मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २४९

3
नागरखण्डः · 249

तुलसी रोपिता येन गृहस्थेन महाफला

वाण्युवाच

तुलसी रोपिता येन गृहस्थेन महाफला ॥

गृहे तस्य न दारिद्र्यं जायते नात्र संशयः

॥१॥

तुलस्या दर्शनादेव पापराशिर्निवर्तते ॥

श्रियेऽमृतकणोत्पन्ना तुलसी हरिवल्लभा

॥२॥

पिबन्त्या रुचिरं पानं प्राणिनां पापहारिणी ॥

यस्या रूपे वसेल्लक्ष्मीः स्कन्धे सागरसंभवा

॥३॥

पत्रेषु सततं श्रीश्च शाखासु कमला स्वयम् ॥

इन्दिरा पुष्पगा नित्यं फले क्षीराब्धिसंभवा

॥४॥

तुलसी शुष्ककाष्ठेषु या रूपा विश्वव्यापिनी ॥

मज्जायां पद्मवासा च त्वचासु च हरिप्रिया

॥५॥

सर्वरूपा च सर्वेशा परमानन्ददायिनी ॥

तुलसी प्राशको मर्त्यो यमलोकं न गच्छति ।

शिरस्था तुलसी यस्य न याम्यैरनुभूयते ॥

मुखस्था तुलसी यस्य निर्वाणपददायिनी

॥७॥

हस्तस्थातुलसीयस्य स तापत्रयवर्जितः ॥

तुलसी हृदयस्था च प्राणिनां सर्वकामदा

॥८॥

स्कन्धस्था तुलसी यस्य स पापैर्न च लिप्यते ॥

कण्ठगा तुलसी यस्य जीवन्मुक्तः सदा हि सः

॥९॥

तुलसीसंभवं पत्रं सदा वहति यो नरः ॥

मनसा चिन्तितां सिद्धिं संप्राप्नोति न संशयः

॥१०॥

तुलसींसर्वकायार्थसाधिनीं दुष्टवारिणीम् ॥

यो नरः प्रत्यहं सिञ्चेन्न स याति यमालयम्

॥११॥

चातुर्मास्ये विशेषेण वन्दितापि विमुक्तिदा ॥

नारायणं जलगतं ज्ञात्वा वृक्षगतं तथा

॥१२॥

प्राणिनां कृपया लक्ष्मीस्तुलसीवृक्षमाश्रिता ॥

चातुर्मास्ये समायाते तुलसी सेविता यदि

॥१३॥

तेषां पापसहस्राणि यांति नित्यं सहस्रधा ॥

गोविन्दस्मरणं नित्यं तुलसीवनसेवनम्

॥१४॥

तुलसीसेचनं दुग्धै श्चातुर्मास्येऽतिदुर्लभम् ॥

तुलसीं वर्द्धयेद्यस्तु मानवो यदि श्रद्धया

॥१५॥

आलवालांबुदानैश्च पावितं सकलं कुलम् ॥

यथा श्रीस्तुलसीसंस्था नित्यमेव हि वर्द्धते

॥१६॥

तथातथा गृहस्थस्य कामवृद्धिः प्रजायते ॥

ब्रह्मचारीगृहस्थश्च वानप्रस्थो यतिस्तथा

॥१७॥

तथा प्रकृतयः सर्वास्तुलसीसेवने रताः ॥

श्रद्धया यदि जायन्ते न तासां दुःखदो हरिः

॥१८॥

एको हरिः सकलवृक्षगतो विभाति नानारसैस्तु परिभावितमूर्तिरेव ॥

वृक्षाधिवासमगमत्कमला च देवी दुःखादिनाशनकरी सततं स्मृताऽपि

॥१९॥

इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठ नाग रखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तुलसीमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तर द्विशततमोऽध्यायः ॥ २४९ ॥