मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ७

3
नागरखण्डः · 7

त्रिशंकुस्वर्गप्राप्तिवर्णनम्

सूत उवाच

एवं ध्यायमानेन जलमाविश्य काम्यया ॥

सृष्टं संध्याद्वयं तच्च दृश्यतेऽद्यापि वै द्विजाः

॥१॥

ततो देवगणाः सर्वे सृष्टास्तेन महात्मना ॥

वैमानिकाश्च ये केचिन्नक्षत्राणि ग्रहास्तथा

॥२॥

मनुष्योरगरक्षांसि वीरुधो वृक्षसंयुताः ॥

सप्तर्षयो ध्रुवाद्याश्च ये चान्ये गगनेचराः

॥३॥

एवं हि भगवान्सृष्ट्वा विश्वामित्रः स मन्युमान् ॥

स्वकीयेष्वथ कृत्येषु योजयामास तांस्ततः

॥४॥

एतस्मिन्नेव काले तु द्वौ सूर्यो युगपद्दिवि ॥

उदितौ रात्रिनाथौ च जाताश्च द्विगुणा ग्रहाः ॥

द्विगुणानि च भान्येव सह सप्तर्षिभिर्द्विजाः

॥५॥

एवं वियति ते सर्वे स्पर्द्धमानाः परस्परम् ॥

दृश्यंते द्विगुणीभूता जनविभ्रमकारकाः

॥६॥

एतस्मिन्नन्तरे शक्रः सह सर्वेर्दिवालयैः ॥

जगाम तत्र यत्रास्ते भगवान्कमलासनः ॥

७ प्रोवाचाथ प्रणम्योच्चैः कृतांजलिपुटः स्थितः ॥

स्तुतिं कृत्वा सुरैः सार्धं वेदोक्तैः स्तवनैर्द्विजाः

॥८॥

सृष्टिः कृता सुरश्रेष्ठ विश्वामित्रेण सांप्रतम् ॥

मनुष्ययक्षसर्पाणां देवगंधर्वरक्षसाम्

॥९॥

तस्माद्वारय तं गत्वा स्वयमेव पितामह ॥

यावन्न व्याप्यते सर्वं तत्सष्ट्येदं चराचरम् ॥

१० तस्य तद्वचनं श्रुत्वा तेनैव सहितो विधिः ॥

गत्वोवाच जगन्मित्रं विश्वामित्रं मुनीश्वरम्

॥११॥

निवृत्तिं कुरु विप्रर्षे सांप्रतं वचनान्मम ॥

सृष्टैर्यावन्न नश्यंति सर्वे देवाः सवासवाः

॥१२॥

विश्वामित्र उवाच

अनेनैव शरीरेण त्रिशंकुर्नृपसत्तमः ॥

यदि गच्छति ते लोके तत्सृष्टिं न करोम्यहम्

॥१३॥

ब्रह्मोवाच

एष गच्छतु भूपालो मया सह त्रिविष्टपम् ॥

अनेनैव शरीरेण त्वत्प्रसादान्मुनीश्वर ॥

१४ विरामं कुरु सृष्टेस्त्वं नैतदन्यः करिष्यति ॥

न कृतं केनचिल्लोके तत्कर्म भवता कृतम्

॥१५॥

विश्वामित्र उवाच

यन्मया कोपयुक्तेन कृतेयं सृष्टिरब्जज ॥

तत्क्षतव्यं त्वया देव सर्वलोकपितामह

॥६॥

तथाऽक्षयास्तु मे देव सृष्टिस्तव प्रसादतः ॥

या कृता न करिष्यामि भूयो ऽन्यां पद्मसंभव

॥१७॥

व्रह्मोवाच

भविष्यति ध्रुवा विप्र सृष्टिर्या भवता कृता ॥

परं सर्वेषु कृत्येषु यज्ञार्हा न भविष्यति

॥१८॥

??? एवमुक्त्वा समादाय त्रिशंकुं प्रपितामहः ॥

ब्रह्मलोकं गतो हृष्टो मुनिस्तत्रैव संस्थितः

॥१९॥

इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने त्रिशंकुस्वर्गप्राप्तिवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥