तीर्थमाहात्म्यवर्णनम्
ऋषय ऊचुः
अन्यानि तत्र तीर्थानि यानि संति महामते ॥
तानि कीर्तय सर्वाणि परं कौतूहलं हि नः
॥१॥सूत उवाच
तत्र सारस्वतं तीर्थमन्यदस्ति सुशोभनम् ॥
यत्र स्नातोऽतिमूकोऽपि भवेद्वाक्यविचक्षणः
॥२॥लभते चेप्सितान्कामान्मानुषान्दैविकानपि ॥
ब्रह्मलोकादिपर्यतांस्तथालोकान्द्विजोत्तमाः
॥३॥पुरासीत्पार्थिवो ना्ना विख्यातो बलवर्धनः ॥
समुद्रवलयामुर्वीं बुभुजे यो भुजार्जिताम्
॥४॥तस्य पुत्रः समुत्पन्नः सर्वलक्षणसंयुतः ॥
तस्य नाम पिता चक्रे संप्राप्ते द्वादशेऽहनि ॥
अम्बुवीचिरिति स्पष्टं समाहूय द्विजोत्तमान्
॥५॥ततः स ववृधे बालो लालितस्तेन भूभुजा ॥
मूकभावं समापन्नो न शक्रोति प्रजल्पितुम्
॥६॥ततोऽस्य सप्तमे वर्षे संप्राप्ते बलवर्धनः ॥
पंचत्वं समनुप्राप्तः संग्रामे शत्रुभिर्हतः
॥७॥ततो मूकोऽपि बालोपि मंत्रिभिस्तस्य भूपतेः ॥
स सुतः स्थापितो राज्ये अभावेऽन्यसुतस्य च
॥८॥एवं तस्य महीपस्य राज्यस्थस्य जडात्मनः ॥
बालत्वे वर्तमानस्य राज्यं विप्लवमध्यगात्
॥९॥ततो जलचरन्यायः संप्रवृत्तो महीतले ॥
पीड्यंते सर्वलोकास्तु दुर्बला बलवत्तरैः
॥१०॥ततस्ते मंत्रिणः प्रोचुर्वसिष्ठं स्वपुरोहितम् ॥
वचोऽर्थं नृपतेरस्य कुरूपायं महामुने
॥११॥पश्य कृत्स्नं धरापृष्ठे शून्यतां समुपस्थितम् ॥
जडत्वान्नृपतेरस्य तस्मात्कुरु यथोचितम्
॥१२॥ततस्तु सुचिरं ध्यात्वा दीनान्प्रोवाच मंत्रिणः ॥
सर्वानार्तिसमोपेताञ्छृण्वतस्तस्य भूपतेः
॥१३॥अस्ति सारस्वतं तीर्थं सर्वकामप्रदं नृणाम् ॥
हाटकेश्वरजे क्षेत्रे तत्रायं स्नातु भूपतिः
॥१४॥अथ तद्वचनात्सद्यः स गत्वा तत्र सत्वरम् ॥
स्नानात्तीर्थेऽथ संजातस्तत्क्षणात्स कल स्वनः
॥१५॥तत्प्रभावं सरस्वत्याः स विज्ञाय महीपतिः ॥
श्रद्धया परया युक्तो ध्यायमानः सरस्वतीम्
॥१६॥ततस्तूर्णं समादाय मृत्तिकां स नदीतटात् ॥
चकार भारतीं देवीं स्वयमेव चतुर्भुजाम्
॥१७॥दधतीं दक्षिणे हस्ते कमलं सुमनोहरम् ॥
अक्षमालां तथान्यस्मिञ्जिततारक वर्चसम्
॥१८॥कमण्डलुं तथान्यस्मिन्दिव्यवारिप्रपूरितम् ॥
पुस्तकं च तथा वामे सर्वविद्यासमुद्भवम्
॥१९॥ततो मेध्ये शिलापृष्ठे तां निवेश्य प्रयत्नतः ॥
पूजयामास सद्भक्त्या धूपमाल्पानुलेपनैः
॥२०॥चकार च स्तुतिं पश्चाच्छ्रद्धापूतेन चेतसा ॥
तदग्रे प्रयतो भूत्वा स्वरेण महता नृपः
॥२१॥सदसद्देवि यत्किञ्चिद्बन्धमोक्षात्मकं पदम् ॥
तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना
॥२२॥सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता ॥
वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षुषि
॥२३॥भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये ॥
शरणागतदीनार्तपरित्राणपरायणे
॥२४॥त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता ॥
त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी
॥२५॥तुष्टिः पुष्टिर्वपुः प्रीतिः स्वधा स्वाहा विभावरी ॥
रतिः प्रीतिः क्षितिर्गंगा सत्यं धर्मो मनस्विनी
॥२६॥लज्जा शांतिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी ॥
सिनीवाली कुहू राका देवमाता दितिस्तथा
॥२७॥ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा ॥
गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला
॥२८॥बलानाडी तुष्टिकाष्ठा रसना च सरस्वती ॥
यत्किञ्चित्त्रिषु लोकेषु बहुत्वाद्यन्न कीर्तितम्
॥२९॥इंगितं नेंगितं तच्च तद्रूपं ते सुरेश्वरि ॥
गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः
॥३०॥यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः ॥
त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः
॥३१॥तथान्येऽपि बहुत्वाद्ये न मया परिकीर्तिताः ॥
आराधितास्तु कृच्छ्रेण पूजिताश्च सुविस्तरैः ॥
हरंतु देवताः पापमन्ये त्वं कीर्तिताऽपि च
॥३२॥एवं स्तुता सा देवेशी भूभुजा तेन भारती ॥
ययौ प्रत्यक्षतां तूर्णं प्राह चेदं सुहर्षिता
॥३३॥सरस्वत्युवाच
स्तोत्रेणानेन भूपाल भक्त्या सुस्थिरया सदा ॥
परितुष्टास्मि तेनाशु वरं वृणु यथेप्सितम्
॥३४॥राजोवाच
अद्यप्रभृति मद्वाक्यात्त्वया स्थेयमसंशयम् ॥
अत्रार्चायां त्रिलोकेस्मि न्यावत्कीर्तिर्मम स्थिरा
॥३५॥यस्त्वामाराधयेत्सम्यगत्रस्थां मन्निमित्ततः ॥
भक्त्यानुरूपमेवाशु तस्मै देयं त्वया हि तत्
॥३६॥सरस्वत्युवाच
यो मामत्र स्थितां नित्यं स्नात्वाऽत्र सलिले शुभे ॥
अष्टम्यां च चतुर्दश्यां पूजयिष्यति मानवः
॥३७॥तस्याहं वांछितान्कामान्संप्रदास्यामि पार्थिव ॥
सूत उवाच ॥
एवं तत्र स्थिता देवी स्वयमेव सरस्वती
॥३८॥ततःप्रभृति लोकानां हिताय परमेश्वरी ॥
अष्टम्यां च चतुर्दश्यामुपवासपरायणः
॥३९॥यस्तां पूजयते मर्त्यः श्वेतपुष्पानुलेपनैः ॥
स स्याद्वाग्ग्मी सुमेधावी सदा जन्मनिजन्मनि
॥४०॥सरस्वत्याः प्रसादेन जायमानः पुनःपुनः ॥
अन्वयेऽपि न तस्यैव कश्चिन्मूर्खः प्रजायते
॥४१॥यो धर्मश्रवणं तस्याः पुरतः कुरुते नरः ॥
स नूनं वसति स्वर्गे तत्प्रभावाद्युगत्रयम्
॥४२॥विद्यादानं नरो यश्च तस्या ह्यायतने सदा ॥
करोति श्रद्धया युक्तः सोऽश्वमेधफलं लभेत्
॥४३॥यो यच्छति द्विजेन्द्राय धर्मशास्त्रसमुद्भवम् ॥
पुस्तकं वाजिमेधस्य स समग्रं फलं लभेत्
॥४४॥यो वेदाध्ययनं तस्याः करोति पुरतः स्थितः ॥
सोऽग्निष्टोमस्य यज्ञस्य कृत्स्नं फलमवाप्नुयात्
॥४५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वती तीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥