्खतां प्राप्तश्छांदसं मार्गमास्थितः ॥

अविद्यया समायुक्तः संसारेऽत्र भ्रमिष्यसि

॥११९॥

मुनिरुवाच

स्त्रियो निंद्यतमाः सर्वाः सर्वावस्थासु दुःखदाः ॥

इहलोके परे चैव ताभ्यः सौख्यं न लभ्यते

॥१२०॥

यदर्थं निहतः शुम्भो निशुम्भश्च महासुरः ॥

रावणो दण्डभूपश्च तथान्येऽपि सहस्रशः

॥१२१॥

प्राप्य तादृग्द्विजं कांतं गौतमं स्त्रीस्वभावतः ॥

अहिल्या शक्रमासाद्य चकमे शीलवर्जिता

॥१२२॥

कन्योवाच

यच्च निंदसि मूढात्मन्संति निंद्याश्च योषितः ॥

तद्वदस्व मया सार्धं येन त्वां बोधयाम्यहम्

॥१२३॥

न तेऽस्ति हृदये बुद्धिर्न लज्जा न दया मुने ॥

किमंत्यजोऽपि तत्कर्म कुरुते यत्त्वया कृतम्

॥१२४॥

अहं तावत्प्रहारेण त्वया व्यापादिताऽधम ॥

स्त्रीहत्योद्भवपापस्य न चिन्ता विधृता हृदि

॥१२५॥

विशेषेण सुतायाश्च कोपाविष्टेन चेतसा ॥

गच्छंति पातकान्यत्र प्रायश्चित्तैः पृथग्विधैः

॥१२६॥

स्त्रीवधोत्थं पुनर्याति यदि तत्त्वं प्रकीर्तय ॥

एतन्मे न च दुःखं स्याद्यद्धतास्मि द्विजाधम

॥१२७॥

यच्छप्ता नग्नसद्भावं नीता तत्पातकं च ते ॥

कल्पांतेऽपि सुदुर्बुद्धे न संयास्यति कुत्रचित्

॥१२८॥

तस्माद्भुंक्ष्व सुदुःखार्तः स्थितोऽत्रैव मया सह ॥

न भूयो निंदसि प्रायो न च व्यापादयिष्यसि

॥१२९॥

अनिंद्या योषितः सर्वा नैता दुष्यंति कर्हिचित् ॥

मासिमासि रजो ह्यासां दुष्कृतान्यपकर्षति

॥१३०॥

मुनि रुवाच

स्त्रियः पापसमाचारा नैताः शुध्यंति कर्हिचित् ॥

परकांते रतिर्यासामंत्यजत्वं प्रयच्छति

॥१३१॥

कन्योवाच

मा मैवं वद मूढात्मन्नमेध्या इति योषितः ॥

अत्र श्लोकः पुरा गीतो मनुना तं निबोध मे

॥१३२॥

ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ॥

अजाश्वा मुखतो मेध्या स्त्रियो मेध्याश्च सर्वतः

॥१३३॥

मुनिरुवाच

ब्राह्मणाः सर्वतो मेध्या गावो मेध्याश्च सर्वतः ॥

अजाश्वा मुखतो मेध्या न मेध्याश्च स्त्रियः क्वचित्

॥१३४॥

कन्योवाच

तस्य चिंतामणिर्हस्ते तस्य कल्पद्रुमो गृहे ॥

कुबेरः किंकरस्तस्य यस्य स्यात्कामिनी गृहे

॥१३५॥

मुनिरुवाच

तस्यापदोऽखिला दुःखं दुःखं तस्याखिलं गृहे ॥

नरकः सर्वतस्तस्य यस्य स्यात्कामिनीगृहे

॥१३६॥

कन्योवाच

यानि कान्यत्र सौख्यानि भोगस्थानानि यानि च ॥

धर्मार्थकामजातानि तानि स्त्रीभ्यो भवंति हि

॥१३७॥

मुनिरुवाच

यानि कानि सुदुःखानि क्लेशानि यानि देहिनाम् ॥

यानि कष्टान्यनिष्टानि स्त्रीभ्यस्तानि भवंति च

॥१३८॥

कन्योवाच

धर्मार्थकाममोक्षान्स्त्री चतुरोऽपि चतसृभिः ॥

वह्निप्रदक्षिणाभिस्तान्विवाहेऽपि प्रदर्शयेत्

॥१३९॥

मुनिरुवाच

संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥

वह्निप्रदक्षिणान्यायव्याजेनैव प्रदर्शयेत्

॥१४०॥

कन्योवाच

के नाम न विरज्यंति ज्ञानाढ्या अपि मानवाः ॥

कर्णांतलग्ननेत्रांतां दृष्ट्वा पीन पयोधराम्

॥१४१॥

मुनिरुवाच

के नाम न विनश्यंति मूढज्ञाना नितंबिनीम् ॥

रम्यबुद्ध्योपसर्पंति ये ज्वालाः शलभा इव

॥१४२॥

कन्योवाच

निर्मुखौ च कठोरौ च प्रोद्धतौ च मनोरमौ ॥

स्त्रीस्तनौ सेवते धन्यो मधुमांसे विशेषतः

॥१४३॥

मुनिरुवाच

आभोगिनौ मंडलिनौ तत्क्षणान्मुक्तकंचुकौ ॥

वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ

॥१४४॥

कन्योवाच

न चासां रचनामात्रं केवलं रम्यमंगिभिः ।

परिष्वंगोऽपि रामाणां सौख्याय पुलकाय च

॥१४५॥

मुनिरुवाच

न चासां रचनामात्रं रम्यं स्यात्पापदं दृशः ॥

वपुः स्पृष्टं विनाशाय स्त्रीणां प्रेत्य नरकाय च

॥१४६॥

कन्योवाच

को नाम न सुखी लोके को नाम सुकृती न च ॥

स्पृहणीयतमः को न स्त्रीजनो यस्य रज्यते

॥१४७॥

मुनिरुवाच

को न मुक्तिं व्रजेत्तत्र को न शस्यतरो भवेत् ॥

को न स्यात्क्षेमसंयुक्तः स्त्रीजने यो न रज्यते

॥१४८॥

कन्योवाच

संसारांतः प्रसुप्तस्य कीटस्यापि प्ररोचते ॥

स्त्रीशरीरं नरस्यात्र किं पुनर्न विवेकिनः

॥१४९॥

मुनिरुवाच

अमेध्यजा तस्य यथा तथा तद्रोचनं कृमेः ॥

तथा संसारसूतस्य स्त्रीशरीरं च कामिनः

॥१५०॥

कन्योवाच

सौख्यस्थानं नृणां किंचिद्वेधसा ऽन्यदपश्यता ॥

शाश्वतं चिंतयित्वाथ स्त्रीरत्नमिदमाहृतम्

॥१५१॥

मुनिरुवाच

बंधनं जगतः किंचिद्वेधसाऽन्यदपश्यता ॥

स्त्रीरूपेण ततः कोपि पाशोऽयं स्त्रीमयः कृतः ॥

सूत उवाच ॥

एवं स मुनिशार्दूलस्तयातीव समागमे ॥

निरुत्तरीकृतो यावत्ततः प्राह निजां सुताम्

॥१५३॥

मुनिरुवाच

त्वया सह न संवादो मया कार्योऽधुना क्वचित् ॥

या त्वं बालापि मामेवं निषेधयसि सर्वतः

॥१५४॥

तस्माद्धन्यतरं मन्ये अहमात्मानमद्य वै ॥

यस्य मे त्वं सुता ईदृगीदृक्छास्त्रविचक्षणा

॥१५५॥

तस्मान्न मे महाभागे कोपः स्वल्पोऽपि विद्यते ॥

तस्माद्यथेच्छया क्रीडां कुरु योगिनिमध्यगा

॥१५६॥

ततः सा लज्जिता दृष्ट्वा पितरं स्नेहवत्सलम् ।

प्रणिपत्य पुनःप्राह योगिनीमध्यसंस्थिता

॥१५७॥

अज्ञानाद्यदि वा ज्ञानात्त्वं निषिद्धो मया प्रभो ॥

क्षंतव्यं सकलं मेऽद्य वालिकाया विशेषतः

॥१५८॥

अत्र पीठे समागत्य प्रथमं ते द्विजोत्तमाः ॥

पूजां सर्वे करिष्यंति मानवा भक्तितत्पराः ॥

पश्चाच्च सर्वपीठस्य यास्यंति च परां गतिम्

॥१५९॥

एवं सा तत्र संजाता जाबालिमुनिसंभवा ॥

जाबालिश्च मुनिश्रेष्ठस्तथा चित्रांगदेश्वरः

॥१६०॥

त्रयाणामपि यस्तेषां पूजां मर्त्यः समाचरेत् ॥

दिवसेदिवसे तत्र स सिद्धिं समवाप्नुयात्

॥१६१॥

नासाध्यं विद्यते किंचित्तावदत्र धरातले ॥

पूज्यते भूमिपालाद्यैर्भोगान्दिव्यांस्तथा लभेत्

॥१६२॥

तस्मात्सर्वप्रयत्नेन स मुनिः सा च कन्यका ॥

पूजनीया विशेषेण स देवोऽथ महेश्वरः

॥१६३॥

एतद्वः सर्वमाख्यातमाख्यानं सर्वकामदम् ॥

पठतां शृण्वतां चैव इहलोके परत्र च

॥१६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रांगदेश्वरफलवतीजाबाल्याख्यानवर्णनंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४४ ॥