मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २८

3
नागरखण्डः · 28

तस्यां देवसभायां च संस्थिता ये द्विजोत्तमाः

सूत उवाच

तस्यां देवसभायां च संस्थिता ये द्विजोत्तमाः ॥

प्रभासादीनि तीर्थानि मूर्तानि सकलानि च

॥१॥

तानि श्रुत्वा वचस्तस्य देवाचार्यस्य तादृशम् ॥

भयं कृत्वा महच्चित्ते प्रोचुश्च त्रिदिवेश्वरम्

॥२॥

यद्येवं देवदेवेश भविष्य त्यशुभं युगम् ॥

वयं नाशं समेष्यामो न स्थास्यामो जगत्त्रये

॥३॥

पुरंदराद्य चास्माकं स्थानं किंचित्प्रदर्शय ॥

तस्मात्कीर्तय नः स्थानं किंचित्क्वापि पुरंदर

॥४॥

यदाश्रित्य नयिष्यामो रौद्रं कलियुगं विभो ॥

अस्पृष्टानि नरैर्म्लेच्छैः प्रभावसहितानि च ॥

पाताले स्वर्गलोके वा मर्त्ये वा सुरसत्तम

॥५॥

तेषां तद्वचनं श्रुत्वा कृपाविष्टः शतक्रतुः ॥

प्रोवाच ब्राह्मणश्रेष्ठं भूय एव बृहस्पतिम्

॥६॥

अस्पृष्टं कलिना स्थानं किंचि द्वद बृहस्पते ॥

समाश्रयाय तीर्थानां यदि वेत्सि जगत्त्रये

॥७॥

शक्रस्य तद्वचः श्रुत्वा चिरं ध्यात्वा वृहस्पतिः ॥

तत्र प्रोवाच तीर्थानि भया द्भीतानि हर्षयन्

॥८॥

हाटकेश्वरमित्युक्तमस्ति क्षेत्रमनुत्तमम् ॥

लिंगस्य पतनाज्जातं देवदेवस्य शूलिनः

॥९॥

यत्र पूर्वं तपस्तप्तं विश्वामित्रेण धीमता ॥

त्रिशंकोर्भूमिपालस्य कृते तीर्थे महात्मना

॥१०॥

यत्र स्थित्वा सभूपालस्त्रिशंकुः पापवर्जितः ॥

चण्डालत्वं परित्यज्य सदेह स्त्रिदिवं गतः

॥११॥

यत्र शक्रसमादेशात्पूरितं पांसुभिः पुरा ॥

संवर्तकेन रौद्रेण वायुना तीर्थमुत्तमम्

॥१२॥

यत्र रक्षत्यधस्ताच्च स स्वयं हाटकेश्वरः ॥

उपरिष्टात्प्रदेशं च कलौ देवोऽचलेश्वरः

॥१३॥

हाटकेश्वरमाहात्म्यादस्पृष्टं कलिना हि तत् ॥

पंचक्रोशप्रमाणेन अचलेश्वरजेन च

॥१४॥

तस्मास्वांशेन गच्छंतु तत्र तीर्थान्यशेषतः ॥

तेषां कलिभयं शक्र नैव तत्रास्त्यसंशयम्

॥१५॥

तच्छ्रुत्वा वचनं तस्य सर्वतीर्थानि तत्क्षणात् ॥

हाटकेश्वरसंज्ञं तत्क्षेत्रं जग्मुर्द्विजोत्तमाः

॥१६॥

यज्ञोपवीतमात्राणि कृत्वा स्थानानि चात्मनः ॥

क्षेत्रमासादयामासुस्तत्सर्वहि द्विजोत्तमाः

॥१७॥

एतस्मात्कारणाजात क्षेत्रं पुण्यतमं हि तत् ॥

हाटकेश्वरदेवस्य महापातकनाशनम्

॥१८॥

ऋषय ऊचुः

अत्याश्चर्यमिदं सूत यत्त्वयैतदुदाहृतम् ॥

संगमं सर्वतीर्थानां क्षेत्रे तत्र प्रकीर्तितम्

॥१९॥

तावन्मात्रप्रभावाणि तत्स्थानि प्रभवंति किम् ॥

तानि तीर्थानि नो ब्रूहि विस्तरेण महामते

॥२०॥

नामतः स्थानतश्चैव तथा चैव प्रभावतः ॥

सर्वाण्यपिमहाभाग परं कौतूहलं हि नः

॥२१॥

सूत उवाच

तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां द्विजसत्तमाः ॥

हाटकेश्वरजं क्षेत्रं व्याप्य सर्वं व्यवस्थिताः

॥२२॥

न तेषां कीर्तनं शक्यं कर्तुं वर्षशतैरपि ॥

तथा स्वायंभुवस्यादौ कल्पस्य प्रथमस्य च

॥२३॥

कृतः समाश्रयस्तत्र क्षेत्रे तीर्थैः शुभावहे ॥

बहुत्वादथ कालस्य बहूनि द्विजसत्तमाः

॥२४॥

उच्छेदं संप्रयातानि तीर्थान्यायतनानि च ॥

यान्यहं वेद कार्त्स्न्येन प्रभावसहितानि च ॥

तानि वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः

॥२५॥

येषां संश्रवणादेव नरः पापात्प्रमुच्यते ध्यानात्स्नानात्तथा दानात्स्पर्शनाद्विजसत्तमाः

॥२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये हाटकेश्वरक्षेत्रे सर्वतीर्थसमाश्रयवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥