मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३६

3
नागरखण्डः · 36

चित्रेश्वरीपीठमाहात्म्यवर्णनम्

ऋषय ऊचुः

चित्रेश्वरमिदं पीठमगस्त्यमुनिनिर्मितम् ॥

यत्प्रमाणं यत्प्रभावं तदस्माकं प्रकीर्तय

॥१॥

सूत उवाच

तस्य पीठस्य माहात्म्यं वक्तुं नो शक्यते द्विजाः ॥

सहस्रेणापि वर्षाणां मुखानामयुतैरपि

॥२॥

तत्र सिद्धिमनुप्राप्ताः शतशोऽथ सहस्रशः ॥

अनुध्यानसमायुक्ता योगिनः शंसितव्रताः

॥३॥

अन्यपीठेषु या सिद्धिर्वर्षानुष्ठानतो भवेत् ॥

दिनेनैकेन तां सिद्धिं लभंते योगिनो ध्रुवम्

॥४॥

यस्तत्राथ र्वणान्मंत्राञ्जपेच्छ्रद्धासमन्वितः ॥

तेषामर्थोद्भवं कृत्स्नं फलं प्राप्नोति स ध्रुवम्

॥५॥

पुत्रकामो नरस्तत्र पुंलिंगान्यो जपेन्नरः ॥

स लभेतेप्सितान्पुत्रान्यद्यपि स्याज्जरान्वितः

॥६॥

गर्भोपनिषदं तत्र पुत्रकामो जपेन्नरः ॥

अपि वन्ध्याप्रसंगेन स्यात्स पुत्रसमन्वितः

॥७॥

शत्रुलोकविनाशाय यो जपेच्छतरुद्रियम् ॥

तस्मिन्पीठेऽरयस्तस्य सद्यो गच्छंति संक्षयम् ०

॥८॥

भूतप्रेतपिशाचादिरक्षार्थं तत्र मानवः ॥

यो जपेद्वामदेव्यं च स स्याद्धि निरुपद्रवः

॥९॥

कोऽदादिति नरस्तत्र कन्यार्थं यो जपेदृचम् ॥

यां कन्यां ध्यायमानस्तु स तां प्राप्नोत्यसंशयम्

॥१०॥

यो भूपालप्रसादार्थमिमं देवा निशं जपेत् ॥

निरर्गलः प्रसादः स्यात्तस्य पार्थिवसंभवः

॥११॥

स्वस्त्रीस्नेहकृतेयस्तु तं पत्नीभिरिति द्विजाः ॥

जपेद्भार्या भवेत्साध्वी तस्य सा स्नेहवत्सला

॥१२॥

यो लोकानुग्रहार्थाय जपेददितिरित्यपि ॥

तस्य लोकानुरागः स्यात्सलाभश्च विशेषतः

॥१३॥

वित्तार्थी यो जपेत्तत्र श्रीसूक्तं मनुजो द्विजाः ॥

सर्वतस्तस्य वित्तानि समागच्छंत्यनेकशः ॥

भूमीति यो जपेत्साम भूम्यर्थं तत्र मानवः ॥

स भवेद्भूपतिर्नूनं नीचजातिरपि ध्रुवम्

॥५॥

जपेद्रथंतरं साम यानार्थं तत्र यो नरः ॥

स प्राप्नोति हि यानानि शीघ्रगानि शुभानि च

॥१६॥

गजार्थी यो जपेत्तत्र गणानां द्विजसत्तमाः ॥

स प्राप्नोति गजान्मर्त्यो मदप्लावितभूतलान्

॥१७॥

न तद्रक्षेति यो मन्त्रं जपेद्र क्षाकृते नरः ॥

तस्य स्यात्सर्वतो रक्षा समेषु विषमेषु च

॥१८॥

सप्तर्षय इति श्रेष्ठां यो जपेत्तु समाहितः ॥

ऋचं रोगविनाशाय स रोगैः परि मुच्यते

॥१९॥

यदुभी यो जपेत्तत्र ग्रहपीडार्दितो जनः ॥

सानुकूला ग्रहास्तस्य प्रभवंति न संशयः

॥२०॥

भूतपीडार्दितो यश्च बृहत्साम जपेन्नरः ॥

पितृवज्जायते तस्य स भूतोऽप्यंतकोऽपि चेत्

॥२१॥

यात्रासिद्धिकृते यश्च जपेत्सूक्तं च शाकुनम् ॥

तस्य संसिध्यते यात्रा यद्यपि स्यादकिंचनः

॥२२॥

सर्पनाशाय यस्तत्र सार्पसूक्तं जपेन्नरः ॥

न तस्य मंदिरे सर्पाः प्रविशंति कथंचन

॥२३॥

विषनाशाय यस्तत्र जपेच्छ्र द्धासमन्वितः ॥

उत्तिष्ठेति विषं सद्यस्तस्य नाशं प्रयास्यति

॥२४॥

स्थावरजगमं वापि कृत्रिमं यदि वा विषम् ॥

तस्य नाम्ना विनिर्याति तमः सूर्योदये यथा

॥२५॥

व्याघ्रसाम जपेद्यस्तु तत्र श्रद्धासमन्वितः ॥

तस्य व्याघ्रादयो व्याला जायंते सौम्यचेतसः

॥२६॥

कृषिकर्मप्रसि द्ध्यर्थं यो जपेल्लांगलानि च ॥

वृष्टिहीनेऽपि लोकेऽस्मिन्कृषिस्तस्य प्रसिध्यति

॥२७॥

ईतिनाशाय तत्रैव जपेद्देवव्रतं नरः ॥

ततः संकीर्त्तना देव ईतयो यांति संक्षयम्

॥२८॥

अनावृष्टिहते लोके पंचेंद्रं तत्र यो जपेत् ॥

तस्य हस्तकृते होमे तन्मंत्रैः स्याज्जलागमः

॥२९॥

दंष्ट्राभ्या मिति यस्तत्र नरश्चौरार्दितः पठेत् ॥

नोपद्रवो भवेत्तस्य कदाचिच्चौरसंभवः

॥३०॥

विवादार्थं जपेद्यस्तु संसृष्टमिति तत्र च ॥

विवादे विजय स्तस्य पापस्यापि प्रजायते

॥३१॥

यो रिपूच्चाटनार्थाय नरो रुद्रशिरो जपेत् ॥

तस्य ते रिपवो यांति देशं त्यक्त्वा कुबुद्धितः

॥३२॥

मोहनाय रिपूणां च यो जपेद्विष्णुसंहिताम् ॥

तस्य मोहाभिभूतास्ते जायंते रिपवो ध्रुवम्

॥३३॥

वशीकरणहेतोर्यः कूष्मांडीः प्रजपेन्नरः ॥

शत्रवोऽपि वशे तस्य किं पुनः प्रमदादयः

॥३४॥

यः स्तंभाय रिपूणां वै प्राजापत्यं च वारुणम् ॥

मंत्रं जपेद्द्विजश्रेष्ठाः सम्यक्छ्रद्धापरायणः ॥

मंत्रसंस्तंभितास्तस्य जायंते सर्वशत्रवः

॥३५॥

जपेत्काली करालीति यः शोषाय नरो द्विजाः ॥

स शोषयति तत्कृत्स्नं यच्चित्ते धारयेन्नरः

॥३६॥

एष मंत्रस्तदा जप्तो ह्यगस्त्येन महात्मना ॥

यत्प्रभावान्नदीनाथस्तेन संशोषितो ध्रुवम्

॥३७॥

एतत्प्रभावं यत्पीठं मंत्राणां सिद्धिकारकम् ॥

ऐहिकानां फलानां च तन्मया वः प्रकीर्तितम्

॥३८॥

यो वांछति पुनः स्वर्गं स तत्र द्विजसत्तमाः ॥

स्नानं करोतु दानं च श्राद्धं चापि विशेषतः

॥३९॥

अथ वांछति यो मोक्षं विरक्तो भवसागरात् ॥

निष्कामस्तत्र संतुष्टस्तपस्तप्येत्सुबुद्धिमान्

॥४०॥

ऋषय ऊचुः

मंत्रजाप्यस्य माहात्म्यं यत्त्वया नः प्रकीर्तितम् ॥

तत्कथं सिद्धिमायाति मंत्रजाप्यं हि सूतज

॥४१॥

सूत उवाच

अत्र तत्कथयिष्यामि यन्मया पितृतः श्रुतम् ॥

वदतो ब्राह्मणेंद्रस्य पुरा दुर्वाससो मुनेः

॥४२॥

तेन पूर्वं पिताऽस्माकं पृष्टो दुर्वाससा द्विजाः ॥

मंत्रवादकृते यच्च शृणुध्वं सुसमाहिताः

॥४३॥

दुर्वासा उवाच

साधयिष्याम्यहं मन्त्रमभीष्टं कमपि व्रती ॥

तस्य सिद्धिकृते ब्रूहि विधानं शास्त्रसंभवम्

॥४४॥

लोमहर्षण उवाच

मंत्राणां साधनं कष्टं सर्वेषामपि सन्मुने ॥

प्रत्यवायसमोपेतं बहुच्छिद्रसमाकुलम्

॥४५॥

तस्मान्मंत्रकृते सिद्धिं यदि त्वं वांछसि द्विज ॥

चमत्कारपुरे क्षेत्रे तत्र त्वं गंतुमर्हसि

॥४६॥

तत्र चित्रेश्वरीपीठमगस्त्येन विनिर्मितम् ॥

सद्यः सिद्धिकरं प्रोक्तं मन्त्राणां हृदि वर्तिनाम्

॥४७॥

न तत्र जायते छिद्रं प्रत्यवायो न च द्विज ॥

नासिद्धिर्वरदानेन सर्वेषां त्रिदिवौकसाम्

॥४८॥

चातुर्युंग्यं हि तत्पीठं स्थितानां सिद्धिमाह रेत् ॥

युगानुरूपतः सद्यस्ततो वक्ष्याम्यहं द्विज

॥४९॥

यो यं साधयितुं मन्त्रमिच्छति द्विजसत्तम ॥

स तस्य पूर्वमेवाथ लक्षमेकं जपेन्नरः

॥५०॥

ततो भवति संसिद्धो मंत्रार्हः स नरः शुचिः ॥

जपेद्ब्राह्मणशार्दूल ततो लक्षचतुष्टयम् ॥

दशांशेन तु होमः स्यात्सुसमिद्धे हुताशने

॥५१॥

ततस्तु जायते सिद्धिर्नूनं तन्मंत्रसंभवा ॥

तत्र सौम्येषु कृत्येषु होमः सिद्धार्थकैः सितैः

॥५२॥

जातीपुष्पैश्च विप्रेन्द्र स्मृतो ब्राह्मण भोजनैः ॥

तथा रौद्रेषु कृत्येषु रक्तपुष्पैः सगुग्गुलैः ० ॥

तर्पणैः कन्यकानां च होमः स्यात्स फलप्रदः

॥५३॥

एतत्कृतयुगे प्रोक्तं मंत्रसाधनमुत्त मम् ॥

सर्वेषां साधकानां च मया प्रोक्तं द्विजोत्तम

॥५४॥

एतत्त्रेतायुगे प्रोक्तं पादोनं मन्त्रसाधनम् ॥

युग्मार्धं द्वापरे कार्यं चतुर्थांशं कलौ युगे

॥५५॥

एवं तत्र समासाद्य सिद्धिं मंत्रसमुद्भवाम् ॥

तत्र पीठे ततः कृत्यं साधयेत्स्वेच्छया नरः

॥५६॥

शापानुग्रहसामर्थ्यसंयुतस्तेज साऽन्वितः ॥

अजेयः सर्वभूतानां साधूनां संमतस्तथा

॥५७॥

सूत उवाच

तच्छ्रुत्वा स मुनिस्तस्य पितुर्मम वचोऽखिलम् ॥

ततश्चित्रेश्वरं पीठं समायातोऽथ सन्मुनिः

॥५८॥

तत्र संसाधयामास सर्वान्मंत्रान्यथाक्रमम् ॥

विधिना शास्त्रदृष्टेन श्रद्धया परया युतः

॥५९॥

इति संसिद्धमंत्रः स चमत्कारपुरं गतः ॥

विप्राणां प्रार्थनार्थाय भूमिखंडकृते द्विजाः

॥६०॥

इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रेश्वरीपीठमाहात्म्यवर्णनंनाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥