मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२९

3
नागरखण्डः · 129

तथान्योऽपि च तत्रास्ति याज्ञवल्क्यसमुद्रवः

सूत उवाच

तथान्योऽपि च तत्रास्ति याज्ञवल्क्यसमुद्रवः ॥

आश्रमो लोक विख्यातो मूर्खाणामपि सिद्धिदः

॥१॥

यत्र तप्त्वा तपस्तीव्रं याज्ञवल्क्येन धीमता ॥

संप्राप्ता निखिला वेदा गुरुणाऽपहृताश्च ये

॥२॥

ऋषय ऊचुः

कोऽसौ गुरुरभूत्तस्य याज्ञवल्क्यस्य धीमतः ॥

पाठयित्वा पुनर्येन हृता वेदा महात्मना

॥३॥

किमर्थं च समाचक्ष्व सूतपुत्रात्र विस्तरात् ॥

कौतुकं परमं जातं सर्वेषां नो द्विजन्मनाम्

॥४॥

सूत उवाच

आसीद्ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः ॥

भार्गवान्वयसंभूतो वेद वेदांगपारगः

॥५॥

बृहत्कल्पे पुरा विप्रा वर्धमाने पुरोत्तमे ॥

बहुशिष्यसमायुक्तो वेदाध्ययनतत्परः

॥६॥

स सदा प्रातरुत्थाय विद्यादानं प्रयच्छति ।

शिष्येभ्यश्चानुरूपेभ्यः प्रसादाद्विजसत्तमाः

॥७॥

चकार स तदा विप्राः पौरोहित्यं महीपतेः ॥

सूर्यवंशप्रसूतस्य सुप्रियस्य महात्मनः

॥८॥

स तस्य धर्मकृत्यानि सर्वाण्येव दिनेदिने ॥

कृत्वा स्वगृहमभ्येति पूजितस्तेन भूभुजा

॥९॥

एकं शिष्यं समारोप्य शांत्यर्थं तस्य भूपतेः ॥

कथयित्वा प्रमाणं च विधानं होमसंभवम्

॥१०॥

शिष्योऽपि सकलं कृत्वा तत्कर्म सुसमाहितः ॥

आशीर्वादं प्रदत्त्वा च भूपतेर्गृहमेति च

॥११॥

एवं प्रकुर्वतस्तस्य शाकल्यस्य महात्मनः ॥

पौरोहित्यं गतः कालः कियन्मात्रो द्विजोत्तमाः ॥

तदा वैवाहिके काले शप्तो यः शंभुना स्वयम् ॥

सुनिंद्यां विकृतिं दृष्ट्वा तस्य वेद्यां गतस्य च

॥१३॥

अथ तं योजयामास शांत्यर्थं नृपमंदिरे ॥

याज्ञवल्क्यं स शाकल्यः प्रतिपद्यागतं तदा

॥१४॥

सोऽपि तारुण्यगर्वेण वेश्याकरजविक्षतः ॥

सर्वांगेषु सुनिर्लज्जः प्रकटांगो जगाम वै

॥१५॥

ततश्च शांतिकं कृत्वा जपांते भूपतिं च तम् ॥

शांतोदकप्रदानाय हस्यमानो जनैर्ययौ

॥१६॥

पार्थिवोऽपि च तं दृष्ट्वा तादृग्रूपं विटं द्विजम् ॥

नाशीर्जग्राह तेनोक्तां वाक्यमेतदुवाच ह ॥

उच्छिष्टोऽहं द्विजश्रेष्ठ शय्यारूढो व्यवस्थितः ।

अत्र शालोद्भवे स्तंभे तस्मादेतज्जलं क्षिप

॥१८॥

सोऽपि सावज्ञमाज्ञाय तं भूपं कुपिताननः ॥

तं च स्तंभं समुद्दिश्य ध्यात्वा तद्ब्रह्म शाश्वतम्

॥१९॥

द्यां त्वमालिख्य इत्येव प्रोक्त्वा मंत्रं च याजुषम् ॥

(यां त्वमालिख्य- पाठभेदः) प्राक्षिपच्छांतिकं तोयं तस्य मूर्धनि सत्वरम्

॥२०॥

ततः स पतिते तोये स्तंभः पल्लवशोभितः ॥

तत्क्षणादेव संजज्ञे फल पुष्पैर्विराजितः

॥२१॥

तं दृष्ट्वा पार्थिवः सोऽथ विस्मयोत्फुल्ललोचनः ॥

पश्चात्तापं विधायाथ वाक्यमेतदुवाच ह

॥२२॥

अभिषेकं द्विजश्रेष्ठ ममापि त्वं प्रयच्छ भोः ॥

अनेनैव तु मन्त्रेण शुचित्वं मे व्यवस्थितम्

॥२३॥

याज्ञवल्क्य उवाच

ममाभिषेकदानस्य त्वमनर्होऽसि पार्थिव ॥

तस्माद्यास्याम्यहं सद्यो यत्रस्थः स गुरुर्मम

॥२४॥

राजोवाच

तव दास्यामि वस्त्राणि वाहनानि वसूनि च ॥

तस्माद्यच्छाभिषेकं मे मन्त्रेणाऽनेन सांप्रतम्

॥२५॥

याज्ञवल्क्य उवाच

न होमांतं विना मन्त्रः स्फुरते पार्थिवोत्तम ॥

अभिषेकविधौ प्रोक्तो यः पूर्वं पद्मयोनिना ॥

तस्मान्नाहं करिष्यामि तव यद्वै हृदि स्थितम्

॥२६॥

इत्युक्त्वा वचनं भूपं याज्ञवल्क्यः स वै द्विजः ॥

जगाम स्वगृहं तूर्णं निस्पृहत्वं समाश्रितः ॥

२७ अपरेऽह्नि समायातं शाकल्यमथ भूपतिः ॥

प्रोवाच प्रांजलिर्भूत्वा विनयावनतः स्थितः

॥२८॥

यस्त्वया प्रेषितः कल्य शिष्यो ब्राह्मणसत्तमः ॥

शांत्यर्थं प्रेषणीयश्च भूयोऽप्येवं गृहे मम

॥२९॥

बाढमित्येव स प्रोक्त्वा ततो गत्वा निजालयम् ॥

याज्ञवल्क्यं समाहूय ततः प्रोवाच सादरम्

॥३०॥

अद्यापि त्वं नरेंद्रस्य शांत्यर्थं भवने व्रज ॥

विशेषात्पार्थिवेंद्रेण समाहूतोऽसि पुत्रक

॥३१॥

याज्ञवल्क्य उवाच

नाहं तात गमिष्यामि शांत्यर्थं तस्य मंदिरे ॥

अवलेपेन युक्तस्य शुद्ध्या विरहितस्य च

॥३२॥

मया तस्याभिषेकार्थं सलिलं चोद्यतं च यत् ॥

सलिलं तेन तत्काष्ठे समादिष्टं कुबुद्धिना

॥३३॥

ततो मयापि तत्रैव तत्क्षणात्सलिलं च यत् ॥

तस्मिन्काष्ठे परिक्षिप्तं नीतं वृद्धिं च तत्क्षणात्

॥३४॥

शाकल्य उवाच

अत एव विशेषेण समाहूतोऽसि पुत्रक ॥

तस्मात्तत्र द्रुतं गच्छ नावज्ञेया महीभुजः

॥३५॥

अपमानाद्भवेन्मानं पार्थिवानामसंशयम् ॥

यः करोति पुनस्तत्र मानं न स भवेत्प्रियः

॥३६॥

कोपप्रसाद वस्तूनि विचिन्वंतीह ये सदा ॥

आरोहंति शनैर्भृत्या धुन्वंतमपि पार्थिवम्

॥३७॥

समौ मानापमानौ च चित्तज्ञः कालवित्तथा ॥

सर्वंसहः क्षमी विज्ञः स भवेद्राजवल्लभः

॥३८॥

अपमानमनादृत्य तस्माद्गच्छ नृपालयम् ॥

ममाज्ञापि न लंघ्या त एष धर्मः सनातनः

॥३९॥

याज्ञवल्क्य उवाच

आज्ञाभंगो ध्रुवं भावी परिपाटीव्यतिक्रमात् ॥

करोषि यदि शिष्याणां ये त्वया तत्र योजिताः

॥४०॥

तस्माद्यदि बलान्मां त्वं योजयिष्यसि तं प्रति ॥

त्वां त्यक्त्वाऽन्यत्र यास्यामि यतः प्रोक्तं महर्षिभिः

॥४१॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥

उत्पथे वर्तमानस्य परित्यागो विधीयते

॥४२॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा शाकल्यः क्रोधमूर्छितः ॥

ततः प्रोवाच तं भूयो भर्त्समानो मुहुर्मुहुः

॥४३॥

एकमप्यक्षरं यत्र गुरुः शिष्ये निवेदयेत् ॥

पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत्

॥४४॥

तस्माद्गच्छ द्रुतं दत्त्वा मदध्ययनमालयम् ॥

त्यक्त्वा विद्यां मया दत्तां नो चेच्छप्स्याम्यहं तव

॥४५॥

एवमुक्त्वाभिमंत्र्याथ नादबिंदुसमुद्भवैः ॥

मंत्रैराथर्वणैस्तोयं पानार्थं चार्पयत्ततः

॥४६॥

सोऽपिबत्तत्क्षणात्तोयं तत्पीत्वा व्याकुलेंद्रियः ॥

उद्गिरद्वांतिधर्मेण तत्त्वविद्याविमिश्रितम्

॥४७॥

ततः प्रोवाच तं भूयः शाकल्यं कुपिताननः ॥

एकमप्यक्षरं नास्ति तावकीयं ममोदरे

॥४८॥

तस्माच्छिष्योऽस्मि ते नाहं न च मे त्वं गुरुः स्थितः ॥

सांप्रतं स्वेच्छयाऽन्यत्र प्रयास्यामि करोषि किम्

॥४९॥

एवमुक्त्वाऽथ निर्गत्य तस्मात्स्थानाच्चिरंतनात् ॥

पप्रच्छ मानवान्भूयः सिद्धिक्षेत्राणि चासकृत्

॥५०॥

ततस्तस्य समादिष्टं क्षेत्रमेतन्मनीषिभिः ॥

सिद्धिदं सर्वजंतूनां न वृथा स्यात्कथंचन

॥५१॥

आस्तां तावत्तपस्तप्त्वा व्रतं नियममेव वा ॥

हाटकेश्वरजे क्षेत्रे सिद्धिः संवसतोऽपि च

॥५२॥

येनयेन च भावेन तत्र क्षेत्रे वसेज्जनः ॥

तस्यानुरूपिणी सिद्धिः शुभा स्याद्यदि वाऽशुभा

॥५३॥

तच्छ्रुत्वा च द्रुतं प्राप्य क्षेत्रमेतद्द्विजोत्तमाः ॥

भानुमाराधयामास स्थापयित्वा ततः परम्

॥५४॥

नियतो नियताहारो ब्रह्मचर्यपरायणः ॥

गायत्रं न्यासमासाद्य निर्विकल्पेन चेतसा

॥५५॥

ततश्च भगवांस्तुष्टो वर्षांते तमुवाच सः ॥

दर्शने तस्य संस्थित्वा तेजः संयम्य दारुणम्

॥५६॥

याज्ञवल्क्य वरं ब्रूहि यत्ते मनसि रोचते ॥

सर्वमेव प्रदास्यामि नादेयं विद्यते त्वयि

॥५७॥

याज्ञवल्क्य उवाच

यदि तुष्टः सुरश्रेष्ठ वेदाध्ययनसंभवे ॥

गुरुर्भव ममाद्यैव ममैतद्वांछितं हृदि

॥५८॥

भास्कर उवाच

अहं तव कृपाविष्टस्तेजः संहृत्य तत्परम् ॥

ततश्चात्र समायातस्तेन नो दह्यसे द्विज

॥५९॥

तस्मादत्रैव कुंडे च मंत्रान्सारस्वताञ्छुभान् ॥

वेदोक्तान्क्षेपयिष्यामि स्वयमेव द्विजोत्तम

॥६०॥

तत्र स्नात्वा शुचिर्भूत्वा यत्किंचिद्वेदसंभवम् ॥

पठिष्यसि सकृत्तत्ते कंठस्थं संभविष्यति

॥६१॥

तत्त्वार्थं प्रकटं कृत्स्नं विदितं ते भविष्यति ॥

मत्प्रसादान्न संदेहः सत्यमेतन्मयोदितम्

॥६२॥

अद्यादि मानवः प्रातः स्नात्वा त्वत्र ह्रदे च यः ॥

सावित्रेण च सूक्तेन मां दृष्ट्वा प्रपठिष्यति ॥

तस्मै तत्स्यादसंदिग्धं यत्तवोक्तं मया द्विज

॥६३॥

याज्ञवल्क्य उवाच

एवं भवतु देवेश यत्त्वयोक्तं वचोऽखिलम् ॥

परं मम वचोऽन्यच्च तच्छृणुष्व ब्रवीमि ते

॥६४॥

नाहं मनुष्यधर्माणमुपाध्यायं कथंचन ॥

करिष्यामि जगन्नाथ कृपां कुरु ममोपरि

॥६५॥

ततस्तस्या ददौ सूर्यो लघिमा नाम शोभनाम् ॥

विद्यां हि तत्प्रभावाय सुतुष्टेनांतरात्मना

॥६६॥

ततस्तं प्राह कर्णांते ममाश्वानां प्रविश्य वै ॥

अभ्यासं कुरु विद्यानां वेदाध्ययनमाचर

॥६७॥

मन्मुखाद्ब्राह्मणश्रेष्ठ यद्येतत्तव वांछितम् ॥

न ते स्याद्येन दोषोऽयं मम रश्मिसमुद्भवः

॥६८॥

एवमुक्तः स तेनाथ वाजिकर्णं समाश्रितः ॥

लघुर्भूत्वाऽपठद्वेदान्भास्करस्य मुखात्ततः

॥६९॥

एवं सिद्धिं समापन्नो याज्ञवल्क्यो द्विजोत्तमाः ॥

कृत्वोपनिषदं चारु वेदार्थैः सकलैर्युतम्

॥७०॥

जनकाय नरेंद्राय व्याख्याय च ततः परम् ॥

कात्यायनं सुतं प्राप्य वेदसूत्रस्य कारकम्

॥७१॥

त्यक्त्वा कलेवरं तत्र ब्रह्मद्वारि विनिर्मिते ॥

तत्तेजो ब्रह्मणो गात्रे योजयामास शक्तितः

॥७२॥

तस्य तीर्थे नरः स्नात्वा दृष्ट्वा तं च दिवाकरम् ॥

नादबिंदुं पठित्वा च तदग्रे मुक्तिमाप्नुयात्

॥७३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्याश्रममाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥