मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३९

3
नागरखण्डः · 39

तस्यैवोत्तरदिग्भागे धुन्धुमारेश्वरस्य च

सूत उवाच

तस्यैवोत्तरदिग्भागे धुन्धुमारेश्वरस्य च ॥

ययातिना नरेंद्रेण स्थापितं लिंगमुत्तमम्

॥१॥

देवयान्या तथान्यच्च तथा शर्मिष्ठया द्विजाः ॥

भार्यया भूपतेस्तस्य सर्वकामफलप्रदम्

॥२॥

स यदा सर्वभोगानां तृप्तिं प्राप्तो द्विजोत्तमाः ॥

तदा पुत्रस्य राज्यं स्वं वपुश्चैव न्यवेदयत्

॥३॥

जरामादाय तद्गात्राद्भार्याभ्यां सहितस्तदा ॥

पप्रच्छ विनयोपेतो मार्कंडं मुनिसत्तमम्

॥४॥

भगवन्सर्वतीर्थानां क्षेत्राणां च वदस्व मे ॥

यत्प्रधानं पवित्रं यत्तदस्माकं प्रकीर्तय

॥५॥

श्रीमार्कंडेय उवाच

क्षेत्राणामिह सर्वेषां तीर्थैः सर्वैरलंकृतम् ॥

चमत्कारपुरं क्षेत्रं सांप्रतं प्रतिभाति नः

॥६॥

यत्र विष्णुपदी गंगा जंतूनां पापनाशिनी ॥

स्वयं स्थिता नृपश्रेष्ठ तथा देवा हरादयः

॥७॥

तथान्यानि च तीर्थानि यानि संति धरातले ॥

तेषां यत्र च सांनिध्यं सर्वदा नृपसत्तम

॥८॥

शिला यत्र द्विपञ्चाशद्धस्तानां परिसंख्यया ॥

पितामहेन निर्मुक्ता प्रमोदाय द्विजन्मनाम्

॥९॥

यदन्यत्र शुभं कर्म वर्षेणैकेन सिध्यति ॥

तत्तत्र दिवसेनापि सिद्धिं याति क्षितीश्वर

॥१०॥

तस्मात्तत्र द्रुतं गत्वा तपः कुरु महीपते ॥

येन प्राप्स्यसि चित्तस्थाँल्लोकान्भार्यासमन्वितः

॥११॥

तस्य तद्वचनं श्रुत्वा स राजा नहुषात्मजः ॥

चमत्कारपुरे क्षेत्रे भार्याभ्यां सहितो ययौ

॥१२॥

ततः संस्थाप्य तल्लिंगं देवदेवस्य शूलिनः ॥

सम्यगाराधयामास श्रद्धया परया युतः

॥१३॥

ततस्तस्य प्रभावेन भार्याभ्यां सहितो नृपः ॥

विमानवरमारूढो जगाम त्रिदिवालयम्

॥१४॥

किन्नरैर्गीयमानश्च स्तूयमानश्च चारणैः ॥

स्पर्द्धमानः समं देवैर्द्वादशार्कसमप्रभः

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ययातीश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥