मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६५

3
नागरखण्डः · 265

अशून्यशयनव्रतमाहात्म्यवर्णनम्

ऋषय ऊचुः

प्रभूतानि त्वयोक्तानि व्रतानि नियमास्तथा ॥

प्रसुप्ते पुंडरीकाक्षे येषां संख्या न विद्यते

॥१॥

अशक्त्या हि शरीरस्य नियमानां कथं चरेत् ॥

व्रतं हि सुकुमारांगो दानैर्वापि वदस्व नः

॥२॥

सूत उवाच

अशक्तो नियमं कर्तुं सुकुमारो भवेत्तु यः ॥

तेन तत्र प्रकर्तव्यं विख्यातं भीष्मपंचकम्

॥३॥

कार्त्तिकस्य सिते पक्ष एकादश्यां समाहितः ॥

प्रातरुत्थाय विप्रेंद्र कर्तव्यं दंतधावनम्

॥४॥

ततस्तु नियमं कुर्याद्वासुदेवपरायणः ॥

पूर्वोक्तानां च सर्वेषां नियमानां द्विजोत्तमाः

॥५॥

उपवासः प्रकर्तव्यस्तस्मिन्नहनि भक्तितः ॥

अशक्त्या वा शरीरस्य हेमं दद्यात्स्वशक्तितः

॥६॥

ब्राह्मणाय हविष्यान्नं दातव्यं वैष्णवैर्नरैः।

एवं पञ्चदिनं यावत्कर्तव्यं व्रतमुत्तमम्

॥७॥

पूजनीयो हृषीकेशो जलशायिस्वरूपधृक् ॥

गंधैर्धूपैश्च नैवेद्यै रात्रिजागरणैरपि

॥८॥

षष्ठेऽहनि ततो जाते पूजयेद्ब्राह्मणोत्तमान् ॥

तांश्च वस्त्रैर्हिरण्येन मिष्टान्नेन प्रभक्तितः

॥९॥

ततः कृतांजलिर्भूत्वा याचयेद्ब्राह्मणोत्तमान् ॥

सर्वे मे नियमाः प्राप्ता युष्माकं च प्रसादतः

॥१०॥

ततस्तैरपि वक्तव्यं चतुर्मासीसमुद्भवम् ॥

व्रतानां नियमानां च व्रतं भूयात्तवाखिलम्

॥११॥

ततो विसर्ज्य तान्विप्रान्भोजनं स्वयमाचरेत् ॥

सर्वाहारेण राजेंद्र पंचगव्यप्रपूर्वकम्

॥१२॥

यः करोति व्रतं तस्य फलं स्याद्बहुपुण्यदम् ॥

यः पुनर्व्रतमेतद्धि कुरुते दिनपंचकम् ॥

उपवासपरस्तस्य फलं शतगुणं भवेत्

॥१३॥

एकादश्यां हरेः पूजां जातिपुष्पैः समाचरेत् ॥

द्वादश्यां बिल्वपत्रेण शतपत्र्या ततः परम् ॥

त्रयोदश्यां चतुर्दश्यां सुरभ्या भक्तिपूर्वकम्

॥१४॥

भृंगराजेन पुण्येन पौर्णमास्यां प्रपूजयेत् ॥

प्रतिपद्दिवसे सर्वैः पूजनीयो जनार्दनः ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

॥१५॥

प्रतिपद्दिवसे सर्वान्प्राशयेत्कायशुद्धये ॥

अगरं गुग्गुलं चैव कर्पूरं तगरं त्वचा

॥१६॥

एकैकं निर्वपेद्धूपं प्रतिपद्दिवसेऽखिलम् ॥

जलशायी जगद्योनिः शेषपर्यंकमाश्रितः

॥१७॥

अर्घं गृह्णातु मे देवो भीष्मपंचकसिद्धये ॥

मंत्रेणानेन दातव्यो ह्यर्घो देवस्य भक्तितः

॥१८॥

शंखतोयं समादाय सपुष्पफलचंदनैः ॥

नैवेद्यं परमान्नं च स्वशक्त्या निर्वपेद्द्विजाः

॥१९॥

एतद्वः सर्वमाख्यातं व्रतं वै भीष्मपंचकम् ॥

संप्राप्यते फलं चैव व्रतानां नियमैः सह

॥२०॥

ऋषय ऊचुः

यदेतद्भवता प्रोक्तमशून्यशायिनीव्रतम् ॥

इन्द्रेण यत्कृतं पूर्वं तुष्ट्यर्थं चक्रपाणिनः ॥

प्रसुप्तस्य महाभाग फलं चैव प्रकीर्तितम्

॥२१॥

कस्मिन्काले प्रकर्तव्यं केनैव विधिना तथा ॥

तस्मात्सूत महाभाग विधानं विस्तराद्वद

॥२२॥

सूत उवाच

श्रावण्यां समतीतायां द्वितीयादिवसे स्थिते ॥

प्रातरुत्थाय विप्रेन्द्रा नक्षत्रे विष्णुदैवते ॥

पापिष्ठैः पतितैर्म्लेच्छैः संभाषं नैव कारयेत्

॥२३॥

ततो मध्याह्नसमये स्नात्वा धौतांबरः शुचिः ॥

जलशायिनमासाद्य मंत्रेणानेन पूजयेत्

॥२४॥

श्रीवत्सधारिञ्छ्रीकांत श्रीधामञ्छ्रीपतेऽव्यय ॥

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम्

॥२५॥

पितरो मा प्रणश्यंतु मा प्रणश्यंतु चाग्नयः ॥

देवता मा प्रणश्यंतु मत्तो दांपत्यभेदतः

॥२६॥

लक्ष्म्या वियुज्यसे कृष्ण न कदाचिद्यथा भवान् ॥

तथा कलत्रसम्बन्धो देव मा मे प्रणश्यतु

॥२७॥

लक्ष्म्या ह्यशून्यं शयनं यथा ते देव सर्वदा ॥

शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि

॥२८॥

एवमर्थं निवेद्याथ ततो विप्रं प्रपूजयेत् ॥

यथाशक्त्या द्विजश्रेष्ठा वित्तशाठ्यं विवर्जयेत्

॥२९॥

एवं भाद्रपदे मासि आश्विने कार्तिके तथा ॥

पूजयेच्च जगन्नाथं जलशायिनमच्युतम्

॥३०॥

अक्षारभोजनं कार्यं विशेषात्तैलवर्जितम् ॥

समाप्तौ च ततो दद्याद्ब्राह्मणेंद्राय भक्तितः

॥३१॥

फलव्रीहिसमोपेतां शय्यां वस्त्रसमन्विताम् ॥

सुवर्णं दक्षिणायां च तथैव च फलं लभेत्

॥३२॥

एवं यः कुरुते सम्यग्व्रतमेतत्समाहितः ॥

तस्य तुष्टिपथं याति जलशायी जगद्गुरुः

॥३३॥

यथा शक्रस्य संतुष्टः पूर्वमेव द्विजोत्तमाः ॥

अशून्यं शयनं तस्य भवेज्जन्मनि जन्मनि

॥३४॥

अष्टमासकृतं पापमज्ञानाज्ज्ञानतोऽपि वा ॥

अशून्यशयनात्सर्वं व्रतान्नाशं नयेत्पुमान्

॥३५॥

पुत्रहीना च या नारी काकवन्ध्या च या भवेत् ॥

विधवा या करोत्येतद्व्रतमेवं समाहिता ॥

तस्यास्तुष्टो जगन्नाथः कायशुद्धिं प्रयच्छति

॥३६॥

न तस्या जायते बुद्धिः कदाचित्पापसंभवा ॥

न कामोपहता बुद्धिः कथंचिदपि जायते

॥३७॥

कुमारिकापि या सम्यग्व्रतमेतत्समाचरेत् ॥

सा पतिं लभते विप्राः कुलीनं रूपसंयुतम्

॥३८॥

निष्कामः कुरुते यस्तु व्रतमेतत्समाहितः ॥

चातुर्मास्युद्भवानां च नियमानां फलं लभेत्

॥३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने अशून्यशयनव्रतमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६५ ॥