धर्मराजपुत्राख्यानवर्णनम्
ऋषय ऊचुः
यदेतद्भवता प्रोक्तं पुत्रो मानुषविग्रहः ॥
भविष्यति यमस्यात्र कः संभूतः स सूतज
॥१॥सूत उवाच
तस्य पुत्रः समुत्पन्नः पांडोः क्षेत्रे महीतले ॥
युधिष्ठिर इति ख्यातः सर्वक्षत्रियपुंगवः
॥२॥राजसूयो मखो येन इष्टः सम्पूर्णदक्षिणः ॥
सर्वान्भूमिपतीन्वीर्यात्संविधाय करप्रदान्
॥३॥अश्वमेधाः कृताः पंच तथा सम्पूर्णदक्षिणाः ॥
भ्रामयित्वा हयं भूमौ पश्चात्प्राप स सद्गतिम्
॥४॥एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्
॥५॥यदनेन वृतं मत्तः पुत्रित्वं सुमहात्मना ॥
हयमेधान्महायज्ञान्कर्ता स्यादस्य वै सुतः
॥६॥मन्येत कृतकृत्यत्वं येन पुत्रेण धर्मपः ॥
अन्यैः पुत्रशतैः किं वा वंशानुद्धारकारकैः
॥७॥सूत उवाच
एतद्वः सर्वमाख्यातं धर्मराजसुतोद्भवम् ॥
आख्यानं ब्राह्मणश्रेष्ठा धर्मवृद्धिकरं परम्
॥८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजपुत्राख्यानवर्णनंनाम चत्वारिंशदुत्तर शततमोऽध्यायः ॥ १४० ॥