इष्टवस्तुपरित्यागमहिमवर्णनम्
ब्रह्मोवाच
इष्टवस्तुप्रदो विष्णुर्लोकश्चेष्टरुचिः सदा ॥
तस्मात्सर्वप्रयत्नेन चातुमास्ये त्यजेच्च तत्
॥१॥नारायणस्य प्रीत्यर्थं तदेवाक्षय्यमाप्यते ॥
मर्त्यस्त्यजति श्रद्धावान्सोऽनंतफलभाग्भवेत्
॥२॥कांस्यभाजनसंत्यागाज्जायते भूपतिर्भुवि ॥
पालाशपत्रे भुञ्जानो ब्रह्मभूयस्त्वमश्नुते
॥३॥ताम्रपात्रे न भुञ्जीत कदाचिद्वा गृही नरः ॥
चातुर्मास्ये विशेषेण ताम्रपात्रं विवर्जयेत्
॥४॥अर्कपत्रेषु भुञ्जानोऽनुपमं लभते फलम् ॥
वटपत्रेषु भोक्तव्यं चातुर्मास्ये विशेषतः
॥५॥अश्वत्थपत्रसंभोगः कार्यो बुधजनैः सदा ॥
एकान्नभोजी राजा स्यात्सकलं भूमिमण्डले
॥६॥तथा च लवणत्यागात्सुभगो जायते नरः ॥
गोधूमान्नपरित्यागाज्जायते जनवलभः
॥७॥अशाकभोजी दीर्घायुश्चातुर्मास्येऽभिजायते ॥
रसत्यागान्महाप्राणी मधुत्यागात्सुलोचनः
॥८॥मुद्गत्यागाद्रिपुमृती राजमाषाद्धनाढ्यता ॥
अश्वाप्तिस्तंडुलत्यागाच्चातुर्मास्येऽभिजायते
॥९॥फलत्यागाद्बहुसुतस्तैलत्यागात्सुरूपिता ॥
ज्ञानी तुवरिसंत्यागाद्बलं वीर्यं सदैव हि
॥१०॥मार्गमांसपरित्यागान्नरकं न च पश्यति ॥
शौकरस्य पीरत्यागाद्ब्रह्मवासमवाप्नुयात्
॥११॥ज्ञानं लावकसन्त्यागादाज्यत्यागे महत्सुखम् ॥
आसवं सम्परित्यज्य मुक्तिस्तस्य न दुर्लभा
॥१२॥सबलः कनकत्यागाद्रूप्यत्यागेन मानुषः
॥६९॥दधिदुग्धपरित्यागी गोलोके सुख भाग्भवेत् ॥
१३ ब्रह्मा पायससंत्यागात्क्षिप्रात्यागान्महेश्वरः ॥
कन्दर्पोऽपूपसंत्यागान्मोदकत्याजकः सुखी
॥१४॥गृहाश्रमपरित्यागी बाह्या श्रमनिषेवकः ॥
चातुर्मास्यं हरिप्रीत्यै न मातुर्जठरे शिशुः
॥१५॥नृपो मरीचसंत्यागाच्छुण्ठीत्यागेन सत्कविः ॥
शर्करायाः परित्यागाज्जायते राजपूजितः
॥१६॥गुडत्यागान्महाभूतिस्तथा दाडिमवर्जनात् ॥
रक्तवस्त्रपरित्यागाज्जायते जनवल्लभः
॥१७॥पट्टकूलपरित्यागादक्षय्यं स्वर्ग माप्नुयात् ॥
माषान्नचणकान्नस्य त्यागान्नैव पुनर्भवः
॥१८॥कृष्णवस्त्रं सदा त्याज्यं चातुर्मास्ये विशेषतः ॥
सूर्यसंदर्शनाच्छुद्धिर्नीलवस्त्रस्य दर्शनात्
॥१९॥चंदनस्य परित्यागाद्गांधर्वं लोकमश्नुते ॥
कर्पूरस्य परित्यागाद्यावज्जीवं महाधनी
॥२०॥कुसुम्भस्य परित्यागान्नैव पश्येद्यमाल यम् ॥
केशरस्य परित्यागान्मनुष्यो राजवल्लभः
॥२१॥यक्षकर्दमसंत्यागाद्ब्रह्मलोके महीयते ॥
ज्ञानी पुष्पपरित्यागाच्छय्यात्यागे महत्सु खम्
॥२२॥भार्यावियोगं नाप्नोति चातुर्मास्ये न संशयः ॥
अलीकवादसंत्यागान्मोक्षद्वारमपावृतम्
॥२३॥परमर्मप्रकाशश्च सद्यःपापसमा गमः ॥
चातुर्मास्ये हरौ सुप्ते परनिन्दां विवर्जयेत्
॥२४॥परनिन्दा महापापं परनिन्दा महाभयम् ॥
परनिन्दा महद्दुःखं न तस्यां पातकं परम्
॥२५॥केवलं निन्दने चैव तत्पापं लभते गुरु ॥
यथा शृण्वान एव स्यात्पातकी न ततः परः
॥२६॥केशसंस्कारसंत्यागात्तापत्रयविवर्जितः ॥
नखरोमधरो यस्तु हरौ सुप्ते विशेषतः
॥२७॥दिवसेदिवसे तस्य गंगास्नानफलं भवेत्
॥२५॥सर्वोपायैर्विष्णुरेव प्रसाद्यो योगिध्येयः प्रवरैः सर्ववर्णेः ॥
विष्णोर्नाम्ना मुच्यते घोरबन्धाच्चातुर्मास्ये स्मर्यतेऽसौ विशेषात्
॥२९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिता यां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवाद इष्टवस्तुपरित्यागमहिमवर्णनंनाम षट्त्रिंशदुत्तरद्वि शततमोऽध्यायः ॥ २३६ ॥