वास्तुपदोत्पत्तिमाहात्म्यवर्णनम्
ऋषय ऊचुः
त्वया सूतज तत्रस्थं याज्ञवल्क्यस्य कीर्तितम् ॥
तीर्थं वररुचेश्चैव वैनायक्यं प्रविद्यते
॥१॥कात्यायनस्य न प्रोक्तं किञ्चित्तत्र महामते ॥
किं वा तेन कृतं नैव किं वा ते विस्मृतिं गतम्
॥२॥तस्मादाचक्ष्व नः शीघ्रं यदि किंचिन्महात्मना ॥
क्षेत्रेत्र निर्मितं तीर्थं सर्वसिद्धिप्रदायकम्
॥३॥सूत उवाच
तेन वास्तुपदंनाम तत्र तीर्थविनिर्मितम् ॥
कात्यायनेन विप्रेण सर्वकामप्रदं नृणाम्
॥४॥चत्वारिंशत्त्रिभिर्युक्ता देवता यत्र पंच च ॥
पूज्यंते पूजिताश्चापि सिद्धिं यच्छंति तत्क्षणात्
॥५॥ऋषय ऊचुः
कस्मात्ता देवताः सूत पूज्यंते तत्र संस्थिताः ॥
नामतश्च विभागेन कीर्तयस्व पृथक्पृथक्
॥६॥सूत उवाच
पूर्वं किंचिन्महद्भूतं निर्गतं धरणीतलात् ॥
अपूर्वं रौद्रमत्युग्रं कृष्ण दंतं भयानकम्
॥७॥शंकुकर्णं कृशास्यं च ऊर्ध्वकेशं भयानकम् ॥
देवानां नाशनार्थाय मानुषाणां विशेषतः ॥
आकृष्टं दानवेंद्रेण मंत्रैः शुक्रप्रदर्शितैः ॥
अवध्यं सर्वशस्त्राणामस्त्राणां च विशेषतः
॥९॥अथ देवाः समालोक्य तत्तादृक्सुभयावहम् ॥
जघ्नुः शस्त्रैः शितैश्चित्रैः कोपेन महतान्विताः
॥१०॥नैव शेकुस्तदंगेषु प्रहर्तुं यत्नमास्थिताः ॥
भक्ष्यंते केवलं तेन शतशोऽथ सहस्रशः
॥११॥अथ ते यत्नमास्थाय सर्वे देवाः सवासवाः ॥
ब्रह्माणमग्रतः कृत्वा तद्भूतमभिदुद्रुवुः
॥१२॥ततः संगृह्य यत्नेन सर्वगात्रेषु सर्वतः ॥
तच्च पंचगुणैर्देवैः पातितं धरणीतले
॥१३॥उपविष्टास्ततस्तस्य सर्वे भूत्वा समंततः ॥
प्रहारान्संप्रयच्छंति न लगंति च तस्य ते
॥१४॥आथर्वणेन सूक्तेन जातं चामृतबिंदुना ॥
तद्भूतं प्रेषितं दैत्यैर्मुंडेन च तदंतिकम्
॥१५॥एवं वर्षसहस्रांतं तत्तथैव व्यवस्थितम् ।
न मुंचंति भयात्ते तु न हंतुं शक्नुवंति च
॥१६॥तस्योदरे स्थितो ब्रह्मा शक्राद्या अमराश्च ये ॥
चतुर्दिक्षु स्थिताः क्रुद्धा महद्यत्नेन संस्थिताः ॥
ततस्ते दानवाः सर्वे मंत्रं चक्रुः परस्परम्
॥१७॥अस्य भूतस्य रौद्रस्य शुक्रसृष्टस्य तत्क्षणात् ॥
एक एवात्र निर्दिष्ट उपायो देवसंक्षयः
॥१८॥ततः शस्त्राणि तीक्ष्णानि दानवास्ते महाबलाः ॥
मुंचंतो विविधान्नादान्समाजग्मुः सहस्रशः
॥१९॥एतस्मिन्नंतरे विष्णुरागतस्तत्र तत्क्षणात् ॥
आह भूतं तदा विष्णुर्वचसा ह्लादयन्निव
॥२०॥यो यस्मिन्संस्थितो गात्रे देवस्तव समुद्भवे ॥
तत्र पूजां समादाय तस्मात्त्वां तर्पयिष्यति
॥२१॥नैवंविधा तु लोकेऽस्मिन्पूजा देवस्य संस्थिता ॥
कस्यचिद्यादृशी तेऽद्य मया संप्रतिपादिता
॥२२॥ततस्तेन प्रतिज्ञातमविकल्पेन? चेतसा ॥
एवं तेऽहं करिष्यामि परं मे वचनं शृणु
॥२३॥यदि कश्चिन्न मे पूजां करिष्यति कदाचन ॥
कथंचिन्मानवः कश्चित्स मे भक्ष्यो भविष्यति
॥२४॥सूत उवाच
बाढमित्येव च प्रोक्ते ततो देवेन चक्रिणा ॥
तद्भूतं निश्चलं जातं हर्षेण महतान्वितम्
॥२५॥ततो देवाः समुत्थाय तत्त्यक्त्वा शस्त्रपाणयः ॥
जघ्नुश्च निशितैः शस्त्रैः पलायनसमुत्सुकान् ॥
लज्जाहीनान्गतामर्षान्दीनवाक्यप्रजल्पकान्
॥२६॥ततः स्वस्थः स भूत्वा तु हरिर्दैत्यैर्निपातितैः ॥
प्रोवाच पद्मजं नाम भूतस्यास्य कुरुष्व भोः
॥२७॥ब्रह्मोवाच
अनेन तव वाक्यस्य प्रोक्तं वाक्यं हरे यतः ॥
वास्त्वेतदिति यस्माच्च तस्माद्वास्तु भविष्यति
॥२८॥एवमुक्त्वा हृषीकेश आहूय विश्वकर्मणे ॥
विधानं कथयामास पूजार्थं विस्तरान्वितम्
॥२९॥एतस्मिन्नंतरे प्राह याज्ञवल्क्यसुतः सुधीः ॥
विश्वकर्माणमाहूय प्रथमं द्विजसत्तमाः
॥३०॥हाटकेश्वरजे क्षेत्रे ममाश्रमपदं कुरु ॥
अनेनैव विधानेन प्रोक्तेन तु महामते
॥३१॥ततोहं सकलं बुद्ध्वा वृद्धिं नेष्यामि भूतले ॥
बालावबोधनार्थाय तस्मादागच्छ सत्वरम्
॥३२॥ततः संप्रेषयामास तं ब्रह्मापि तदंतिकम् ॥
विश्वकर्माणमाहूय स्वसुतस्य हिते स्थितः
॥३३॥विश्वकर्मापि तत्रैत्य वास्तुपूजां यथोदिताम् ॥
चकार ब्रह्मणा प्रोक्तां यादृशीं सकलां ततः
॥३४॥कात्यायनोऽपि तां सर्वां दृष्ट्वा चक्रे सहस्रशः ॥
तदा विश्वहितार्थाय शालाकर्मादि पूर्विकाम्
॥३५॥एवं वास्तुपदं जातं तस्मिन्क्षेत्रे द्विजोत्तमाः ॥
अस्मिन्क्षेत्रे नरः पापात्स्पृष्टो मुच्येत कर्मणा
॥३६॥तथा न प्राप्नुयाद्दोषं गृहजातं कथंचन ॥
शिल्पोत्थं कुपदोत्थं च कुवास्तुजमथापि च
॥३७॥वैशाखस्य तृतीयायां शुक्लायां रोहिणीषु च ॥
तत्पदं निहितं तत्र वास्तोस्तेन महात्मना
॥३८॥तस्मिन्नपि च यः पूजां तेनैव विधिना नरः ॥
तस्य यः कुरुते सम्यक्स भूपत्वमवाप्नुयात्
॥३९॥गृहं दोषान्वितं प्राप्य शिल्पादिभिरुपद्रुतम् ॥
तस्योपसंगमं प्राप्य समृद्धिं याति तद्दिने
॥४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वास्तुपदोत्पत्तिमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ ॥