मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९८

3
नागरखण्डः · 98

ततो दशरथो राजा मंत्रिभिस्तैर्विसर्जितः

सूत उवाच

ततो दशरथो राजा मंत्रिभिस्तैर्विसर्जितः ॥

हाटकेश्वरजं क्षेत्रं संप्राप्तो हर्षसंयुतः

॥१॥

तत्रागत्य ततो देवीं पित्रा संस्थापिता पुरा ॥

पूजयित्वाऽथ सद्भक्त्या स्नात्वा कुण्डे शुभोदके

॥२॥

ततोऽन्यानि च मुख्यानि दृष्ट्वा चायतनानि सः ॥

स्नात्वा तीर्थेष्वनेकेषु दत्त्वा दानान्यनेकशः

॥३॥

प्रासादं कारयामास देवदेवस्य चक्रिणः ॥

तत्र संस्थापयामास प्रतिमां वैष्णवीं शुभाम्

॥४॥

तस्याग्रे कारयामास वापीं स्वच्छोदकान्विताम् ॥

सोपानपंक्तिभिर्युक्तां साधुभिः संप्रशंसिताम्

॥५॥

उदकेन ततस्तस्या देवाराधनतत्परः ॥

प्रकारैर्बहुभिस्तीव्रं चकार सुमहत्तपः

॥६॥

ततो वर्षशतेऽतीते तस्य तुष्टो जनार्दनः ॥

विलोक्य च तपस्तीव्रं विहितं तेन भूभुजा

॥७॥

प्रोवाच दर्शनं गत्वा पक्षिराजं समाश्रितः ॥

मेघगम्भीरयावाचा बहुदेवगणैर्वृतः

॥८॥

श्रीविष्णुरुवाच

परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥

अपि ते दुर्लभं काममहं दास्यामि कृत्स्नशः

॥९॥

राजोवाच

पुत्रार्थोऽयं समारंभो मया देव कृतोऽखिलः ॥

तपसो देहि मे पुत्रांस्तस्माद्वंशविवृद्धिदान्

॥१०॥

अन्यत्सर्वं सुराधीश ध्रुवमस्ति गृहे स्थितम् ॥

प्रसादात्तव यत्किंचिद्वैभवं विद्यते मम

॥११॥

विष्णुरुवाच

अहं तव गृहे राजन्स्वयमेव न संशयः ॥

अवतारं करिष्यामि कृत्वा रूपचतुष्टयम्

॥१२॥

देवकार्याय तस्मात्त्वं गृहं गत्वा महीपते ॥

कुरु राज्यं यथान्यायं पितृपैतामहं महत्

॥१३॥

तथेयं या त्वया वापी निर्मिता विमलोदका ॥

राजवापीति विख्याता लोके सेयं भविष्यति

॥१४॥

अस्यां स्नात्वा नरो भक्त्या य एनां पूजयिष्यति ॥

श्रद्धया परया युक्तः संप्राप्ते पंचमीदिने

॥१५॥

ततः करिष्यति श्राद्धं यावत्संवत्सरं नृप ॥

अपुत्रः प्राप्स्यते पुत्रान्वंशवृद्धिकरान्स हि

॥१६॥

एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥

प्रहृष्टवदनो भूत्वा सोऽपि राजा ययौ गृहम्

॥१७॥

ततः स्तोकेन कालेन तस्य पुत्रचतुष्टयम् ॥

संजातं लोके विख्यातं कलत्रत्रितयस्य च

॥१८॥

कौशल्यानाम विख्याता तस्य भार्या सुशोभना ॥

ज्येष्ठा तस्यां सुतो जज्ञे रामाख्यः प्रथमः सुतः

॥१९॥

तथान्या कैकयी नाम तस्य भार्या कनिष्ठिका ॥

भरतो नाम विख्यातस्तस्याः पुत्रोऽभवत्त्वसौ

॥२०॥

सुमित्राख्या तथा चान्या पत्नी या मध्यमा स्थिता ॥

शत्रुघ्नलक्ष्मणौ पुत्रौ तस्यां जातौ महाबलौ

॥२१॥

तथान्या कन्यका चैका बभूव वरवर्णिनी ॥

ददौ यां पुत्रहीनस्य लोमपादस्य भूपतेः

॥२२॥

आनृण्यं भूपतिः प्राप्य एवं दशरथस्तदा ॥

पितॄणां प्रययौ स्वर्गं कृतकृत्यस्तथा द्विजाः

॥२३॥

अथ राजाऽभवद्रामः सार्वभौमस्ततः परम् ॥

रावणो येन दुर्धर्षो निहतो देवकंटकः

॥२४॥

येन रामेश्वरश्चात्र निर्मितो लक्ष्मणेश्वरः ॥

सीतादेवी तथा मूर्ता येन चात्र प्रतिष्ठिता

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये राजस्वामिराजवापीमाहात्म्यवर्णनंनामाष्टनवतितमोऽध्यायः ॥ ९८ ॥