मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४२

3
नागरखण्डः · 142

गणपतित्रयमाहात्म्यवर्णनम्

सूत उवाच

तथान्यदपि तत्रास्ति पुण्यं गणपतित्रयम् ॥

स्वर्गदं मर्त्यदं पुण्यं तथान्यन्नरकापहम्

॥१॥

हंतृ वै सर्वविघ्नानां पूजितं सुरदानवैः ॥

सर्वकामप्रदं चैव विद्याकीर्तिविवर्धनम्

॥२॥

ऋषय ऊचुः

त्रिविधाः पुरुषाः सूत जायंतेत्र महीतले ॥

उत्तमा मध्यमाश्चान्ये तथा चान्येऽधमाः स्थिताः

॥३॥

उत्तमाः प्रार्थयंति स्म मोक्षमेव हि केवलम् ॥

गता यत्र निवर्तंते न कथंचिद्धरातले

॥४॥

मध्यमाः स्वर्गमार्गं च दिव्यान्भोगान्मनोरमान् ॥

अप्सरोभिः समं क्रीडां यज्ञाद्यैः कर्मभिः कृताम्

॥५॥

अधमा मर्त्यलोकेत्र रमंते विषयात्मकाः ॥

विषकीटकवत्तत्र रतिं कृत्वा गरीयसीम् ॥

स्वर्गमोक्षौ परित्यज्य तत्कस्मान्मर्त्य इष्यते ॥

येनासौ प्रार्थ्यते मर्त्यैर्मर्त्यदो गणनायकः

॥७॥

केन संस्थापितास्ते च तस्मिन्क्षेत्रे गजाननाः ॥

कस्मिन्काले च द्रष्टव्याः सर्वं विस्तरतो वद

॥८॥

सूत उवाच

पूर्वं तप्त्वा तपस्तीव्रं मर्त्यलोके द्विजोत्तमाः ॥

ततो गच्छंति संहृष्टाः स्वेच्छया त्रिदिवं प्रति ॥

मोक्षमार्गं तथैवान्ये ध्यानाविष्कृतमानसाः

॥९॥

ततः स्वर्गे समाकीर्णे कदाचिन्मनुजोत्तमैः ॥

देवेषु क्षिप्यमाणेषु समंतात्तत्प्रभावतः

॥१०॥

गत्वा स्वयं सहस्राक्षः सर्वैर्देवगणैः सह ॥

प्रोवाच शंकरं गौर्या सार्धमेकासनस्थितम्

॥११॥

इन्द्र उवाच

तपःप्रभावसंसिद्धैर्मानवैः परमेश्वर ॥

अस्माकं व्याप्यते सर्वं महिमानं गृहादिकम्

॥१२॥

तस्मात्कृत्वा प्रसादं नः कंचिच्चिंतय सांप्रतम् ॥

उपायं येन तिष्ठामः सौख्येनात्र शिवालये

॥१३॥

अथ श्रुत्वा विरूपाक्षस्तेषां तद्वचनं द्विजाः ॥

पार्वत्याः पार्श्वसंस्थाया मुखचन्द्रं समैक्षयत्

॥१४॥

निजगात्रं ततो देवी सुसंमर्द्य मुहुर्मुहुः ॥

मलमाहृत्य तं कृत्स्नं चक्रे नागमुखं ततः १५ ॥

चतुर्हस्तं महाकायं लंबोदरसमन्वितम् ॥

सुकौतुककरं तेषां सर्वेषां च दिवौकसाम्

॥१६॥

ततः स विनयादाह देवीं शिखरवासिनीम् ॥

यदर्थमंब सृष्टोऽहं तत्कार्यं वद मा चिरम् ॥

त्रैलोक्ये त्वत्प्रसादेन नासाध्यं विद्यते मम

॥१८॥

श्रीदेव्युवाच

मर्त्यलोके नरा ये च स्वर्गमोक्षपराः सदा ॥

तेषां विघ्नं त्वया कार्यं शुभकृत्येषु चैव हि

॥१९॥

सरितां पतयस्त्रिंशच्छंकवः सप्तसप्ततिः ॥

महासरोजषष्टिश्च निखर्वाणां च विंशतिः

॥२०॥

अर्बुदायुतसंयुक्ताः कोट्यो नवतिपञ्च च ॥

लक्षाश्च पंचपंचाशत्सहस्राः पंचविंशतिः ॥

शतानि नवषष्टिश्च गणाश्चान्येऽत्र संस्थिताः

॥२१॥

येषां नदी स्मृतः पूर्वो महाकालस्तथा परः ॥

ते सर्वे वशगास्तुभ्यं प्रभवंतु गणोत्तमाः

॥२२॥

आधिपत्यं मया दत्तं तव वत्स कुरुष्व तत् ॥

सर्वेषां गणवृंदानामाधिपत्ये व्यवस्थितः

॥२३॥

एवमुक्त्वाथ सा देवी समानीयौषधीभृतान् ॥

हेमकुंभान्सुतीर्थांभः परिपूर्णान्महोदयान्

॥२४॥

तस्याभिषेचनं चक्रे स्वयमेव सुरेश्वरी ॥

गीतवाद्यविनोदेन नृत्यमंगलजैः स्वनैः

॥२५॥

त्रयस्त्रिंशत्स्मृताः कोटयो देवानां याः स्थिता दिवि ॥

ताः सर्वास्तत्र चागत्य तस्य चक्रुश्च मंगलम्

॥२६॥

अथ तस्य ददौ तुष्टो भगवान्वृषभध्वजः ॥

कुठारं निशितं हस्ते सदा वै श्रेष्ठमायुधम्

॥२७॥

पात्रं मोदकसंपूर्णमक्षयं चैव पार्वती ॥

भोजनार्थे महाभागा मातृस्नेहपरायणा

॥२८॥

मूषकं कार्तिकेयस्तु वाहनार्थं प्रहर्षितः ॥

भ्रातरं मन्यमानस्तु बन्धुस्नेहेन संयुतः

॥२९॥

ज्ञानं दिव्यं ददौ ब्रह्मा तस्मै हृष्टेन चेतसा ॥

अतीतानागतं चैव वर्तमानं च यद्भवेत्

॥३०॥

प्रज्ञां विष्णुः सहस्राक्षः सौभाग्यं चोत्तमं महत् ॥

सौभाग्यं कामदेवस्तु कुबेरो विभवादिकम्

॥३१॥

प्रतापं भगवान्सूर्यः कांतिमग्र्यां निशाकरः

॥३२॥

तथान्ये विबुधाः सर्वे ददुरिष्टानि भूरिशः ॥

आत्मीयानि प्रतुष्ट्यर्थं देव्या देवस्य च प्रभोः

॥३३॥

एवं लब्धवरः सोऽथ गणनाथो द्विजोत्तमाः ॥

देवकृत्यपरो नित्यं चक्रे विघ्नानि भूतले

॥३४॥

धर्मार्थं यतमानानां मोक्षाय सुकृताय च ॥

ततो भूमितलेऽभ्येत्य गणेशस्तत्र यः स्मृतः

॥३५॥

वैमानिकैः समभ्येत्य स्थापितस्तत्र स द्विजाः ॥

येन स्वर्गार्थिनो लोकाः पूजां तस्य प्रचक्रिरे ॥

प्रथमं सर्वकृत्येषु विघ्ननाशाय तत्पराः

॥३६॥

एतस्मिन्नेव काले च चमत्कारपुरोद्भवैः ॥

ब्राह्मणैर्ब्रह्मविज्ञानतत्परैर्मोक्षहेतुभिः ॥

ईशानः स्थापितस्तत्र मोक्षदो य उदाहृतः

॥३७॥

स्वर्गं वाञ्छद्भिरेवान्यैः स्वर्गद्वारप्रदस्तथा ॥

हेरंबः स्थापितस्तत्र सत्यनामा यथोदितः

॥३८॥

तथान्यैर्मर्त्यदो नाम गणैशस्तत्र यः स्थितः ॥

येन स्वर्गाच्च्युता यांति न कदा नरकादिकम् ॥

तिर्यक्त्वं वा कृमित्वं वा स्थावरत्वमथापि वा

॥३९॥

एतस्मात्कारणात्तत्र क्षेत्रे पुण्ये द्विजोत्तमाः ॥

हेरम्बो मर्त्यदो जातः स्वर्गिणां मर्त्यदः सदा

॥४०॥

एतद्वः सर्वमाख्यातं पुण्यं हेरंबसंभवम् ॥

आख्यानं सर्वविघ्नानि यन्निहन्ति श्रुतं नृणाम्

॥४१॥

एतन्माघचतुर्थां? यः शुक्लायां पूजयेन्नरः ॥

न तस्य वत्सरं यावद्विघ्नं सञ्जायते क्वचित्

॥४२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गणपतित्रयमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरशत तमोऽध्यायः ॥ १४२ ॥